________________ अभिणिसजा 723 - अभिधानराजेन्द्रः - भाग 1 अभिणिसज्जा भद्रेष्वनुत्कट रागद्वेषेषु लाकेषु प्रागुक्ताः स्त्र्यादिसमुत्था दोषा न सन्ति,तत्राभिशय्यामपि गच्छन्नाचार्यः शुद्धः, इतरेऽपि ये अनापृच्छया गच्छन्ति, येऽपिच प्रतिषेधितास्तेऽपिच यतनया गच्छन्ति। का यतना? इति चेदत आह - वसतीऍ असज्झाए, सन्नादिगतो य पाहुणो दट्टुं। सोउं व असज्झायं, वसहिं उवें ति भणइ अन्ने / वसतावस्वाध्यायो जातो, गुरवश्च संज्ञाभूम्यादिषु गताः, ततोऽस्वाध्याये, तथा स्वयं (संज्ञादिगतः) संज्ञाभूमिम्, आदिशब्दादन्यद्वा स्थानं प्रयोजनेनगतः सन् प्राघूर्णकान्समागच्छतो दृष्ट्वा नूनमस्माकं वसतिः संकटा प्राघूर्णकाश्च बहवः समागताः, ततो न सर्वेषां संस्तारकयोग्यभूमिरवाप्यते इति विचिन्त्य, तथा पूर्व वसतावस्वाध्यायो नाभूत् संज्ञादिगतेन च तेन श्रुतं, यथा- जातो वसतावस्वाध्यायस्ततोऽस्वाध्यायं च श्रुत्वा यावद् गुरूणां प्रष्टुं वसतावागच्छति तावद् रात्रिः समापतति, दूरे चाऽभिशय्या, रात्रौ च गच्छतामारक्षकभयं, ततोऽनापृच्छ्यैव ततः स्थाना-दभिशय्यां गच्छति, केवलं येऽन्ये साधयो वसतिमुपयन्ति, तान् भणति प्रतिपादयति, संदिशतीत्यर्थः / किं तद् ? इत्याह - दीवेह गुरूण इम, दूरे वसही इमो विकालो य। संथारकालकाइय-भूमीपेहट्ठ एमेव / / दीपयत प्रकाशयत कथयतेति यावत् / गुरूणां, यथा- दूरे वसतिरभिशय्या / अयं च प्रत्यक्षत उपलभ्यमानो विकालः सभापतितः,तत एवमेव अनापृच्छयैव युष्मान, संस्तारकभूमेः कालभूमीनां कायिकीभूमीनां (कायिकी संज्ञा) उपलक्षणमेतत् - प्रश्रवणभूमीनां च प्रेक्षाऽर्थमभिशय्यां गत इति / एवमनापृच्छायामपवाद उक्तः। सम्प्रति प्रतिषिद्धेऽपवादमाह - एमेव य पडिसिद्धे, सण्णादिगयस्स कंचि पडिपुच्छे। तं पिय होढा असमि-क्खिऊण पडिसेहितो जम्हा।। कस्यापि साधारभिशय्यादिगमने गुरुणा प्रतिषिद्धे, संज्ञा-दिगतस्य कायिक्यादिगतस्य कायिक्यादिभूमिगतस्य सत एवमेवमनन्तरोक्तेन प्रकारेण, गुरून् प्रति संदेशकथनं ज्ञातव्यम्। कथम् ? इत्याह - (कंचि पडिपुच्छे त्ति) कमपि वृषभं प्रतिपृच्छत्- यथा न मम किमपि गमनप्रतिषेधकारणमभूत्, केवलमेवमेव गुरुणा प्रसिद्धः, अथ च मया स्वाध्यायः कर्तव्यः, वसतौ वा अस्वाध्यायादिकमुपजातमतः किं करोमि ?, यामि वसति, प्रतिपृच्छामि गुरुमिति / एवमुक्ते ते वृषभादयोऽभिशय्यां गन्तुकामाः कालस्य स्तोकत्वात्यावद्वसतौ गत्वा गुरून प्रतिपृच्छय समागच्छन्ति, तावद् रात्रिः पततीति तं प्रत्येवमुदीरयन्ति। (तं पिय०इत्यादि) तदपि गुरूणां प्रतिपृच्छनं (होढा इति) देशीपद-मेतत् / दत्तमेव, कृतमेवेत्यर्थः / यस्मादसमीक्ष्याऽपर्यालोच्य, अनाभोगत एवेत्यर्थः / त्वं प्रतिषेधितः, ततो यदत्र किमपि गुरवो वक्ष्यन्ते, तत्र वयं प्रत्याख्यामः, यथैष न किमपि गमनप्रतिषेधकारणं कृतवान्, प्रतिपृच्छार्थं चाऽऽगच्छन् अस्माभिर्वारितः, तावत्कालस्याऽप्राप्यमाणत्वात्। एवमुक्त्वा बलादपि तं वृषभा