________________ अभिणिसजा 722 - अभिधानराजेन्द्रः - भाग 1 अभिणिसज्जा एते अनन्तरोदिता आलोचनायां गुणाः, अनालोचनायांदोषा वर्णिताः। सम्प्रति यः प्रायश्चित्तं ददाति, तस्मिन् शोधिमददाने, ददाने च, अयं वक्ष्यमाणो राजकन्यान्तःपुरपालकरूपोऽन्यो दृष्टान्तः / तमेवाह - निजूहादिपलोयण, अवारण पसंगअग्गदारादि। धुत्तपलायण निवकहण दंडणं अन्नठवणं च // "एगो कन्नतेउरपालगो, सो गोखलएण कन्नाओ पलोएतीओ न वारेइ, ततो ताओ अग्गदारेण निफिडिउमाढत्ता, ततो विन वारेइ, ताहे ततो अनिवारित्रमाणीओ कयाइ धुत्तेहिं समं पलायाओ, एवं सव्वमवारणादि केणइ रन्नो कहियं, ततो रण्णा तस्स सव्वस्सहरणं कयं, विणासितोय, अण्णो कण्णतेउरपालो ठवितो'' | अक्षरगमनिका- निहो गवाक्षः, गोखलक इत्यर्थः / आदिशब्दात्तदन्यतथाविधप्रदेशपरिग्रहः / तेन निहादिना प्रलोकने अवारणं कृतवान्, ततोऽग्रद्वारादिष्वपि प्रसङ्गः, अग्र-द्वारे अन्यत्र वा यथास्वेच्छं तासां कन्यानां प्रसङ्गः / ततोऽन्यदा धूर्तः सह पलायनम् / एतस्य च सर्वस्यापि वृत्तान्तस्य नृपस्य पुरतः कथनं, ततो राजा तस्यकन्यान्तःपुरपालकस्य दण्डनम्, अन्यस्य कन्याऽन्तःपुरपालकस्य स्थापनं चाऽकार्षीत्। निजहगयं दटलु, बितिओ कन्नाउ वाहरित्ता णं / विणयं करेइ तीसे, सेसभयं पूयणा रन्ना / / अन्यो द्वितीयः कन्यान्तःपुरपालको निर्मूहगतां गवाक्षगतामेकां कन्या दृष्ट्वा (वाहरित्ता णं ति) एनां व्याहृत्य आकार्य विनयं शिक्षा तस्याः करोति, ततः शेषाणां कन्यानामुदपादि भयं, तेनैव काऽपि गृहद्वारादिषु नावतिष्ठते, न च धूर्त रपहरणम्, ततः सम्यक्-कन्याऽन्तःपुरपालनं कृतवानिति राज्ञा पूजना कृता। एष दृष्टान्तः। अयमर्थोपनयःराया इव तित्थयरा, महतरय गुरू उ साहु कण्णाओ। ओलोयण अवराहा, अपसत्थपसत्थगोवणओ] राजा इव राजस्थानीयास्तीर्थकराः, महत्तरः कन्यान्तःपुर-पालकः, तत्स्थानीया गुरखः, साधवः कन्यास्थानीयाः, अवलोकनमपराधः / अत्राऽप्रशस्तेन कन्याऽन्तःपुरपालकेन, प्रशस्तेन चोपनयः कर्तव्यः। तद्यथा-आचार्यः प्रमादिनः शिष्यान्न वारयति, न च प्रायश्चित्तं ददाति, स विनश्यति, यथा प्रथमः कन्यान्तःपुरपालकः।यस्तु प्रमाद्यतः शिष्यान् वारयति, प्रायश्चित्तं च यथापराधं प्रयच्छति, स इह लोके प्रशंसादिपूजां प्राप्नोति, परलोके च सम्यशिष्यनिस्तारणतो निर्वाणमचिरादाप्नुयादिति / सम्प्रति यदुक्तं प्राधूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये च निपतति अभिशय्या गन्तव्येति तद्विषयमपवादं क्रमेणा-ऽभिधित्सुराह - असज्झाइए असंते, अणाऽसति पाहुणागमे चेव। अन्नत्थ न गंतव्वं, गभणे गुरुगा उ पुव्वुत्ता। अस्वाध्यायिके असति अविद्यमाने, प्राघूर्णकानामागमे वाऽसति स्थानस्यसंस्तारकयोग्यभूमिलक्षणस्य असति, अपिशब्दोऽत्र सामर्थ्यादवगम्यते। असत्यपि, भावप्रधानोऽयं निर्देशः। इत्य-भावेऽपि