________________ अभिणिसज्जा 720 - अभिधानराजेन्द्रः-भाग 1 अभिणिसजा पौरुष्यादिकं च प्रत्याख्यायते यस्मै दातव्यमित्येवमादि सर्व कथ्यते / इति भावः / कथं किस्वरूपः सोऽगीतार्थो नायकः स्थापनीयः ? इत्यत आहमज्झत्थोऽकंदप्पी, जो दोसे लिहइ लेहओ चेव। केसु उ ते सीएज्जा, दोसेसुं ते इमे सुणसु॥ मध्यस्थो- रागद्वेषविरहितः, अकन्दपी- कन्दर्पोद्दीपनभाषिता- | ऽऽदिविकलः,एवंभूतो नायकः स्थापनीयः। तेन च साधवोऽ-सामाचारी | समाचरन्तः शिक्षणीयाः, शिक्षमाणाश्च यदि कथयेयुः,यथा- यदि वयमेवं कुर्मस्ततस्तव किम् ? कस्त्वम् ? इत्यादि, तदा स (लेहओ चेव त्ति) लोचकवत् तेषां सर्वेषां साधूनां दोषान् अविस्मरणनिमित्तं मनसि लिखति, सम्यगवधारयतीत्यर्थः। अथ केषु ते साधवः सीदेयुः,यान स स्वचेतसि धारयति? सूरिराह- तान् दोषानिमान् वक्ष्यमाणान् शृणुत। तत्र यदुक्तं -एएसिं असतीए० इत्यादि, तद्व्याख्यानार्थमाह - थेरपवित्तीगीया-ऽसतीए मेरकहतऽगीयत्थे। भयगोरवं च जस्स उ, करेंति सयमुजतो जो य।। स्थविरस्य, प्रवर्तिनः, उपलक्षणमेतत्- गणावच्छेदस्य च, तथा गीतस्य गीतार्थस्य भिक्षोरसति अभावे अगीतार्थोऽपि प्रेषणीयः, तस्मिश्चाऽगीतार्थे प्रेष्यमाणे(मेरत्ति) मर्यादां सामाचारी यथोक्तस्वरूपां कथयन्ति, किविशिष्टः सोऽगीतार्थः प्रेष्यः? आह-(भयगौरवमित्यादि) यस्य भयं साधवः कुर्वन्ति, यस्य चाऽनुवर्तना गुणतो भयतो गौरवं यथोचित्तं कुर्वन्ति / यश्च स्वयमात्मना समुद्युक्तोऽप्रमादी, सोऽगीतार्थो नायकः प्रवर्तनीयः। किं कारणमिति चेत् ? उच्यतेसामाचारीरूपदोषप्रतिषेधनार्थम् / अथ के ते असमाचारीरूपा दोषाः? अत आह - पडिलेहणऽसज्झाए, आवस्सगदंडविणयराइत्थी। तेरिच्छवाणमंतर-पेहा नहवीणिकंदप्पे॥ प्रतिलेखनायामस्वाध्याये आवश्यक दण्डे, उपलक्षण-मेतत्दण्डकादौ विषये, तथा विनये वन्दनकादौ, तथा राज्ञि, स्त्रियां, तिर्यक्षु हस्त्यादिषु, वाणमन्तरे वाणमन्तरप्रतिमायां विपणिषु रथेन गच्छन्त्यां प्रेक्षायां कालग्रहणादौ, (नहवीणत्ति) नखवीणिकायां, कन्द वाऽसमाचारीरूपाः दोषाः / एष द्वारगाथासंक्षेपार्थः / एतेन यदुक्तं प्रागुक्तानिमान् दोषान् शृणुतेति तद्व्याख्यानमुपक्रान्तमिति द्रष्टव्यम्। तत्र प्रतिलेखनाद्वार-मस्वाध्यायद्वारंच विवरीषुराह - पडिलेहणसज्झाए, न करेंति हीणाहियं च विवरीयं / सेजोवहिसंथारय-दंडगउच्चारमादीसु॥ प्रतिलेखनां स्वाध्यायं वा मूलत एव न कुर्वन्ति, यदि वा हीनमधिकं विपरीतं वा विपर्यस्तक्रमं कुर्वन्ति। तत्र येषु स्थानेषु प्रतिलेखना संभवति, तानि स्थानान्युपदर्शयति- शय्योपधिसंस्तारक-दण्डकोचारादिषु / इयमत्र भावना- शय्या वसतिः, तस्याः प्रत्युपेक्षणं मूलत एव न कुर्वन्ति, यदि वा हीनमधिकं वा कुर्वन्ति, अथवा यः शय्यायाः प्रत्युपेक्षणाकालस्तस्मिन् न कुर्वन्ति, किन्तु कालाऽतिक्रमेण / एवमुपधेः, संस्तारकस्य, दण्डकादेश्च भावनीयम् / तथा उच्चारादिभूमि न प्रत्युपेक्षन्ते, हीनमधिकं वा, यदि वा कालातिक्रमेण प्रत्युपेक्षन्ते इति / स्वाध्यायमपि मूलत एव न कुर्वन्ति / यदि वा अप्रस्थापिते कुर्वन्ति। यदि वाऽकालिक-वेलायामुत्कालिक वेलायां वा कुर्वन्ति / सम्प्रति आवश्यकादि-द्वारत्रितयमाह - न करेंती आवस्सं, हीणाहियनिविट्ठपाउयनिसन्ना। दंडगहणादि विणयं, रायणियादीण न करेंति॥ आवश्यकं मूलत एव न कुर्वन्ति, यदि वा हीनमधिकं वा, कायोत्सर्गाणां हीनकरणतः कुर्वन्ति, अधिकं वाऽनुप्रेक्षार्थं कायोत्सर्गाणामेव चिरकालकरणतः कुर्वन्ति / यदि वा निविष्टा उपविष्टाः, प्रावृताः शीतादिभयतः, कल्पादिकप्रावरणप्रावृता निषण्णास्त्वग्वर्तनेन निपतिताः प्रकुर्वन्ति / गतमावश्यकद्वारम् / (दंडगहणादि त्ति) दण्डग्रहादौ, दण्डग्रहणं भाण्ड-मात्रकादीनामुपलक्षणम्, दण्डकादीनां ग्रहादौ ग्रहणे, निक्षेपेच, न प्रत्युपेक्षणं, नाऽपि प्रमार्जनं, दुष्प्रत्युपेक्षितादि वा कुर्वन्ति। गतं दण्डद्वारम्। विनयद्वारमाह-(विणयं ति) विनयं रत्नाऽधिकादीनामाचार्यादीनां यथा रत्नाऽधिकंन कुर्वन्ति। गतं विनयद्वारम् / राजादिद्वारकदम्बकमाह - रायं इत्थि तह अस्समादि वंतर रहे य पेहंति। तह नक्खवीणियादी, कंदप्पादी वि कुव्वंति।। राजानं निर्गच्छन्तं वा, स्त्रियं वा सुरूपामिति विशिष्टाऽऽभरणाऽलङ्कृतामागच्छन्तीं वा, तथा 'तिरिक्ख' इत्यस्य व्याख्यानम्अश्वादिकमश्वं वा हस्तिनं वा राजवाहनमतिप्रभूतगुणाकीर्णं, व्यन्तरं तथात्वविभूत्या विपणिमार्गेषु गच्छतः प्रत्यागच्छतो वा प्रेक्षन्ते / एतेन राजस्त्रीतिर्यग्वाणमन्तरद्वाराणि व्याख्यातानि / तथेत्यनुक्तसमुच्चयार्थः,सचेदमनुक्तं समुचिनोतिकालप्रत्युपेक्षणं न कुर्वन्ति, न वा कालं प्रतिजागरति / गतं प्रेक्षाद्वारम् / तथा नखवीणिकादिक नखैर्वीणावादनम् / आदिशब्दाद् नखानां परस्परं घर्षणमित्यादिपरिग्रहः / तथा कन्दर्पादि कन्दर्पकौकुच्यकोयुकादि कुर्वन्ति। एएसु वट्टमाणे, अट्ठिए पडिसेहए इमा मेरा। हियए करेइ दोसे, गुरुए कहणं स देइ ते सोहिं॥ एतेष्वनन्तरोदितेषु दोषेषु वर्तमानान्, वारयतीति क्रियाऽध्याहारः। कृतेऽपि वारणे यदि ते न तिष्ठन्ति, प्रतिषेधन्ति वा। यदि वयमेवं कुर्मस्ततः किं तव? को वा त्वम् ? इत्यादि / ततोऽस्थिते, प्रतिषेधिते वा नायके इयमनन्तरमुच्यमाना (मेर त्ति) मर्यादा सामाचारी। तामेवाहहृदये तान् दोषान् करोति, कृत्वा च गुरवे कथयति, सच गुरुर्ददाति तेषां शोधिं प्रायश्चित्तमिति। सम्प्रति वक्ष्यमाणार्थसंग्रहाय द्वारगाथामाह - अतिबहुयं पच्छित्तं, अदिण्ण वाहे य रायकन्ना य / ठाणाऽसति पाहुणए, न उगमणं मास कक्करणे / / चोदकवचनम्- अतिबहुकं प्रायश्चित्तं गुरुमासादि न दातव्यम्, तद्दाने व्रतपरिणामस्यापि हानिप्रसक्तेः / अत्र गुरुवचनम् -"जो जत्तिएण सुज्झइ" इत्यादि वक्ष्यमाणं, यः पुनरालोचनाप्रदानेन प्रायश्चित्तलक्षणं शल्यं नोद्धरति- तस्मिन्नदत्ते अदत्तालोचने व्याधो दृष्टान्तः। यः पुनराचार्यः शिष्यस्य प्रायश्चित्तस्थानापत्तिं जानन्नपि न शोधिं ददाति, तस्मिन्नदत्ते अदत्तप्रायश्चित्ते गुरौ दृष्टान्तो