________________ अभिणिसज्जा 719 - अभिधानराजेन्द्रः - भाग 1 अभिणिसजा अभिनषेधिकी वा गन्तव्या / तत्र (पढमचरमे दुगं तू इति) प्रथमे सूत्रक्रमप्रामाण्यादस्वाध्याये, चरमे श्रुतरहस्ये, द्विकमभिशय्याऽभिनैषधिकीलक्षणं यथायोग्यं गन्तव्यं, शेषेषु च प्राघूर्णकसंसक्तवृष्टिकायरूपेषु, भवत्यभिशय्या गन्तव्या। तत्राऽस्ति अनानुपूर्व्यपि व्याख्याया इति न्यायख्यापनाऽर्थं प्रथमतः श्रुतरहस्यमिति चरमद्वार विवरीषुरिदमाहछेयसुयविजमंता, पाहुडि अवगीय महिसदिटुंता। इइ दोसा चरमपए, पढमपए पोरिसीभंगो॥ छेदश्रुतानि प्रकल्पव्यवहारादीनि, तानि वसतौ अपरिणामकोऽतिपरिणामको वा शृणुयात्, तथा विद्यामन्त्रांश्च वसतौकस्याऽपि दीयमानान् अविगीतो निर्धर्मा शृणुयात्, प्राभृतं वा योनिप्राभृतादिरूपं वसतौ व्याख्यायमानम्, अविगीतः कथमपिशृणुयात्। तच्छ्रवणेचमहान् दोष / तथाचाऽत्र महिषदृष्टान्तः - "कयाइ जोणिपाहुडे वक्खाणिजमाणे एगेण आयरियाईण अदिस्समाणेण निद्धम्मेण सुयं / जहाअमुगदव्वसंजोगे महिसो संमुच्छइ,तं सोउंसो उत्थाविओगतो अन्नम्मि ठाणे, तत्थमहिसेदव्वसंजोगेण समुच्छावित्ता सागारियहत्थेस विक्किणइ, तं आयरिया कहमवि जाणित्ता तत्थ आगया, उदंतो से पुच्छितो, तेण सम्भावो कहिओ। आयरिया भणति- अण्णं सुंदरसुवण्णरयणजुत्तादि गेण्ह / तेण अज्झुवगय। ततो आयरिएहि भणिय- अमुगाणि दव्वाणि य तिरिक्ख-संजोएज्जासि, ततो पभूयाणि सुवण्णरयणाणि भविस्संति। तेण तहा कयं, समुत्थितो दिट्ठीविसो सप्पो, तेण दिवो मतो"। ततोऽभिशय्याऽभिनषेधिकी था गन्तव्या। तथा प्रथमपदमस्वाध्याय-लक्षणं, तत्र दोषः पौरुषीभङ्गः / इयमत्र भावना- अस्वाध्याये यसतावुपजाते स्वाध्यायकरणार्थमवश्यमभिशय्याया-मभिनषेधिक्यां या गन्तव्यम्, अन्यथा सूत्रपौरुष्या अर्थपौरुष्या वा भङ्गः / तद्भङ्गे च तन्निष्पन्नप्रायश्चित्ताऽऽपत्तिः / गतं चरम-द्वारमस्वाध्यायद्वारं च। सम्प्रति प्राघूर्णकादिद्वारत्रितयमाह - अभिसंघट्टे हत्था-दिघट्टणं जम्गणे अजिण्णादी। दोसु असंजमदोसा, जग्गण अल्लोवहीया वा॥ कदाचिदन्यत्तथाविधवसत्यलाभे साधवः संकटायां वसतौ स्थिता भवेयुः, प्राघूर्णकाश्च साधवो भूयांसः समागताः, तत्र दिवसे यथा तथा वा तिष्ठन्ति, रात्रौ भूमिषु अपूर्यमाणासु यद्यभिशय्यां न व्रजन्ति, तदा तस्मिन्नुपाश्रये अतिशयेन संघट्टः परस्पर संहननाऽभिसंकटतया सोऽभिसंघट्टः, तस्मिन्नेव स्थितानां परस्परं हस्तपादादीनां घट्टनं भवेत्, तद्भावे च कलहा-ऽसमाध्यादिदोषसंभवः। अथैतदोषभयादुपविष्टा एव तिष्ठन्ति, ततो जागरणे रात्री जाग्रतामजीर्णादिदोषसंभवः / अजीर्ण-माहारस्याऽजरणं, तद्भावे च रोगोत्पत्तिः / रोगे च चिकित्साया अकरणे असमाधिः, क्रियमाणायां च चिकित्सायां षट्कायव्यापत्तिः / इति गतं प्राघूर्णकद्वारम् / अधुना संसक्तद्वारं चाऽऽह- (दोसु असंजम०इत्यादि) द्वयोः संसक्ते उपाश्रये वृष्टिकाये च निपतति, असंयमविराधनारूपौ, दोषौ। तथाहि-संसक्तत्वे दुष्प्रत्युपेक्षणीया वसतिरिति, तत्राऽवस्थाने स्फुटा संयमविराधना। तथा वृष्टिकायेष्वपि