________________ अभिणिसज्जा 724 - अभिषानराजेन्द्रः - भाग 1 अभिणिसज्जा कस्यां वेलायाम् ? इत्यत आह - आवस्सयं तु काउं, निव्वाघाएण होइ गंतव्वं / वाघाएण उभयणा, देसं सव्वं अकाऊण / / व्याघातस्यस्तेनादिप्रतिबन्धस्याभावो निर्व्याघातः, तेन निर्व्याघातेन भवति गन्तव्य वसतेराचार्यैः सममावश्यकं कृत्वा।व्याघातेन पुनर्हेतुभूतेन भजना विकल्पना / का भजना ? इत्यत आह- देशं वा आवश्यकस्याकृत्वा, सर्वं वाऽवश्यकमकृत्वा। सम्प्रति यैः कारणैः प्रतिबन्धस्तान्युपदर्शयतितेणा सावय-वाला, गुम्मियआरक्खिठवणपडिणीए। इत्थिनपुंसगसंसत्तवासचिक्खिल्लकंटेय॥ स्तेनाश्चौरास्ते संध्यासमये अन्धकारकलुषिते संचरन्ति, श्वापदानि वा दुष्टानि भूयांसि तदा उदृप्तानि हिण्डन्ते, व्याला वा भुजङ्गमादयो वातादिपानाय भूयांसः संचरन्ति, तथा गुल्मेन समुदायेन संचरन्तीति गौल्मिका आरक्षिकाणामप्युपरि स्थायिनो हिण्डकाः, आरक्षकाः पुररक्षकाः, ते अकाले हिण्डमानान् गृह्णन्ति / तथा(ठवण त्ति) क्वचिद्देशेएवंरूपास्थापना क्रियते। यथा- अस्तमिते सूर्ये रथ्यादिषु सर्वथा न संचरणीयमिति, प्रत्यनीको वा कोऽप्यन्तरादिघातकरणार्थ तिष्ठन् वर्तते, स्त्रियो नपुंसका वा कामबहुलास्तदा उपसर्गयेयुः, संसक्तो वा प्राण-जातिभिरपान्तराले मार्गः, ततोऽन्धकारेणेयर्यापथिका न शुद्ध्यति / वर्ष वा पतत् संभाव्यते, (चिक्खिल्ल त्ति) कर्दमो वा पथि भूयानस्ति, ततो रात्रौ पादलग्नः कर्दमः कथं क्रियते ? (कंटेत्ति) कण्टका वा मार्गेऽतिबहवः, ते रात्रौ परिहर्तुं न शक्यन्ते / एतै-व्याघातकारणैः समुपस्थितैः देशतः सर्वतो वाऽऽवश्यकमकृत्वा गच्छन्ति / तत्र देशतः कथमकृत्वेत्यत आह - थुतिमंगल कितिकम्मे,काउस्सग्गे य तिविहकियिकम्मे / तत्तो य पडिक्कमणे, आलोयणयाएँ कितिकम्मो॥ स्तुतिमङ्गलमकृत्या, स्तुतिमङ्गलाऽकरणे चाऽयं विधिः- आवश्यक समाते द्वे स्तुती उच्चार्य तृतीयां स्तुतिमकृत्वा अभिशय्यां गच्छन्ति / तत्र च गत्वा ऐर्यापथिकी प्रतिक्रम्य तृतीयां स्तुतिं ददति / अथवा आवश्यके समाप्ते एका स्तुतिं कृत्वा द्वे स्तुती अभिशय्यां गत्या पूर्वविधिनोचारयन्ति / अथवा समाप्ते आवश्यकेऽभिशय्यां गत्वा तत्र तिस्रः स्तुतीर्ददति / अथवा स्तुतिभ्यो यद् वक्ति, तत् कृतिकर्म, तस्मिन्नकृते तेऽभिशय्यां गत्वा तत्रैर्यापथिकी प्रतिक्रम्य मुख-वस्त्रिका च प्रत्युपेक्ष्य कृतिकर्म कृत्वा स्तुतीर्ददति। (काउस्सग्गे य तिविह त्ति) त्रिविधे कायोत्सर्गे क्रमेणाकृते,तद्यथा- चरमकायोत्सर्गमकृत्या अभिशय्यां गत्वा तत्र चरमकायोत्सर्गादिकं कुर्वन्ति / अथवा द्वौ कायोत्सर्गी चरमावकृत्वा, यदि वा त्रीनपि कायोत्सर्गान् अकृत्वा, अथवा कायोत्सर्गेभ्योऽक्तिनं यत् कृतिकर्म, तस्मिन् अकृते, उपलक्षणमेतत्, ततोऽप्यक्तिने क्षामणे, यदि वा ततो-ऽप्यक्तिने कृतिकर्मणि अकृते, अथवा ततोऽप्यक्तिने प्रति-क्रमणे अकृते, यदि वा ततोऽप्यक्तिने आलोचने अकृते, अथवा ततोऽप्यारात्तने कृतिकर्मणि अकृते, अभिशय्यामुपगम्य तत्र तदाद्यावश्यक