________________ अभिणिसज्जा ७१७-अभिधानराजेन्द्रः - भाग 1 अभिणिसजा ये वसतिपालास्तैर्वसतेरूनत्वे हीनत्वे एते गाथापूर्वाऽोक्ता दोषा भवन्ति। तद्यथा-स्तेनाश्चोरास्ते 'गताः साधवो वसतेः' इति ज्ञात्या वसतावापतेयुः, आदेशा आघूर्णकास्ते वा समागच्छेयुः, तेषां च समागतानामविश्रामणादिप्रसक्तिः, समर्थसाध्वभावात्। (गिलाण त्ति) ग्लानो वा, तेषामभावे व्याधिपीडितोऽसमाधिमाप्नुयात्। (कामण त्ति) दाहो वा प्रदीपनकेन वसतेभूयात् / तथा स्तोकाः साधवो वसतौ तिष्ठन्तीति स्त्रियो नपुंसका वा कामविह्वलाः समागच्छेयुः / तत्राऽऽत्मपरोभयसमुत्था दोषाः। तथा मूर्छा कस्याऽपि पित्तादिवशतो भूयात् / तदेवं यतो वसतिपालानामिमे विनिर्गमे दोषास्तस्मात् तैरपि शय्यादिषु न गन्तव्यमित्येष द्वारगाथासंक्षेपार्थः / व्यासाऽर्थ तु भाष्यकृदाह - दुविहाऽवहार सोही, एसणघातो य जाय परिहाणी। आएसमविस्सामण-परितावणयाय एकतरे।। स्तेनैरपहारो द्विविधः। तद्यथा- साध्वपहारः, उपध्यपहारश्च। तस्मिन् द्विविधेऽप्यपहारे शोधिः प्रायश्चित्तम् / तद्यथा- यद्येकं साधुमपहरन्ति स्तेनास्तदा वसतिपालानां प्रायश्चित्तं मूलम् / अथ द्वावपहरन्ति, ततोऽनवस्थाप्यम् / त्रिप्रभृतीनामपहरणे पाराश्चिकम् / तथा जघन्योपध्यपहारे पञ्चरात्रिन्दिवम् / मध्य-मोपध्यपहारे मासलघु / उत्कृष्टोपध्यपहारे चतुर्गुरुकम्।तथा एषणाया घातःप्रेरणभेषणघातः,स च स्यात् / तथाहि- भक्त्युपधि-पात्रादिकमन्तरेण एषणाघातः, तत एषणाप्रेरणे यत्प्रायश्चित्तं, तदापद्यते तेषां वसतिपालानामिति। तथा (जा य परिहाणि त्ति) या च परिहाणिरुपधिमन्तरेण शीतादिबाधितस्य, तद्गवेषणप्रयत-मानस्य वा, सूत्रार्थस्य च भ्रंशः, तन्निमित्तकमपि समापद्यते प्रायश्चित्तम्। तत्र सूत्रपौरुष्या अकरणे मासलघु। अर्थपौरुष्या अकरणे मासगुरु / अथोपधिगवेषणेन दीर्घकालतः सूत्रं नाशयन्ति, ततश्चतुर्लघु / अर्थनाशने चतुर्गुरु / तथा तेषु वसतिपालेषु साधुष्वभिशय्यादिगतेषु आदेशानामाघूर्णकानां समागतानामध्वपरिश्रान्तानामविश्रामणे या अनागाढा परितापनोपजायते, तनिष्पन्नमपि तेषामापद्यते प्रायश्चित्तम् / (एक्कतरे ति) तेषु वसतिपालेष्वभिशय्यादिगतेषु यो मुक्त एकतरोवसतिपालः, स एको द्वौ बहवो वा, 'यदि आगच्छन्ति प्राघूर्णकाः, ते सर्वेऽपि नियमतो विश्रमयितव्याः इति जिनप्रवचनमनुस्मरन्बहून्प्राघूर्णकान् विश्रामयन् यदनागाढमागादं वा परितापनामाप्नोति तन्निमित्तकमपि समापतति तेषां प्रायश्चित्तम्। साम्प्रतमस्या एव गाथायाः पश्चाऽर्द्ध व्याख्यानयति - आदेसमविस्सामण-परितावण तेसऽवच्छलत्तं च / गुरुकरणे वि य दोसा, हवंति परितावणादीया। आदेशानां प्राघूर्णकानामविश्रामणे, 'गाथायां मकारो-ऽलाक्षणिकः,' एवमन्यत्राऽपि द्रष्टव्यम् / दीर्घाऽध्वपरिश्रमतो यदनागाढमागाढं वा / परितापनं, तथा तेष्वादेशेषु समागतेषु अवत्सलत्वमवात्सल्यकरणं तन्निष्पन्नं तेषां प्रायश्चित्तम् / अन्यच्च वसतिपालेष्वपि शय्यादिगतेषु प्राघूर्णकानां समा-गतानामन्याभावे गुरुः स्वयं वात्सल्यं करोति, गुरुकरणेऽपिचदोषा भवन्ति परितापनादयः। तथाहि-गुरोः स्वयं करणे सुकुमारतया