________________ (83) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] 'जसो पओ तमो तेओ, उरो' सान्ते निदर्शनम्। 'जम्मो नम्मो तथा मम्मो, नान्ते लक्ष्यमिदं मतम् / / 'अदामेत्यादि' किं प्रोक्तम्?, यथा-दामं सिरं नह। वाऽक्ष्यर्थ-वचनाद्याः॥३३।। वे चाक्षिवाचकाः शब्दा-स्तथा ये वचनादयः। ते पुंसि संप्रयोक्तव्याः,सर्वेऽपीह विकल्पनात्॥ तत्राक्ष्यथां यथा-'अच्छी, अच्छीई'चापि गद्यते। अञ्जल्यादिगणे पाठात्, ‘एसा अच्छी क्वचिद् भवेत्।। चक्खू चक्खूइँ, नयणा, नयणाई च, लोअणा। लोअणाइं च, वचना-दिर्यथा-वयणा तथा / / क्यणाई, विज्जुणा तु,विजुए च, कुलो कुलं। छन्दो छन्दं च, माहप्पो, माहप्पं, भायणाइँ तु॥ भायणाच, तथा दुक्खा, दुक्खाई चेति भण्यते। नेत्ता नेत्ताइमित्यादेः, सिद्धिः संस्कृतवद् भवेत्॥ गुणाद्याः क्लीवे वा // 34 // क्लीवे गुणादयः शब्दाः प्रयोक्तव्या विकल्पतः। गुणा गुणाई, देवाणि, देवा, विन्दुइँ विन्दुणो / खागं खग्गो, मण्डलग्गं, मण्डलग्गोऽपि भण्यते। कररुहं कररुहो, रुक्खा रुक्खाइँ चेत्यपि॥ वेमाजल्याद्याः स्त्रियाम्॥३५॥ येतु शब्दा इमान्ताः स्यु-स्तथाऽजल्पादयश्च ये। ते सर्वे वा स्त्रियां वाच्या-स्तदुदान्हियते यथा--|| गरिमा, महिमा निल्ल-जिमा च धुत्तिमाऽणिमा। एते स्त्रीपुंसयोर्बोध्याः, अथाञ्जल्पादिरुच्यते। अंजली चोरिआ पिट्ठी, तथा पिटुं च चोरिअं। अच्छी अच्छिंच वा पण्हा,पण्हो कुच्छी बली निही। गण्ठी रस्सी विही चैतो-दृशोऽञ्जल्यादिरिष्यते। 'गड्डा गड्डो' ऽनयोः सिद्धि-स्त्र संस्कृतवन्मता। इमेति तन्त्रमाश्रित्य, कार्य्यद्वयमिहेष्यते॥ त्वादेशस्य डिमेत्यस्य, पृथ्वीदीम्नश्च संग्रहः। त्वादेशस्य सदा स्त्रीत्व-मिच्छन्त्येके विपश्चितः।। वाहोरात् // 36|| आकारो बाहुशब्दस्य, स्त्रीत्वेऽन्तादेश इष्यते। "बाहाए जेण धरिओ, एक्काए' इति दृश्यते।। अतो मो विसर्गस्य॥३७॥ अतः परः संस्कृतोत्थो,यो विसर्गो भवेदिह। तस्य स्थाने तु 'मो' होता-दृशादेशो विधीयते॥ सर्वतः सव्वओ, तेन, पुरतः पुरओ तथा। अग्रतस्त्वग्गओवाच्यो, मार्गतो मग्गओऽपिच। सिद्धावस्थापेक्षयाऽपि, भवतो भवओ तथा। भवन्तस्तु भवतो स्यात्, सन्तः संतो, कुतः कुदो। निष्प्रती ओत्परी माल्य-स्थोर्वा ||35|| निष्प्रती ओत् परी वा स्तः,परे माल्ये च तिष्ठतौ। अत्र योऽभेदनिर्देशः,सच सर्वार्थ इष्यते। ओमालं वाऽपि निम्मल्लं, पइट्ठा परिहा तथा।। आदेः॥