________________ अभयप्पदाण ७०८-अभिधानराजेन्द्रः - भाग 1 अभविय अभयप्पदाण-न०(अभयप्रदान) दानभेदे, "दाणाण सेहूं अभयप्पदाणं'' तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दान-मनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारित्वादभय-दानं श्रेष्ठम् / तदुक्तम् - दीयते म्रियमाणस्य, कोटिं जीवितमेव वा / धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति / / 1 / / गोपाला-ऽङ्गनादीनां दृष्टान्तद्वारेणाऽर्थो बुद्धौ सुखेनाऽऽरोहतीति। अतोऽभयप्रदानप्राधान्यख्यापनार्थं कथानकमिदम् - वसन्तपुरे नगरे अरिदमनो नाम राजा। सच कदाचित् चतु-वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति / तेन कदाचित् चोरो रक्तकरवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्त-श्व प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः, सपत्नीकेन दृष्टः / दृष्ट्वा च ताभिः पृष्टम्- किमनेनाकारीति? तासामेकेन राज-पुरुषेणाऽऽवेदितम्यथा परद्रव्याऽपहारेण राजविरुद्धमिति / तत एकया राजा विज्ञप्तः - यथा यो भवता मम प्राग वरः प्रतिपन्नः, सोऽधुना दीयताम्, यथाऽहमस्योपकरोमि किञ्चित्। राज्ञाऽपि प्रतिपन्नं, ततस्तया स्नानादिपुरःसरमलङ्कारेणाऽलङ्कृतो दीनार-सहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः / पुनर्द्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः / ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः / चतुर्थ्यां तु राजानुमत्या मरणाद् रक्षितोऽभयप्रदानेन / ततोऽसा-वन्याभिर्हसिता, नाऽस्य त्वया किञ्चिद् दत्तमिति। तदेवं तासां परस्परं बहूपकारविषये विवादे जाते राज्ञाऽसावेव चौरः समाहूय पृष्टः / यथा-केन तव बहूपकृतमिति ? तेनाऽप्यभाणियथा न मया मरणमहाभयभीतेन किञ्चित् स्नानादिकं सुखं विज्ञायीति। अभयप्रदानाऽऽकर्णनेन पुनर्जन्मानमिवाऽऽत्मानमवैमीति / अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम्। सूत्र०१ श्रु०६ अ०) अभयसेण-पुं०(अभयसेन) वारतकपुरराजनि, पिं०ा आवा अभया-स्त्री०(अभया) दधिवाहनभूपस्य स्वनामख्यातायां राज्ञयाम्, . ती०३५ कल्प। तं०। हरीतक्याम्, नि०चू०१५ उ०। धा आचा०। अभयारिष्ट-न०(अभयारिष्ट) स्वनामख्याते मद्यविशेषे, सूत्र० १श्रु०८ अ० अभवसिद्धिय-पुं०(अभवसिद्धिक) न भवसिद्धिकोऽभवसिद्धिकः / अभव्ये, स्था०१ ठा०१ उ०॥ नं0"णेरइया दुविहा पण्णत्ता। तं जहाभवसिद्धिया चेव, अभवसिद्धिया चेव० जाव वैमाणिया"। स्था०२ ठा०२ उ०। अभविय(व्व)-पुं०(अभव्य) न० त० तथाविधाऽनादिपारिणामिकभावात् (कदाचनाऽपि) सिद्धिगमनाऽयोग्ये जीवे, कर्म०३ कर्म। कुतो नाऽभव्यः सिद्धिं गच्छति।