कर्तव्यमिति / एवमावश्यकस्य देशतोऽकरणमुक्तम्। इदानीं सर्वस्याऽकरणमाह - काउस्सग्गमकाउं, कितिकम्मालोयणं जहण्णेणं / गमणम्मी एस विही, आगमणम्मी विहिं वोच्छं। यो दैवसिकानि वारानुप्रेक्षार्थ प्रथमः कायोत्सर्गः, तमप्यकृत्या / किमुक्तं भवति ? सर्वमावश्यकमकृत्वाऽभिशय्यां गच्छन्ति, किमेवमेय गच्छन्ति ? उताऽस्ति कश्चन विधिः? उच्यते- अस्तीति बूमः। तथा चाऽऽह- (कितिकम्मालोयणं जहण्णेणं ति) जघन्येन जघन्यपदे सर्वमावश्यकमकृत्या, सर्वे गुरुभ्यो वन्दनं कृत्वा, यश्च सर्वोत्तमो ज्येष्ठः, स आलोच्य, तदनन्तरमभिशय्यां गत्वा सर्वमावश्यकमहीनं कुर्वन्ति / एषोऽभिशय्यायां गमने / अभिशय्यातः प्रत्यागमने पुनर्यो विधिस्तमिदानी वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिआवस्सगं अकाउं, निव्वाघाएण होइ आगमणं / वाघायम्मि उ भयणा, देसं सव्वं च काऊणं॥ यदि कश्चनाऽपि व्याघातो न भवति, ततो निर्व्याघातेन व्याघाताऽभावेनाऽऽवश्यकमकृत्वाऽभिशय्यातो वसतावागमनं भवति / आगत्य च गुरुभिः सहाऽऽवश्यकं कुर्वन्ति / व्याघाते तु भजना। का पुनर्भजना? इत्यत आह-देशमावश्यकस्य कृत्वा, सर्व वा आवश्यकं कृत्वा / तत्र देशत आवश्यकस्य करणमाह - काउस्सग्गं काउं, कितिकम्मालोयणं पडिक्कमणं / किइकम्मं तिविहं वा, काउस्सगं परिण्णा य॥ कायोत्सर्गमाद्यं कृत्या वसतावागत्य शेषं गुरुभिः सह कुर्वन्ति। अथवा द्वौ कायोत्सर्गों कृत्वा, यदि वा त्रीन् कायोत्सर्गान कृत्वा, अथवा कायोत्सर्गत्रयानन्तरं यत् कृतिकर्म तत्कृत्वा, अथवा तदनन्तरमालोचनामपि कृत्वा, यदि वा तत्परं यत्प्रतिक्रमणं, तदपि कृत्वा, अथवा तदनन्तरं यत्कृतिकर्म द्विभेदं, तत्क्षामणादक्तिनं, परं चेत्यर्थः, तदपि कृत्वा / पाठान्तरम् - ''तिविहं ते वि'' मूलकृतिकर्माऽपेक्षया त्रिविधं वा कृतिकर्म कृत्वा / अथवा कायोत्सर्ग चरम पाण्मासिकं कृत्वा, परिज्ञा प्रत्याख्यानं, तामपि वा कृत्वा / अत्राऽयं विधिः- सर्वे साधवश्वरमकार्योत्सर्ग वसतावागत्य गुरुसमीपे वन्दनकं कृत्वा, सर्वोत्तमश्च ज्येष्ठ आलोच्य, सर्वे प्रत्याख्यानं गृह्णन्ति / अथवा- सर्वभावश्यकं कृत्वा, एकां च स्तुतिं दत्त्वा, शेषे द्वे स्तुती कृत्वा, शेषं गुरुसकाशे कुर्वन्ति / तदेवमुक्तं देशत आवश्यकस्य करणम्। अधुना सर्वतः करणमाह - थुति मंगलं च काउं, आगमणं होति अभिनिसिज्जातो। बितियपदे भयणा ऊ, गिलाणमादी उ कायव्वा // अथवा प्रत्याख्यानं, तदनन्तरं स्तुति, मङ्गलं च स्तुतित्रयाऽऽकर्षणरूपं तत्र कृत्वा अभिशय्यात आगमनं भवति / तत्रेयं सामाचारीगुरुसमीपे ज्येष्ठ एक आलोचयति, आलोच्य प्रत्याख्यानं गृह्णाति, शेषैः ज्येष्ठस्य पुरत आलोचना। प्रत्याख्यानं च कृतं, वन्दनक च सर्वे ददति, क्षामणं च। द्वितीयपदे अपवादपदे ग्लानादिषु प्रयोजनेषु भजना कर्तव्या। किमुक्तं भवति ? ग्लानादिकं प्रयोजनमुद्दिश्य वसतौ नाऽऽगच्छेयुरपीति। ग्लानादीन्येव प्रयोजनान्याह - गेलण्ण वास महिआ, पदुट्ट अंतेउरे निवे अगणी। अहिगरणहत्थिसंभम-गेलण्ण निवेयणा नवरिं।