________________ अभिणिसज्जा 718- अभिधानराजेन्द्रः - भाग 1 अभिणिसजा यत्राऽपि च विविक्ते प्रदेशे ते निष्कारणगामिनो अभिशय्यामभिनषेधिकी वा व्रजन्ति, तत्रापि तेषां गतानामिमे वक्ष्यमाणा दोषा भवन्ति ज्ञातव्याः। तानेवाऽभिधित्सुरिगाथामाह - वीयारतेणआरक्खितिरिक्खा इथिओ नपुंसाय। सविसेसतरा दोसा, दप्पगयाणं हवंतेते।। कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां, तथा स्तेनाऽऽशङ्काया,(आरक्खित्ति) आरक्षकाशङ्कायां वा, तथा तिरश्चां चतुष्पदादीनां संभवे, तथा स्त्रियो वा दत्तसंकेताः, तत्र तिष्ठन्ति, नपुंसका वा दत्तसंकेतास्तत्र तिष्ठन्ति, इत्याद्या-शङ्कायामेते वक्ष्यमाणाः सविशेषतरा दोषा दर्पगतानां निष्कारण-गतानां भवन्ति। तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याऽऽह - अप्पमिलेहियदोसा, अविदिण्णे वा हवंति उभयम्मि। वसहीवाघाएणय, एतमणते य दोसा उ॥ यदि नाम ते दर्पहताः कथमप्यचक्षुर्विषयवेलायां गता भवेयुः, ततः संस्तारकोचारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासुये दोषा ओघनियुक्ती सविस्तरमाख्यातास्ते सर्वेऽप्यत्राऽपि वक्तव्याः / तथा विकालवेलाया गभने यदि कथमपि शय्यातर उचारप्रश्रवणयोग्यमवकाशं न वितरेत्, ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणे भवन्ति दोषाः। तथाहि- यदि अननुज्ञाते अवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति, तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेद कुर्यात्, यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधूनामिति। अथवा कथमप्यलाक्षणिकतया वसतेरभिशय्यारूपाया व्याघातो भवेत्,ततो रात्रि मूलवसतिमागच्छतां तेषां श्वापदाऽऽदिभिरात्मविराधना / अथ नाऽऽयान्ति वसतिं तदा अभिशय्यायाः समीपे अप्रत्युपेक्षितस्थानाऽऽश्रयणतः संयमविराधना / गतं विचारद्वारम् / अधुना स्तेनद्वारमारक्षिकद्वारंच युगपदभिधित्सुराह - सुण्णाई गेहाई उति तेणा, आरक्खिया ताणिय संचरंति। तेणो त्ति एसो पुररक्खिओवा, अन्नोन्नसंकाएऽतिवायएज्जा।। शून्यानि गृहाणि, स्तेनाः विवक्षितगृहे प्रवेशनाय वेलां प्रतीक्ष-माणाः, आरक्षिकादिभयतो वा उपयन्ति / तानि च शून्यानि गृहाणि आरक्षिकाः पुररक्षिकाः ‘मा कश्चिदत्र प्रविष्टश्चौरो भूयात्' इति संचरन्ति प्रविशन्ति / एवमुभयेषां प्रवेशसंभवे अन्योऽन्याशङ्कया आरक्षिका अभिशय्यायामग्रे प्रविष्ट साधुमुपलभ्य स्तेन एष व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं साधुं दृष्ट्वा पुररक्षक एष प्रविशतीत्येवंरूपया, स्तेना आरक्षिका वा अतिपातयेयुः व्यापादयेयुः / गतं स्तेनाऽऽरक्षिकद्वारम् / सम्प्रति तिर्यग्द्वारमाह - दुगुंच्छिया वा अदुगुछिया वा, दित्ता अदित्ता व तहिं तिरिक्खा। चउप्पिया