३६॥ आदेरित्यधिकारोऽयं, 'कगचा-८/१।१७७: ऽवधिको मत इतः परस्तु यः स्थानो, तस्यादेः कार्य्यमिष्यते॥ त्यदाद्यव्ययात् तत्स्वरस्य लुक् // 40 // त्यदाद्यव्ययशब्दाभ्यां,यौत्यदाद्यव्ययौ परौ। तयोरादेः स्वरस्येह, बहुलं लुग विधीयते।। अम्हे एत्थ यथाऽम्हेत्थ, जइइमा जइमाऽपि वा। जइअहंजइहं, चैव-माद्यं वेद्यं निदर्शनम् / / पदादपेर्वा // 41|| पदात्परो योऽपिशब्दस्तस्यादेऽत्र लुग्भवेत्। यथा-केण विकेणावि, वा, तं पि तमवीष्यते। इतेः स्वराउतश्च द्विः॥४२| इतिः पदात् परो यत्र, तस्येकारो विलुप्यते! स्वरात्परस्तकारस्तु, तदीयो द्वित्वमाप्नुयात्।। स्यात् किं तिजं ति दिट्ठ ति, 'न जुत्तं ति' स्वराद् यथातह त्ति झ त्ति पीओ त्ति,पुरिसो त्ति निगद्यते॥ लुप्त-य-र-व-श-ष-सांशषसां दीर्घः // 43 // येषामुपर्यधस्ताद्वा, शषसां यान्ति लोपताम्। यरवाः शषसा वाऽपि, तेषां स्यादादिदीर्घता॥ शस्य यलोपे 'पश्यति, पासई' ति निगद्यते। 'कश्यपः कासवो' 'आव-श्यकमावासयं' तथा। रस्य लोपेतु 'विश्रामः, वीसामो' संप्रयुज्यते। 'विश्राम्यति वीसमइ,' मिश्रमीसंच भण्यते॥ वलोपे त्वश्व आसो स्यात्, शलोपेतु मनः शिला। मणासिला, च दुःशास-नोऽपि दूसासणो भवेत्। षकारस्य यलोपे तु, शिष्यः सीसोऽभिधीयते। तथा रलोपे वर्षास्तु, वासा चाथ वलोपने-। विष्वाणः स्याच वीसाणो, विष्वक् वीसुंच भाष्यते। षस्य लोषे तु निष्षिक्तो,नीसित्तो, सस्य लोपने। सस्यं सासं कस्यचित्तु, कास-ईतिरलोपने // उस ऊसोच विश्रम्भः, वीसम्भोऽथवलोपने। निःस्वःनीसो, सलोपेतु, निस्सहः नीसहो भवेत्॥ अतः समृद्ध्यादौ वा॥४४|| समृद्ध्यादिषु दीर्घः स्या-दकारस्याऽऽदिमस्य वा। सामिद्धी च समिद्धी, भवति पसिद्धी च पासिद्धी। पयडं तु पायडं स्यात्, पाडिवआ पडिवआ वेद्या।। पासुत्तो च पसुत्तो, पडिसिद्धी पाडिसिद्धी स्यात्। सारिच्छोऽपि सरिच्छो, तथा मणंसी च माणंसी॥ माणंसिणी मणसिणी, अहिआई आहिआई वा। पारोहो तु परोहो, भवति पवासू च पावासू॥ पाडिप्फद्धी पडिप्फद्धी, समृद्धयादिरयं गणः // समृद्धिः प्रतिषिद्धिश्च, प्रतिस्पर्धी मनस्विनी। प्ररोहः प्रकटः प्रतिपत्, प्रसुप्तोऽथाभियाति च / सदृक्षश्च मनस्वीच, प्रवासी चैवमादायः। तेन प्रवचनं पाव-यणं, अस्पर्श आफँसो। परकीयं पारकेर, पारकं चापि पठ्यते। चतुरंतं चाउरतं, इत्याद्यपि च सिद्धयति।