निपतितेषु क्वचित्प्रदेशेषु वसतिर्गलतीति तत्राऽपि संयमविराधना, अप्कायविराधना-संभवात्। अन्यच वृष्टिकाये निपतति उपधिका येन स्तीम्यते, स्तीमितेन चोपधिना शरीरलग्नेन रात्री निद्रा नाऽऽयाति, निद्राया अभावे च अजीर्णदोषः / तस्मात् संसक्तायां वसतौ वृष्टिकायेच निपतति नियमतो गन्तव्या अभिशय्येति। तदेवमुक्तं गन्तव्यकारणम्। तथा चाऽऽहदिलृ कारणगमणं, जइ य गुरु वच्चए तओ गुरुगा। ओरालइथिपेल्लण, संका पचत्थिया दोसा।। दृष्ट मुपलब्धं भगवदुपदेशतः पूर्वसूरिभिः, कारणे अस्वाध्यायादिलक्षणेऽभिशय्यायां गमनं, तत्र यद्येवं दृष्टे कारणगमने गुरुरभिशय्यामभिनषेधिकी वा व्रजेत्, ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः। को दोषो गुरुगमने इति चेत् ? अत आह-(ओरालेत्यादि) आचार्यः प्राय उदारशरीरोभवेत्, सहाया अपिच कथमपि तस्यस्तोका अभूवन, ततः काश्चन स्त्रियः सहायादीनस्थापयित्वाऽस्य हृदयादिना प्रेरयेयुः / अन्यच-शय्यातरादीनां शङ्का समुपजायते, तथाहि- किं वसतावाचार्यो नोषितः, नूनमगारी प्रतिसेवितुं गत इति / यदि वा प्रत्यर्थिका प्रत्यनीकाः प्रतिवाद्यादयोऽल्पसहायमुपलभ्य विनाशायाऽऽययुः / तत एवमाचार्यगमने दोषाः, तस्मात् तेन न गन्तव्यमिति, न केवलमाचार्येण न गन्तव्यं, किन्त्वेतैरपिन गन्तव्यम्। के ते एते ? इत्याह - गुरुकरणे पडियारी, भएण बलवं करेज जे रक्खं / कंदप्पविग्गही वा, अचियत्तो ठाणदुट्ठो वा।। गुरोराचार्यादेःकरणे करणविषये ये प्रतिचारिणः प्रतिचारकाः कायिकमात्रकादिसमर्पका विश्रामकाच, तैर्न गन्तव्यं, तेषां गमने गुरोः सीदनात् / तथा भयेन पश्चाद्वसतावपान्तरालेऽभिशय्यायां वा तस्करादिभयेन समुत्थितेन सर्वैरपि साधुभिर्न गन्तव्यम्, आत्मसंयमविराधनादोषप्रसङ्गात् / तथा यो बलवान् गुर्वादीनां तस्कारादिभ्यो रक्षा करोति, तेनापि न गन्तव्यं, तद्गमने गुर्वादीनामपायसंभवात् / तथा यः कन्दर्पः कन्दर्पशीलः, यश्च विग्रही, तथाचाऽऽराटिकरणशीलः, यो वा यत्र गम्यते तत्र शय्यातरादीनां कैश्चिदपि कारणैः पूर्ववैरादिभिः (अचियत्तो ति) अप्रीतो, यश्वस्थानदुष्टः, पुरादिदुष्टः, एतैरपि सर्वैर्न गन्तव्यम्, प्रवचनोड्डाहाऽऽत्मविराधनादिदोषप्रसङ्गात् / यदि कथमपि ते गच्छन्ति, ततो बलादाचार्यादिभिरियितव्या इति। अथ कारणे समुत्पन्ने तेषां गच्छता को नायकः प्रवर्तयितव्यः? उच्यते - गंतव्व गणावच्छे-दयपवत्तिथेरयगीयभिक्खू य। एएसिं असतीए, अगीयए मेरकहणं तु || कारणे अस्वाध्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिगन्तव्यमभिशय्यादि, तेषां च गच्छतां नायकः प्रवर्तनीयो गणाऽवच्छेदको वक्ष्यमाणस्वरूपः / तदभावे प्रवर्ती , सोऽपि वक्ष्यमाणस्वरूपः, तदभावे स्थविरः, तस्याऽप्यभावे गीतभिक्षुर्गीताऽर्थः सामान्यव्रती। एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिगुणयुक्तः प्रवर्तनीयः / के वलं तस्मिन्नगीताऽर्थ (मेरक हणं तु इति) मर्यादायाः सामाचार्याः कथनम् - यथा साधूनामावश्यके आलोचनायां प्रायश्चित्तं दीयते, नमस्कार