अनागाढमागाढं वा परितापनं स्यात्, परितापनाच रोगसमागमः, रोगसमागमे च बहूनां स्वगच्छपरगच्छीयानां सूत्रार्थहानिः, श्रावकादीनां धर्मदेशनाश्रवणव्याघातः, लोके चाऽवर्णवादः / यथादुर्विनीता एते शिष्या इति / गतमादेश-द्वारम् / अधुना ग्लानद्वारमाह - सयकरणमकरणे वा, गिलाणपरितावणा य दुविहो वि। बालोवहीण दाहो, तदट्ठमण्णो व आदित्ते / / वसतिपालेष्वभिशय्यादिगतेषु, द्विधा द्वाभ्यामपि प्रकाराभ्यां ग्लानस्य परितापना / तद्यथा- स्वयंकरणे, अकरणे वा / तथाहि-रलानो यदि स्वयमुद्वर्तनादिकं करोति, तदाऽपि तस्याऽना गाढादिपरितापनासंभवः / अथ न करोति, तथापि परितापनासंभवः, ततस्तन्निमित्तं आपद्यते तेषां प्रायश्चित्तम्। अन्यच्च यः पश्चान्मुक्तो वसतिपालः, स यदा प्रभूतं ग्लानस्य ग्लानानां वा कर्तव्यं करोति, तदा सोऽपि परितापनमनागाढमागाद वाऽऽपद्यते, ततः, तद्धेतुकमपि प्रायश्चित्तम्। गतं ग्लानद्वारम्। अधुना कामणद्वार-माह- (बालोवहीणमित्यादि) तेषु समर्थेषु वसतिपालेषु बालं वसतिपालं मुक्त्वा अभिशय्यामभिनषेधिकी वा गतेषु अग्नि-कायेन प्रदीप्ते उपाश्रये बालानामुपधीनां च दाहो भवेत्। तत्र यदि एकोऽपि साधुभ्यिते, तदा चरमं पाराश्चिकं प्रायश्चित्तम्। अथन मियते, किन्तु दाहमागाढमनागाद वापरितापनमाप्नोति, तदा तन्निष्पन्नं प्रायश्चित्तम् / अथोपधिर्जघन्यो मध्यम उत्कृष्टो वादह्यते, ततस्तन्निष्पन्नं प्रायश्चित्तम् (तदहमन्नो वत्ति)तदर्थं बालनिस्तारणार्थम् , उपधिनिस्तारणार्थ वा अन्यः प्रविशेत, तदा कदाचित्सोऽपि बालो दह्येत अन्यश्च प्रविशन्, ततस्तदुभय-निमित्तमापद्यते प्रायश्चित्तम्, लोके च महान् अवर्णवादः / गतमग्निद्वारम् / अधुना स्त्रीनपुंसकद्वारमाह - इत्थीनपुंसगा विय, ओमत्तणओ तिहा भवे दोसा। अभिधाय पित्ततो वा, मुच्छा अंतो व बाहिंच।। स्त्रियो नपुंसकां वा, अवमत्वेन हीनत्वेन, 'स्तोकाः साधवो वसतौ तिष्ठन्ति, परिणतव्रताश्चान्यत्र गता वर्तन्ते' इति ज्ञात्वा समागच्छे यु स्तदागमने च त्रिधा आत्मपरोभयसमुत्थत्वेन दोषाः स्युः / तथाहि- यत् स्त्र्यादिकमुपलभ्य स्वयं क्षोभमुपयन्ति साधवः, एष आत्मसमुत्थो दोषः। यत्पुनः स्वयमक्षुभ्यतः साधून बलात् स्त्र्यादिकं क्षोभयति,एष परसमुत्थः / यदातु स्वयमपि क्षुभ्यन्ति,स्त्र्यादिकमपि च क्षोभयति,तदा उभयसमुत्थ इति / मूद्विारमाह (अभिघातेत्यादि)वसतेरन्तःस्थितस्य वसति-पालस्य कथमपि जराजीर्णत्वादिना पतन्त्यां वसतौ काष्ठादिभिः शरीरस्योपरि निपतभिर्बहिर्वा वसतेः स्थितस्य कथमपि वातादिना पात्यमानेन तरुणा, तरुशाखाया वा अभिघातेन मूर्छा भवेत् / उपलक्षणमेतत् - अनागाढा आगाढा वा परितापना स्यात् / यदि वा वसतेरन्तर्बहिर्वा व्यवस्थितस्याऽपि ततःपित्तप्रकोपतो मूर्छा भवेत् / तत एकाकिनः सतस्तस्य को मूच्र्छामुपशमयेत् ? ततस्तन्निष्पन्नप्रायश्चित्तसंभवः, प्रभूतश्च जनापवादः / तदेवं पश्चान्मुक्तानां वसतिपालानां दोषा अभिहिताः। सम्प्रति ये अभिशय्यादिगतास्तेषां दोषानभिधित्सुरिदमाह - जत्थ वियते वयंती, अमिसेजं वा निसीहियं वा वि। तत्थ वि य इमे दोसा, हॉति गयाणं मुणेयव्वा / /