नयन्ति, सोऽपि च बलात् नीयमानश्चिन्तयति- यथा नाऽस्ति मम कश्चिद् दोषः? किं न गच्छामीति। स च तत्र गच्छन्, वृषभाश्च येऽन्ये साधवो वसतिमुपयान्ति, तेषां संदेशं प्रयच्छन्ति। अथाऽसमीक्ष्य प्रतिषिद्ध इति वृषभाः कथं जानन्तीत्यत आह - जाणंति व तं वसभा, अहवा वसभाण तेण सब्भावो। कहितो न मेऽस्थि दोसो, तोणं वसभा बला निति / / जानन्ति स्वयमेव तं वृषभाः, यथा- निर्दोष एषोऽकारणे गुरुणा प्रतिषिद्धः, अस्मत्समक्षमेवाऽस्य प्रायोऽवस्थानात् / अथवा तेन वृषभाणां सद्गावः कथितः, यथा- न मे कश्चन दोष इति। तत एतद् ज्ञात्वा गुरुमनापृच्छयैव यथोक्तप्रकारेण वृषभा बलात् नयन्ति / योऽपि आचार्यस्य प्रतिचारी पूर्व प्रतिषिद्धः, सोऽपि- 'तत् कर्तव्यं, यद् वृषभैः सम्पादितं भवति' इति ज्ञात्वा ततो गच्छत्यभिशय्यामिति न कश्चिद् दोषः। संप्रति अभिशय्याया नैषेधिक्याश्च भेदानाह - अभिसेजमभिनिसीहिय, एक्केका दुविहा होइनायव्वा। एगवगडाए अंतो, बहिया संबद्धसंबद्धा॥ या गन्तव्या अभिशय्या, अभिनषेधिकी वा, सा एकैका द्विविधा भवति / तद्यथा- साधुवसतेः (एगवगडाए इति) एकवृत्ति-परिक्षेपायाभन्तर्बहिश्च / इयमत्र भावना- द्विविधा अभिशय्या, एका वसतेरेकवृत्तिपरिक्षेपाया अन्तः, अपरा बहिः / एवं नैषेधिक्यपि द्विविधा भावनीया / भूय एकैकाऽभिशय्या द्विविधा / तद्यथा- संबद्धा, असंबद्धा च। तत्र यस्या अभिशय्याया वसतेश्च एक एव पृष्ठवंशः, सासंबद्धा / यस्याः पुनः पृथक् पृष्ठवंशः, सा असंबद्धा। अथैकवृत्तिपरिक्षेपस्यान्तरभिशय्या द्विविधाऽपि यथोक्तप्रकारा घटते, या त्वेकवृत्तिपरिक्षेपस्य बहिः सा नून- मसंबद्धा स्यात्, तस्याः सुप्रतीतत्वात् / या पुनः संबद्धा, सा कथमुपपद्यते ? उच्यते- यस्या अभिशय्याया वृत्तिपरिक्षेपस्य बहिर्भूतायाः, वसतेश्व तल्लग्नायाः पृष्ठवंशोऽपान्तराले च भित्तिः, सा बहिर्भूताऽपि संबद्धेति। नैषेधिकी पुनरन्तर्बहिर्वा नियमादसंबद्धैव / हस्तशतस्याऽभ्यन्तरतोऽस्वाध्यायिके समुत्पन्ने स्वाध्याया-संभवात् / तथा चाऽऽह - जासा उ अमिनिसीहिय, सा नियमा होउ ऊ असंबद्धा। संबद्धमसंबद्धा, अभिसेजा होति नायव्वा॥ अत्र येति- अवगते, सेति-यदुक्तं, तदोषाऽभावोपक्रमप्रदर्शनार्थमित्यदुष्टम् / याऽस्य अभिनषेधिकी, सा नियमाद् भवत्यसंबद्धा। कारणमनन्तरमेवोक्तम्, या त्वभिशय्या, सा संबद्धा असंबद्धा च भवति ज्ञातव्या। अथ कस्यां वेलायां तत्र गन्तव्यम् ? तत्र आह - धरमाणचिय सूरे, संथारुचारकालभूमीओ। पडिलेहियऽणुण्णविए, वसहेहि वयंतिम वेलं / / योऽसावभिशय्यायाः शय्यातरस्तं वृषभा अनुज्ञापयन्ति, यथास्वाध्यायनिमित्तं वयमत्र वत्स्याम इति ! तत एवं वृषभैरनुज्ञापिते शय्यातरे, धरमाण एव अनस्तमिते एव सूर्य, तत्राऽभिशय्यायां संस्तारकोचारकालभूमीः प्रत्युप्रेक्ष्य भूयो वसतावागत्य इमां वेलामिति "कालाऽध्वनोाप्तौ''१२।२।२४ / इति (हैम) सूत्रेण सप्तम्यर्थे द्वितीया। अस्यामनन्तरं वक्ष्यमाणायां वेलायां व्रजन्ति।