________________ अभिणिसज्जा 721 - अभिधानराजेन्द्रः - भाग 1 अभिणिसज्जा राजकन्या / पदैकदेशेन राजकन्याऽन्तःपुरपालकः / तथा"ठाणाऽसति" इत्यादि / संकटायां वसतौ प्राघूर्णके समागते सति स्थानस्य योग्यभूमिप्रदेशस्य असति-(भावप्रधानोऽयं निर्देशः) अविद्यमानत्वे, उत्सर्गतो न तु नैव गमनं, किन्तुयतना वक्ष्यमाणा कार्या, तस्यां च यतनायां कर्तुमशक्यमानायामभिशय्यादिषु प्रेक्ष्यमाणा यदि केचन कर्करायन्ते / यथा- अस्मद्वधाय प्राघूर्णकाः समागताः, यद् गन्तव्यमस्माभिरभिशय्यादिषु, कर्तव्यं वा रात्रौ जागरणमिति, तदा तेषां ककरणे प्रायश्चित्तं मासलघुदेयमिति द्वारगाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवरीषुः प्रथम-तोऽतिबहुकं प्रायश्चित्तमिति व्याख्यानयति - अतिबहुयं वेढिज्जइ, भंते ! मा हु दुरुवेढओ भवेज्ज / पच्छित्तेहि अयंडे, निद्दयदिण्णेहिँ भज्जेजा।। भदन्त ! परकल्याणयोगिन् !, गुरोर्यदि प्रभूतं गुरुमासादि प्रायश्चित्तं पदे दीयते, ततः स प्रायश्चित्तैः समन्ततोऽतिशयेन वेष्ट्यते, अतिवेष्टितः सन , मा निषेधे, 'हु' निश्चितं, दुरुद्वेष्टको भूयात्, दुःखेन तस्य प्रायश्चित्तेभ्य उद्वेष्टनं स्यात्, अतिप्रभूतेषु हि गुरुषु प्रायश्चित्तेषु पदे दीयमानेषु कदाऽऽत्मानमुद्वेष्टयिष्यति, इति भावः। अपि च- अकाण्डे यत् तत्र चापदे पदे निर्दयैः सद्भि-युष्माभिर्दत्तैः प्रायश्चित्तैः स भज्येत, भग्नपरिणामो भूयात्। तथा च सति महती हानिः / तस्मात् - तं दिजउ पच्छित्तं, जंतरती सा य कीरऊ मेरा। जा तीरइ परिहरिलं,मोसादि अपचओ इहरा॥ तत्प्रायश्चित्तं दीयता, यत्तरति शक्नोति कर्तु, सा च क्रियतां 'मेरा' मर्यादा या परिहर्तुं शक्यते / पाठान्तरं वा-(परिवहिउमिति) तत्र या परिवोढुं शक्यते इति व्याख्येयम् / उभयत्राऽप्ययं भावाऽर्थः - या परिपालयितुं शक्यते इति / मासादि (अपचओ इहरा इति) इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषादोष उभयोरपि समुपजायते / तत्र गुरोर्मात्राधिकप्रायश्चित्तदानात्, इतरस्य तु भग्नपरिणामतया तथा परिपालनायोगात् / अन्यच्च- अतिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष उद्भावितः। अप्रत्ययश्च शिष्यस्योपजायते, यथाअतिप्रभूतमाचार्याः प्रायश्चित्तं ददति, न चैवंरूपं प्रायश्चित्तं जिनाः प्ररूपितवन्तः, सकलजगज्जन्तु हितैषितया तेषामतिकर्क शप्रायश्चित्तोपदेशदानायोगात् / तस्मात् सर्वमिदं स्वमतिपरिकल्पितमसदिति। एवं चोदकेनोक्ते गुरुराह - जो जत्तिएण सुज्झइ, अवराहो तस्स तत्तियं देइ। पुव्वमियं परिकहियं, घडपडगाइएहिँ नाएहि॥ चोदक आह- त्वया सर्वमिदमयुक्तमुच्यते, यतो देशकालसंहननाद्यपेक्षया योऽपराधो यावन्मात्रेण प्रायश्चित्तेन शुद्धयति , तस्याऽपराधस्य शोधनाय तावन्मात्रमेव सूरिः प्रायश्चित्तं ददाति, नाऽधिकं, नाऽपि हीनम्, एतच्च पूर्वमेव घटपटादिभितिरुदा-हरणैः "जलनिल्लेवणकुडए'' इत्यादिना ग्रन्थेन परिकथितं, तस्मान्न दोषः / साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तः, तं भावयतिकंटगमादिपविटे, नोद्धरई सयं न भोइए कहइ। कमढीभूऐं वणगए, आगलणं खोमिया मरणं / / इह किलव्याधावने संचरन्त उपानही पादेषु नोपनह्यन्ति, मा हस्तिन उपानहोः शब्दानश्रौषुरिति ! तत्रैकस्य व्याधस्याऽन्यदा वने उपानही विना परिभ्रमतो द्वयोरपि पादयोः कण्टकादयः प्रविष्टाः, आदिशब्दात् श्लक्ष्णकिलिञ्जादिपरिग्रहः। तान् प्रविष्टान् कण्टकादीन स्वयं नोद्धरति, नाऽपि भोजिकायै निजभार्याय घ्याध्यै कथयति / ततः स तैः पादतलप्रविष्टैः कण्टकाऽऽदिभिः पीडितः सन् वनगतो हस्तिना पृष्ठतो धावता प्रेर्यमाणो धावन् कमठीभूतः, स्थले कमठ इव मन्दगतिरभूत् , ततः 'प्राप्तो हस्ती प्रत्यासन्नं देशम्' इति जानन् क्षुब्ध्वा क्षोभं गत्वा, आगलणमिति वैकल्यं प्राप्तः / ततो मरणम् / एष गाथाऽक्षरार्थः। भावार्थस्त्वयम्- “एगो वाहो उवाहणाओ विणा वणे गतो, तस्सपायतला कंटगाईणं भरिया, ते कंटगाइया नो सयमुद्धरिया, नो वि य वाहीए उद्धराविया, अन्नया वणे संचरंतो हत्थिणा दिट्ठो, तो तस्स धावंतस्स कंटगाइया दूरतरं मंसे पविट्ठा, ताहे अतिदुक्खेण अद्वितो महापायवो इव छिन्नमूलो हत्थिभएण वेयणभूतो पडितो, हस्थिणा विणासितो''। बितिए सयमुद्धरती, अणुट्ठिए भोइयाएँ नीहरइ। परिमद्दणदंतमला-दिपूरणं वणगयपलातो। अन्यो द्वितीयो व्याध उपानही विना वने गतः, तस्य वने संचरतः कण्टकादयः पादतले प्रविष्टास्तान् स्वयमुद्धरति, ये च स्वयमुद्धर्तुं न शक्यास्तान् अनुद्धृतान् भोजिकया निजभार्यया व्याध्या नीहारयति निष्काशयति, तदनन्तरं तेषां कण्टकादिवेधस्थानानामङ्गुष्ठा-दिना परिमर्दनं, तदनन्तरं दन्तमलादिना, आदिशब्दात् कर्णमलादिपरिग्रहः / पूरणं कण्टकादिवेधानाम् / ततोऽन्यदा वनं गतः सन् हस्तिना दृष्टोऽपि पलायितो, जातो जीवितव्य-सुखानामाभागी। एष दृष्टान्तः। साम्प्रतं दान्तिकयोजनामाह - वाहत्थाणी साहू, वाहिगुरूकंटकादि अवराहा। सोहीय ओसहाई, पसत्थनाएणुवणओ ऊ॥ व्याधस्थानीयाः साधवः,व्याधीस्थानीयोगुरुः, कण्टकादि-स्थानीया अपराधाः, ओषधानि दन्तमलादीनि, तत्स्थानीया शोधिः / अत्र द्वौ व्याधदृष्टान्तौ, तत्र प्रशस्तोऽप्रशस्तश्च / आद्योऽप्रशस्तो, द्वितीयः प्रशस्तः। तत्र प्रशस्तेन ज्ञातेन दृष्टान्तेनोपनयः कर्तव्यः / आचार्योऽपि यदा तान् उपेक्षते, ततः कण्टकादीनामुपेक्षको व्याध इव सोऽपि दुस्तरामापदमाप्नोति। तथाचाऽऽहपडिसेवंत उवेक्खइ, न य णं ओवीलए अकुव्वंतो। संसारहत्थिहत्थं, पावइ विवरीयमियरो वि।। इतरोऽपि आचार्योऽपि, तुशब्दार्थोऽपिशब्दार्थः, यः प्रति-सेवमानान् उपेक्षते, न तु निषेधति, न वाऽकुर्वतोऽकुर्वाणान् प्रायश्चित्तमुत्पीडयति, न भूयः प्रायश्चित्तदानदण्डेन ताडयन् (प्रायश्चित्तं) कारयति, स विपरीतम्, आचार्यपदस्य हि यथोक्त-नीत्या परिपालनफलमचिरात् मोक्षगमनं, तद्विपरीतं संसार एव हस्तिहस्तं प्राप्नोति, दुस्तरं संसारमागच्छतीति भावः। उपसंहारमाहआलोयमणालोयण, गुणा य दोसा य वणिया एए। अयमन्नो दिद्रुतो, सोहिमदिते य दिंते य॥