अन्यत्राऽभिशय्यादौ न गन्तव्यम्, किन्तु यतना कर्तव्या ! यदि तया / अन्यत्र गमनं कुर्वन्ति, ततो गमने पूर्वोक्ता गुरुकाश्चत्वारो गुरुमासाः प्रायश्चित्तम्। का पुनर्यतना? तमाह - वत्थव्वा वारंवारएण जग्गंतु मा य वचंतु। एमेव य पाहुणए, जग्गण गाढं अणुव्वाए। वास्तव्या वारंवारेण जाग्रतु / इयमत्र भावना- वास्तव्याना मध्ये यो यावन्मात्रमर्द्धयामादिकं जागरितुं शक्नोति, तावन्मात्रं जागर्ति, तदनन्तरं जागरितुमशक्नुवन् अन्य साधुमुत्थापयति, सोऽपि स्वजागरणवेलाऽतिक्रमेऽन्यम्, एवं वारेण वारेण जाग्रतु / यदि पुनर्वास्तव्याः समस्ता अपि रात्रि वारेण जागरितुं न शक्नुवन्ति, ततो यदि गाद न परिश्रान्ताः प्राघूर्णकाः, ततः प्राधूर्णके (अणुव्वाए इति) अपरिश्रान्ते, एवमेव वारेण जागरणं समर्पणीयं,मा पुनः, चशब्दः पुनःशब्दार्थे, व्रजन्वभिशय्याम, यदि पुनर्वास्तव्याः प्राघूर्णकाश्चनवारण जागरितुं शक्नुवन्ति, तदाऽभिशय्या गन्तव्येति / एमेव असंसत्ते, देसे अगलंतएय सव्वत्थ। अम्हवहा पाहुणगा, उति रिक्खा उ कक्करणा / / एवमेव अनेनैव प्रकारेण, संसक्ते उपाश्रये यो देशः प्रदेशोऽसंसक्तस्तस्मिन्नसंसक्ते देशे, तथा वृष्टिकाये निपतति यः प्रदेशो न गलति, तस्मिन् प्रदेशे यतना कर्तव्या। तद्यथा- संसक्तायां वसतौ येष्ववकाशेषु संसक्तिस्तान् परिहृत्य शेषेष्ववकाशेषु संसक्ति-रहितेषु पूर्वप्रकारेण जागरणयतना कर्तव्या / ततो वृष्टिकायेऽपि निपतति येष्ववकाशेषु वसतिः निर्गलति तानवकाशान् परिहत्य शेषेष्वगलत्स्ववकाशेषु यतना पूर्ववत्कर्तध्येति (सव्वत्थ त्ति) यदि पुनः सर्वत्र संसक्ता, सर्वत्र वा गलति, तदाऽभिशय्या गन्तव्येति / यदुक्तं - "मासो उ ककरणे' इति, तत्र कक्करणं व्याख्यानयति- एते रिक्ताः प्राघूर्णका अस्मद्वधाय उपयन्ति समागच्छन्ति / एवमादिभाषणं कक्करणेति। सम्प्रति यदवादीत् - आचार्येण न गन्तव्यम्, अनापृच्छया वा (साधुभिः) न गन्तव्यमिति, तद्विषयमपवादमाह - बितियपयं आयरिए, निद्दोसे दूरगमणऽणापुच्छा। पडिसेहियगमणम्मी, तो तं वसभा बलं नँति / / द्वितीयमपवादपदमाचार्य विषये, क्व सति ?,इत्यत आहनिर्दोषे स्त्र्यादिदोषाणामभावे,यदि वा निर्गता दोषा यस्मात् , तद् निर्दोष क्षेत्रं, तस्मिन्, तथा दूरे अभिशय्या, ततस्तत्र दूरगमने अनापृच्छा, तथा प्रतिषेधितस्य गमने द्वितीयपदमिदम् - (तो त्ति) तस्मादेव संज्ञादिस्थानात् परतो यदा वृषभा बलात् नयन्ति, तदा प्रतिषेधितः प्रतिपृच्छामन्तरेणापि गच्छतीति / एष गाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः "आयरिए निरोसे" इति व्याख्यानयतिजत्थ गणी न वि नजइ, भद्देसु य जत्थ नत्थि ते दोसा। तत्थ वयंतो सुद्धो, इयरे वि वयंति जयणाए। यत्र गणी आचार्यों न ज्ञायते, अपिशब्दात् न च तथाविधोदारशरीरो, नाऽपि के नचिदपि सह वादोऽभवत् / यत्र स्वभावत एव