________________ [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१० दक्षिणे हे ||4|| दक्षिणे दस्य दी| हे, परे स्याद्,दाहिणो यथा। 'ह' इति किं? स्याद् दक्खिणो, यथा दीर्घोऽत्र नो भवेत्। इस्वप्नादौ // 46| स्वप्नादिषु भवेदित्व-मादेरस्येहतद्यथा-1 सिविणो सिमिणो, आर्षे, उकार:-सुमिणो यथा। सिविणो, ईसि, डिसो, विलिअंविअणं च उत्तिमो मिरिअं। किविणो तथा मुइंगो, दिण्णं चेत्यादि बौद्धव्यम्। णत्याभावे न भवति, बहुलत्यादयं विधिः। यथा 'दत्तं देवदत्तो, नात्रासौ संप्रवर्तते। स्वप्नो मृदङ्गः कूपणो, दत्तो मरिच-चेतसौ। व्यलीक-व्यजने ईषद्, उत्तमश्वेहपठ्यते। पक्षागार-ललाटे वो // 47|| पक्वाङ्गारललाटे-ष्वादेर्वेत्वं, यथा-पिक्कं / पकं, इङ्गालो अ-ङ्गारो, णिडालं णडालं च। मध्यम-कतमे द्वितीयस्य // 48|| मध्यमे चैव कतमे, द्वितीयस्य स्वरस्य तु। इत्वं स्यातां यथा रूपे, 'मज्झिमो' 'कइमो' इमे। सप्तपणे वा // 4 // सप्तपर्णे द्वितीयस्या-कारस्येत्वं विकल्पनात्। छत्तिवण्णौ छत्तवण्णो, स्यातां रूपे इमे यथा।। मयट्यइर्वा // 50 // अइर्मयटि प्रत्यये स्या-दादेरस्य तु वा यथाविषमयः-विसमओ, स्याद् विसमइओऽपिच।। ईर्हर वा // 51 // हरशब्दे हकारस्या-कारं ईत्थं विकल्पतः। यत् समापद्यते तेन, 'हरो हीरो' ऽभिधीयते।। ध्वनि-विष्वचोरुः॥१२॥ ध्वनिशब्दे तथा विष्वक्-शब्देऽकारस्तु यः खलु। तस्योत्वं क्रियते तेन, 'झुणी वीसु' च सिध्यतः।। चण्ड-खण्डिते णा वा // 53| चण्डखण्डितयोरस्य, सणस्योत्वं विकल्प्यते। तेन खण्डं चुडं रूपं, खण्डिओ खडिओ भवेत्॥ गवये वः॥५४|| गवये तु वकारस्या-कारस्योत्वं प्रसज्यते। 'गउओ गउआ चेति, रूपं सिद्धिमुपागमत्॥ प्रथमे प-थोर्वा // 5 // प्रथमस्य पथोरस्य, वोत्वं स्याद्युगपत् क्रमात्। पुटुमं पुढमं तेन, पढुम पढमं तथा। ज्ञो णत्वेऽभिज्ञादौ // 56|| अभिज्ञादिषु शब्देषु, शस्य णत्वे कृतेपुनः। ज्ञस्यैव यस्त्वकारः स्यादुत्वं तस्य विधीयते। यथा-अहिण्णू सव्वण्णू, आगमण्णू कयण्णुआ। 'णत्वे' च किम्? यथा-'सव्व-जो' 'अहिज्जो' भवेदिदम् // 'अभिज्ञादाविति' च किम्? प्राज्ञः पण्णो भवेद् यथा। यत्रोत्यं ज्ञस्य णत्वे स्यात्, सोऽभिज्ञादिगणः रसूतः।। एच्छय्यादौ // 57|| शय्यादिषु भवेदेत्त्व-मकारस्यादिमस्य तु। सेज्जा एत्थच सुन्देरं, गेन्दुअंचेवमादयः॥ आर्षे पुराकर्मपदं, पुरेकम्मं प्रयुज्यते। वल्ल्युत्कर-पर्यन्ताश्चर्ये वा // 58|| वल्ल्युत्करपर्यन्ता-श्वर्येऽकारस्य वैत्त्वमादिभुवः। तेन हि वेल्ली वल्ली, उक्केरो उक्करो, भवति।। पेरन्तौ पञ्जन्तो, अच्छेरं अच्छरिजं च। अच्छरिअं अच्छअरं, तथाऽच्छरीअं विनिर्दिष्टम्। ब्रह्मचर्ये चः॥४८|| ब्रह्मचर्ये चकारस्या-कार एत्वमवाप्नुयात्। अतो बुधा ब्रह्मचर्य, बम्हचेरं प्रयुञ्जते॥ तोऽन्तरि॥६०|| अन्तःशब्दे तकारस्या-कारम्यत्त्वं विधीयते। तस्मादन्तःपुरं 'अंते-उरं' विद्वद्भिरुच्यते।। अन्तश्चारीभवेदन्ते-आरी,नाये क्वचिद् विधिः। यथा- 'अंतग्गयं 'अंतो,वीसम्भो' विनिगद्यते।। ओत्पद्ये // 61 / / ओत्त्वमादेरतः पद्म-शब्दे, 'पोम्म' ततो भवेत् / पद्म-छोति।व।२।११। सूत्रेण, विश्लेषे 'पउम' स्मृतम्॥ नमस्कारपरस्परे द्वितीयस्य // 6 // द्वितीयस्याऽत औत्वं स्यात्, नमस्कारपरस्परे। अतो रूपे सुनिष्पन्नं-'नमोक्कारो' 'परोप्परं' / / वा // 63|| आदेरस्य तु चौत्त्वं स्याद्, धातावर्पयतौ यथा--| रूपं ओप्पेइ अप्येइ, औप्पिअं अप्पिअंभवेत्॥ स्वपावुच // 6|| 'स्वप्' धातौ क्रमतः स्याता-मादेरस्यौदुतौ स्वरौ / तेन 'सोवइ सुवइ,'द्वयं रूपं विभाष्यते॥ नात्पुनर्यादाइ वा // 65 / / नञः परे 'पुनः' शब्दे, यस्त्वकारोऽस्ति तस्य तु। 'आ आई' इत्यादेशौ वा, स्यातामित्यभिधीयते।। 'न उणा न उणाई' स्याद्, न उणो न उण' द्वयम्। केवलस्यापि यद् रूपं, 'पुणाइ' वापि दृश्यते॥ वाऽलाब्बरण्ये लुक् // 66 // अलाब्वरण्ययोर्याऽऽदे-रकारस्येह लुब्भवेत्। लाउं अलाउं वा लाऊ,अलाऊ च विकल्पनात्॥ एवं रण्णं अरण्णं स्यात्, 'अत इत्येव' नान्यथा। 'आरण्ण-कुञ्जरो' नैवे-त्यादावालोप इष्यते // वाऽव्ययोत्खातादावदातः॥६७।। अव्ययेषु तथोत्खाता-दिष्वाकारस्य वाऽद् भवेत्। तत्राऽव्यये 'जह जहा,' रूपं 'तह तहा' तथा।। 'व वा' 'ह हा' 5 'हवाऽहव'-प्रमुखा बहवो मताः / उत्खातादौ तु-उक्खायं, उक्खयं, चमरो तथा / / चामरो, कलओ काल-ओ परिठ्ठाविओ पुनः। स्यात् परिहवियो, संठ-विओ संठविओ पदम्।।