________________ अभविय ७०९-अभिधानराजेन्द्रः - भाग 1 अभाव एस्सेण तत्तिओ चिय, जुत्तो जंतो वि सव्वभव्वाण। जुत्तो न समुच्छेओ, होज मई कहमिणं सिद्धं / भव्वाणमणंतत्तण-मणंतभागो व कह विमुक्कोसि। कालादओ व मंडिय!, मह वयणाओ विपडिवजा / / . यस्माचाऽतीताऽनागतकालौ तुल्यावेव, यतश्चाऽतीतेना-इनन्तेनाऽपि कालेनैक एव निगोदानन्ततमो भागोऽद्याऽपि भव्यानां सद्धिः, एष्यताऽपि भविष्यत्कालेन तावन्मात्र एव भव्याऽनन्तभागः सिद्धिं गच्छन् युक्तो घटमानको, न हीनाऽधिकः, भविष्यतोऽपि कालस्याऽतीततुल्यत्वात्। तत एवमपि सति न सर्वभव्यानामुच्छेदो युक्तः, सर्वेणाऽपि कालेन तदनन्तभागस्यैव सिद्धिगमन-संभवोपदर्शनात्। अथपरस्य मतिर्भवेत्कथमिदं ससंबद्धम् ? यदुताऽनन्ता भव्याः, तदनन्तभागश्च सर्वेणैव कालेन सेत्स्यति? इति / अत्रोच्यते- कालाऽऽकाशादय इवाऽनन्तास्तावद् भव्याः, तदनन्तभागस्य च मुक्तिगमनात् कालाऽऽकाशय्योरिव न सर्वेषामुच्छेद इति प्रतिपद्यस्व / मद्वचनाद् वा मण्डिक ! सर्वमेतत् श्रद्धेहीति। विशे०। पञ्चा०। हा०। कर्मा श्रा०ा नं०। बृथा दशा०। अभारिय-पुं०(अभार्य) अपत्नीके, कल्प०| पद्मावती च समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम्। नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेव विट एव भवेदभार्यः ||1|| कल्प०१क्ष०। अभाव-पुं०(अभाव) अशुभभावे, उत्त०१ अ०) जीवादयः पदार्था अन्याऽपेक्षया अभावाः / निषेधे, भ०४२ श०१ उ०। विनाशे, बृ० 1 उ०। असम्भवे, दश०१ उ०। असत्तायाम्, पञ्चा०३ विव० स०) (अभावप्रामाण्यम्) यदपि - प्रत्यक्षादेरनुत्पत्तिः, प्रमाणाभाव उच्यते। साऽऽत्मनोऽपरिणामोवा, विज्ञानं वाऽन्यवस्तुनि॥१॥ (सेति) प्रत्यक्षाद्यनुत्पत्तिः, आत्मनो घटादिग्राहकतया परिणामाऽभावः प्रसज्यपक्षे, पर्युदासपक्षे पुनरन्यस्मिन् घटविविक्ता-ऽऽख्ये वस्तुनि अभावे घटो नास्तीति विज्ञानम्, इत्यभावप्रमाण-मभिधीयते। तदपि यथासंभवं प्रत्यक्षाद्यन्तर्गतमेव। तथाहिगृहीत्वा वस्तुसद्भावं, स्मृत्वा च प्रतियोगिनम्। मानसं नास्तिता ज्ञानं, जायतेऽक्षानपेक्षया॥१॥ इयमभावप्रमाणजनिका सामग्री। तत्र च भूतलादिकं वस्तु प्रत्यक्षेण घटादिभिः प्रतियोगिभिः संसृष्म, असंसृष्ट वा गृह्यत? नाSE: पक्षः / प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण ग्रहणे तत्र प्रतियोग्यभावग्राहकत्वेनाऽभावप्रमाणस्य प्रवृत्ति-विरोधात् / प्रवृत्तौ वा न प्रामाण्यम्, प्रतियोगिनः सत्त्वेऽपि तत्प्रवृत्तेः / द्वितीयपक्षे तुअभावप्रमाणवैयर्थ्य , प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रतिपत्तेः / अथ न संसृष्टं नाऽप्यसंसृष्ट