________________ [सिद्धहेम०] (86) अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] सढिलं भवति पसढिलं, सिढिलं पसिढिलमिहाऽत्त्ववैकल्प्यात्। इड्डअमङ्गुअमिखुद-शब्दे रूपद्वयं बोध्यम्। तित्तिरौ रः ||10|| रस्येतोऽत्त्वं तित्तिरौ स्यात्, तेन रूपं हि 'तित्तिरो। _ इतौ तो वाक्यादौ ||1|| वाक्यादेरितिशब्द-स्याऽन्त्यस्येतोऽत्र संभवत्यत्त्वम्॥ 'इअ' जम्पिआवसाणे,'इअ' विअसिअ-कुसुमसरोऽपीह। ईर्जिह्वा-सिंह-त्रिंशदिशतौ त्या ||2|| जिहादिषु इकारस्थ, ईकारः संप्रयुज्यते। 'जीहा' सीहो 'तथा' 'तीसा',यत्न तिस्तत्र त्या सह॥ 'वीसा' इति भवेद् रूपं, किन्तु कापि न जायते। 'सिंहदत्तो' 'सिंहराओ' इति बाहुलकान्मतम्॥ लुकि निरः // 6 // निरो रलोपे दीर्घः स्या-दिकारस्येति शब्द्यते। स्थाद् 'नीसासो' 'नीसरइ,' एवमन्यन्निदर्शनम्॥ 'लुंकीति' किम्? यथा-निस्स-हाई अंगाइँ निण्णओ। द्विन्योरुत्।।६४|| द्विशब्दे न्युपसर्गे च, भवेदुत्त्वमितो यथा-1 दु-मत्तोच दु-आई च, दु-रेहो दु-विहो तथा।। दुवयणं, वैकल्प्यं च, भवेद्बाहुलकादिह। दु-उणो बि-उणो चैव, दुइओ बिइओ यथा।। 'क्वचिन्न' द्विरदः शब्दो, 'दिरओ' स्याद् द्विजो 'दिओ'। ओत्वं वापि यथारूपं, 'दो-वयणं' प्रपठ्यते॥ स्याद् 'गुमन्नो' णुम-जइ, न्युपसर्गे निदर्शनम्। अनित्यत्वाद् 'निवडइ,' भवतीत्यादि भूरिशः।। प्रवासीक्षौ |5|| इक्षौ प्रवासिनि तथा, भवेदुत्त्वमितो, यथा-1 'उच्छू 'पावासुओ' चैतद्, द्वयं व्याहियते पदम्॥ युधिष्ठिरे वा // 66|| युधिष्ठिरे भवेदादे-रित उत्त्वं विकल्पनात्। जहुट्ठिलो ततो रूपं, विकल्पेन जहिहिलो॥ ओच द्विधा कृगः // 67|| उत्त्वमोत्त्वं द्विधाशब्दे, वा कृग्धातावितः परे। 'दोहा-किज्जइ' तेन स्यात्, 'दुहा-किज्जइ' इत्यपि / दोहा-इअंदुहा-इअ-मिति, 'कृग' इति किं?'दिहाऽऽगयं येना क्वचित् केवलस्य स्यात्, 'दुहा वि सो सुर-यह-सत्थो'। वा निझरे ना // 8|| निझर तु नकारेण, सहेतो वौत्त्वमिष्यते। 'ओज्झरो' 'जिज्झरो' चैता-दृशं रूपं बुधा विदुः॥ हरीतक्यामीतोऽत् IEl हरीतकीपदे रीका-रस्येतोऽत्त्वं विधीयते। रूपं हरडई तेन, बुधैरेवं प्रयुज्यते। आत् कश्मीरे // 100l आत्त्वमीतोऽस्तु कश्मीरे, कम्हीरा' तेन सिद्ध्यति / पानीयादिष्वित्॥