वालसरीसिवावा, एगो व दो तिण्णि व जत्थ दोसा।। तत्र अभिशय्यायामभिनषेधिक्यां वा चतुष्पदाः तिर्यचो द्विधा भवेयुः / तद्यथा- जुगुप्सिता नाम निन्दिताः, ते च गर्दभीप्रभृतयः / तद्विपरीता अजुगुप्सिताः, गोमहिष्यादयः / एकैके द्विधा, तद्यथा- दृप्ताश्च दध्माताः, तद्विपरीता अदृप्ताः, न केवल-मित्थम्भूताश्चतुष्पदा भवेयुः, किंतु व्याला भुजङ्गादयः, सरी-सृपा वा गृहगोधिकादयः इत्थम्भूतेषु च तिर्यक्षु चतुष्पदेषु व्यालसरीसृपेषु, एको द्वौ त्रयो वा दोषा भवेयुः / तत्र एकः आत्मविराधनादीनामन्यतमः, द्वौ साधुभेदेनाऽऽत्मविराधना-संयमविराधने, त्रयः कस्याऽप्यात्मविराधना, कस्याऽपि संयम-विराधना, कस्याऽप्युभयविराधनेति। अत्र चतुर्भङ्गीकस्याऽप्यात्मविराधना, न संयमविराधना 1, कस्याऽपि संयम-विराधना, नाऽऽत्मविराधना 2, कस्याऽप्यात्मविराधनाऽपि संयमविराधना 3, कस्याऽपि नोभयविराधनेति 4 / उपलक्षण-मेतत्जुगुप्सिततिर्यक्चतुष्पदसंभवे विरूपाऽऽशङ्कासंभवतः प्रवचनोड्डाहोऽपि स्यादिति। गतं तिर्यग्द्वारम्। __ अधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराह - संगारदिन्ना व उर्वति तत्थ, ओहा पडिच्छंति निलिच्छमाणा। इत्थी नपुंसा व करेज दोसे, तस्सेवणट्ठाए उवेंति जे उ॥ संगारः संकेतः, स दत्तो यैस्ते संगारदत्ताः, निष्ठान्तस्य परनिपातः प्राकृतत्वात्, सुखादिदर्शनाद्वा / दत्तसंकेता इत्यर्थः / इत्थम्भूताः सन्तस्तत्राऽभिशय्यादिषु उपयन्ति गच्छन्ति, एवं लोकाना-माशङ्का भवेत्। अथवा तत्र गतेषु जनानामेवमाशङ्का समुपजायते। तथा स्त्रियो नपुंसका वा ओघा इति / तन्मुखान् निरीक्षमाणाः प्रतीक्षन्ते, ततोऽमी गताः / यदि वा तासां स्त्रीणां नपुंसकानां वा सेवनार्थं ये तत्रोपयन्ति पुरुषास्ते 'अस्मत्-स्त्र्यादिसेवनार्थमेतेऽत्र संयताः समागताः' इति दोषान् अभिघाताऽवर्णवादादीन कुर्युः / तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मात्न निष्कारणे गन्तव्यं, कारणे पुनर्गन्तव्यम् / तथाचाऽऽह - कप्पइ उ कारणेहिं, अभिसेजं गंतुममिनिसीहिं वा। लहुगा उ अगमणम्मी, ताणि य कजाणिमाइंतु॥ कल्पते पुनः कारणैरस्वाध्यायादिलक्षणैर्वक्ष्यमाणैरभिशय्यामभिनषेधिकी वा प्रागुक्तशब्दाऽर्थां गन्तुं, यदि पुनर्न गच्छन्ति, ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तम्। तानि पुनः कार्याणि कारणानि इमानि वक्ष्यमाणानि / तान्येवाऽऽह - अज्झाइयपाहुणए, संसट्टे दुट्टिकायसुयरहसे। पढमचरमे दुगं तू, सेसेसु य होइ अभिसेज्जा / / वसतावस्वाध्यायः, प्राघूर्णका वा बहवः समागताः, वसतिश्च संकटा, ततः स्वाध्याये, प्राघूर्णकसमागमे, तथा संसक्ते प्राणिजातिभिरुपाश्रये, तथा वृष्टिकाये निपतति गलन्त्यां वसतौ, तथा श्रुतरहस्ये छे दश्रुतादौ व्याख्यातुमुपक्रान्ते, अमिशय्या,