प्रतियोगिभिर्भूतलादि वस्तु प्रत्यक्षेण गृह्यते, वस्तुमात्रस्य तेन ग्रहणाऽभ्युपगमादिति चेत् / तदपि दुष्टम् / संसृष्टत्यासंसृष्टत्वयोः परस्परपरिहारस्थिति-रूपत्वेनैकनिषेधेऽपरविधानस्य परिहर्तुमशक्यत्वात्, इति सदसद्रूपवस्तुग्रहण प्रवणेन प्रत्यक्षेणैवाऽयं वेद्यते। क्वचित्तु- तदघटं भूतलमिति स्मरणेन, तदेवेदमघट भूतलमिति प्रत्यभिज्ञानेन, योऽग्निमान् न भवति, नाऽसौ धूमवानिति तर्केण, नाऽत्र धूमो नाऽग्निरित्यनुमानेन, गृहे गर्गो नाऽस्तीत्यागमेनाऽभावस्य प्रतीतेः क्वाऽभावप्रमाणं प्रवर्तताम् ? रत्ना०२ परि०। अस्यैव प्रकारानाह - स चतुर्धा- प्रागभावः प्रध्वंसाऽभाव इतरेतराऽभावोऽत्यन्ताऽभावश्च // 58|| प्राक् पूर्व वस्तूत्पत्तेरभावः, प्रध्वंसश्चाऽसावभावश्च, इतरस्येतरस्मिन्नभावः, अत्यन्तं सर्वदाऽभावः / विधिप्रकारास्तु प्राक्तनैर्नोचिरे। अतः सूत्रकृद्भिरपि नाऽभिदधिरे // 58|| तत्र प्रागभावमाविर्भावयन्ति - यन्निवृत्तावेव कार्यस्य समुत्पत्तिः, सोऽस्य प्रागभावः॥५६ यस्य पदार्थस्य निवृत्तावेव सत्यां, न पुनरनिवृत्तावपि, अतिव्याप्तिप्रसक्तेः / अन्धकारस्याऽपि निवृत्तौ क्वचिद् ज्ञानोत्पत्तिदर्शनादन्धकारस्याऽपि ज्ञानप्रागभावत्वप्रसङ्गात् / न चैवमपि रूपज्ञानं तन्निवृत्तावेवोत्पद्यत इति तत्प्रति तस्य तत्त्वप्रसक्तिरिति वाच्यम् / अतीन्द्रियदर्शिनि नक्तंचरादौ च तद्भावेऽपि तद्भावात् / (स इति) पदार्थः, (अस्येति) कार्यस्य / / 56 / / अत्रोदाहरन्ति - यथा मृत्पिण्ड निवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः // 6 // प्रध्वंसाऽभावं प्राहुः - यदुत्पत्तो कार्यस्याऽवश्यं विपत्तिः, सोऽस्य प्रध्वंसाऽभावः॥६१। यस्य पदार्थस्योत्पत्तौ सत्यां प्रागुत्पन्नकार्यस्याऽवश्यं नियमेन, अन्यथाऽतिप्रसङ्गात्। विपत्तिविघटन, सोऽस्य कार्यस्य प्रध्वंसाऽभावोऽभिधीयते // 61 // उदाहरन्तियथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम्॥६२। इतरेतराऽभावं वर्णयन्तिस्वरूपान्तरात् स्वरूपव्यावृतिरितरेतराऽभावः॥६३|| स्वभावाऽन्तरात् न पुनःस्वस्वरूपादेव तस्याऽभावप्रसक्ते:, स्वरुपयावृतिः स्वस्वभावव्यवच्छेद इतरेतराऽभावोऽन्याऽपोहनामा निगद्यते॥६३।। उदाहरणमाहुः - यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः॥६॥ अत्यन्ताऽभावमुपदिशन्तिकालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्ति-रत्यन्ताऽभावः // 6 // अतीताऽनागतवर्तमानरूपकालत्रयेऽपि याऽसौ तादात्म्य परिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिः, सोऽत्यन्ताऽभावो-ऽभिधीयते // 65 / / निदर्शयन्ति इतरता