१०१|| पानीयादिषु शब्देषु, स्यादीतोऽत्रेत्त्वमध्रुवम्। पाणि अलिअं ओसि-अंतं जिअइ आणिअं। विलिअंकरिसो वम्मि-ओ तयाणिं च जीअउ ! दुइअंतइअंगहिरं, गहिअंसिरिसोच पलिविअंपसिअ॥ उवणिअमिति संवेद्यः, पानीयादिर्गणो विदुषा। बाहुलकात् क्वचिदेषु, स्याद् वैकल्प्यं ततः करोसोऽपि॥ पाणीअंच अलीअं, उवणीओजीअइ स्याच।। पानीथं ब्रीडितं वल्मी-कं तदानी प्रदीपितम्। अवसीददलीकं चा-नीतं जीवति जीवतु / / उपनीतं गृहीतं च, शिरीषं च प्रसीद च। गभीरतृतीयकरी-षद्वितीयादयःस्मृताः।। उजीर्णे॥१०२।। जीर्णशब्दे भवेदीत-उत्त्वं जुण्ण-सुराततः। जिण्णे भोअणमत्ते च,नात्र बाहुलकाद् भवेत्।। ऊहीन-विहीने वा / / 103 / / ऊत्वं हीने विहीने स्या-दीकारस्य विभाषया। हूणो हीणो विहीणो च, विहूणो सिद्धिमाययुः॥ तीर्थ हे // 10 // ऊत्वमीतो भवेत् तीर्थ-शब्दे हेतु कृते सति। तूहं, 'हे' इति किं प्रोक्तम्?'तित्थं नात्र यथा भवेत्।। ___एत् पीयूषापीड-विमीतक-कीदृशेदृशे // 105 / / पीयूषापीड-बिभीतक-कीदृशेदृशेषु स्यादेत्त्वम्। पेऊस आमेलो, बहेडओ केरिसो ऍरिसो॥ नीड-पीठे वा / / 106|| नीडपीठयोरीतो, वा स्यादेत्त्वं ततश्च सिद्धयन्ति। नेडं नीड पेढे, पीढं वाप्यन्यथाऽपि स्यात्।। उतो मुकुलादिष्वत् // 107 / / मुकुलादीनामादे-रुतो भवेदत्त्वमत्र तेन स्युः। मउलं मउलो मउरं, मउडे अगरुंगलोई च। जहिडिलोऽथ च गरुई, जहुट्ठिलो सोअमल्लमिति शब्दाः। क्वचिदाकारोऽपि स्याद्, यथा-विद्रुतस्तु 'विद्याओ' || मुकुलो मुकुरो गुर्वी ,सौकुमार्य-युधिष्ठिरौ। अगुरुश्च गुडूची च, मुकुटं मुकुलादयः॥ वोपरौ // 108|| उपरौ स्यादुतो वाऽत्त्वम्, अवर उवरि यथा। गुरौ के वा // 106 / / गुरोः कृते स्वार्थिक के, वाऽत्वमादेरुतो भवेत्। गरुओ गुरुओ रूपे, कं विना तु 'गुरू' स्मृतम्। इभृकुटौ // 110|| भृकुटौ स्यादुतश्चादे-रित्वं हि 'भिउडी' भवेत्। पुरुषे रोः // 111 // पुरुषे रोरुतः स्यादिः,पुरिसो वा पउरिसं। ईःसुते // 11 // क्षुतं प्रयुज्यते छीअं. भवेदीत्वमुतो यदा। ऊत् सुभग-मुसले वा / / 113 / / सुभगे मुसले चस्या-दुत ऊत्त्वं विभाषया। सुहवो सूहवो तेन, मुसलं मूसलं भवेत्॥ अनुत्साहोत्सन्ने त्सच्छे॥११४॥ उत्साहोत्सन्नभिन्ने यौ, शब्दे त्सच्छौ निरीक्षितौ / तयोरादेरुकारस्य, नित्यमूत्त्वं विधीयते / /