आह- ननुजीवत्वसाम्येऽप्ययं भव्यः, अयं चाऽभव्य इति किं कृतोऽयं विशेषः ? न च वक्तव्यं यथा जीवत्वे समानेऽपि नारकतिर्यगादयो विशेषास्तथा भव्याऽभव्यत्वविशेषोऽपि भविष्यतीति, यतः कर्मजनिता एव नारकादिविशेषाः, न तु स्वाभाविकाः, भव्याऽभव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु, को निवारयिता? न चैवम्। इत्येतदेवाऽऽह - होउ व जइ कम्मकओ, न विरोहो नारगाइभेद व्व। भण्णह भव्वाभव्वा, सभावओ तेण संदेहो। भवतु वा यदि कर्मकृतो भव्याऽभव्यत्वविशेषो जीवानामिष्यते, नाऽत्र कश्चिद् विरोधः, नारकादिभेदवत् / न चैतदस्ति, यतो भव्याऽभव्याः स्वभाव एव जीवाः, न तु कर्मत इति यूयं भणथ, तेनाऽस्माकं संदेह इति, परेणैवमुक्ते सतीत्याह - दव्वाइत्ते तुल्ले, जीवनहाणं सहावओ भेओ। जीवाजीवाइगओ, जह तह भव्वेयरविसेसो॥ यथा जीवनभसोर्द्रव्यत्वसत्त्वप्रमेयत्वज्ञेयत्वादौ तुल्येऽपि जीवाऽजीवत्वचेतनाऽचेतनत्वादिस्वभावतो भेदः, तथा जीवानामपि जीवत्वसाम्येऽपि यदि भव्याऽभव्यकृतो विशेषः स्यात्, तर्हि को दोषः ? इति। इत्थं संबोधितो भव्यत्वादिविशेषमभ्युपगम्य दूषणाऽन्तरमाह - एवं पि भव्वभावो, जीवत्तं पिव सभावजाईओ। पावइ निचो तम्मिय, तदवत्थे नत्थि निव्वाणं // नन्वेवमपि भव्यभावो नित्योऽविनाशी प्राप्नोति, स्वभाव-जातीयत्वात् स्वाभाविकत्वान्जीवत्ववत् भवत्वेवमिति चेत्, तदयुक्तम्।यतस्तस्मिन् भव्यभावे तदवस्थे नित्याऽवस्थायिनि नाऽस्ति निर्वाणम्, 'सिद्धो न भव्यो नाऽप्यभव्यः' इति वचनादिति। नैवम्, कुतः? इत्याह -- जह घडपुव्वभावो-ऽनाइसहावो वि संनिहाणेवं। जह भव्वत्ताभावो, भवेज किरियाए को दोसो ? // यथा घटस्य प्रागभावोऽनादिस्वभावजातीयोऽपिघटोत्पत्तेः सन्निधाने विनश्वरो दृष्टः, एवं भव्यत्वस्याऽपि ज्ञानतपःसचिव-चरणक्रियोपायतोऽभावः स्यात्, तर्हि को दोषः संपद्यते ? न कश्चिदिति / आक्षेपपरिहारौ प्राऽऽह - अणुदाहरणमभावो, खरसिंग पिव मई न तं जम्हा। भावो चिय य विसिट्ठो, कुंमाणुप्पत्तिमेत्तेणं॥ स्यात् मतिः परस्य, तत् तु- अनुदाहरणमसौ प्रागभावः, भावरूपतयैवाऽवस्तुत्वात्, खरविषाणवत् / तत् न, यस्माद् भाव एवाऽसौ घटप्रागभावस्तत्कारणभूतानादिकालप्रवृत्तपुद्गल-संघातरूपः, केवलं घटानुत्पत्तिमात्रेण विशिष्ट इति, भवतु तर्हि घटप्रागभाववद् भव्यत्वस्य विनाशः केवलम्, इत्थं सति दोषाऽन्तरं प्रसज्जति। किम् ? इत्याह - एवं भव्दुच्छेओ, कोट्ठागारस्स अवचउव्व त्ति। तं नाणंतत्तणओ-ऽणागयकालंबराणं व॥ नन्वेवं सति भव्योच्छेदो भव्यजीवैः संसारः शून्यः प्राप्नोति, अपचयात्। कस्य यथा समुच्छेदः? इत्याह- स्तोकस्तोकाऽऽकृष्यमाणधान्यस्य भृतकोष्ठाऽगारस्य। इदमुक्तं भवति-कालस्याऽनन्त्यात् षण्मासपर्यन्ते चाऽवश्यमेकस्य भव्यस्य जीवस्य सिद्धिगमनात् क्रमेणाऽपचीयमानस्य धान्यकोष्ठाऽगारस्येव सर्वस्यापि भव्यराशेरुच्छेदः प्राप्नोतीति / अत्रोत्तरमाहतदेतत् न, अनन्तत्वाद् भव्यराशेः, अनागतकालाऽऽकाशवदिति / इह यद् बृहदनन्तके नाऽनन्तस्तोकस्तोकतयाsपचीयमानमपि नोच्छिद्यते, यथा- प्रतिसमयं वर्तमानताऽऽत्माऽपचीयमानोऽप्यनागत-कालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशाऽपहारेणाऽपचीयमानः सर्वनभःप्रदेशराशिर्वा, इतिन भव्योच्छेदः / कुतः? इत्याह - जंचातीयाणागय-काला तुल्ला जओ य संसिद्धो। एक्को अणंतभागो, भव्वाणमईयकालेणं / /