________________ अभयदेव 707 - अभिषानराजेन्द्रः - भाग 1 अभयदेव तस्याऽऽचार्यजिनेश्वरस्य मदवद् वादिप्रतिस्पर्द्धिनः, तबन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिमल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः // 8 // शिष्येणाऽभयदेवाऽऽख्य-सूरिणा वियतिः कृता / ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः / / 6 / / (युग्मम्) निवृतिककुलनभस्तल-चन्द्रद्रोणाऽऽख्यसूरिमुख्येन। पण्डितगणेन गुणवत्-प्रियेण संशोधिता चेयम् // 10 // एकादशसु शतेष्वथ, विंशत्यधिक षु विक्रमसमानाम् (1120) / अणहिलपाटकनगरे,विजयदशम्यां च सिद्धेयम् / / 11 / / ज्ञा०२ श्रु०॥ यस्मिन्नतीते श्रुतसंयमश्रिया वप्राप्नुवत्यथ परं तथाविधम्। स्वस्याऽऽश्रयं संवसतोऽतिदुस्थिते, श्रीवर्द्धमानः स यतीश्वरोऽभवत्॥१॥ शिष्योऽभवत्तस्य जिनेश्वराख्यः, सूरिः कृताऽनिन्द्यविचित्रशाखः। सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाऽम्बरस्य / / 2 / / अन्योऽपि विज्ञो भुवि बुद्धिसागरः, पाण्डित्यचारित्रगुणैरनुपमैः।। शब्दादिलक्ष्मप्रतिपादकाऽनघग्रन्थप्रणेता प्रवरः क्षमावताम् // 3 // तयोरिमां शिष्यवरस्य वाक्याद्, __ वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः। शिष्यस्तयोरेव विमुग्धबुद्धिः, ग्रन्थाऽर्थबोधेऽभयदेवसूरिः // 4 // बोधो न शास्त्रार्थगतोऽस्ति तादृशो, न तादृशी वाक्पटुताऽस्ति मे तथा। न चाऽस्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः / / 5 / / यदिह किमपि दृग्धं बुद्धिमान्द्याद् विरुद्धं, मयि विहितकृपास्तद् धीधनाः शोधयन्तु। विपुलमतिमतोऽपि प्रायशः सावृतेः स्यात्, नहि न मतिविमोहः किं पुनर्मादृशस्य? // 6 // चतुरधिकविंशतियुते, वर्षसहस्रे शते (सं०११२४) च सिद्धेयम्। धवलकपुरे प्रसत्त्य, धनपत्योर्बकुलचन्द्रिकयोः // 7 // अणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुख्यैः। श्रीद्रोणाचार्याधैः,विद्वद्भिः शोधिता चेति / / || पश्चा०१६ विय० अविस्सई तयवत्थो, जिणनाहो पणसयाइ वरिसाणं / तयणु धरणिंदनिमिअ-सन्निज्झो बिइअसुअसारो // 55 // सिरिअभयदेवसूरी, दूरीकयदुरिअरोगसंघाओ। पयर्ड तित्थं काही, अहीणमाहप्पदिप्पंतं // 56|| ती०६ कल्प। (2) राजगच्छीये प्रद्युम्नसूरिशिष्ये, येन वादमहार्णवो नाम ग्रन्थो विरचितः, 'न्यायवनसिंह' इति च बिरुदं लेभे / वि०सं०१२७६ वर्षे पार्श्वनाथचरित्रनाम्नो गन्थस्य का माणिक्यचन्द्रसूरिणा तत्र लिखितम् - यद् वादमहार्णवकृतोऽभयदेवसूरे रहं नवमोऽस्मीति / अभयदेवसूरेरेव शिष्यः धनेश्वरसूरिर्मुञ्जराजस्य मान्यो गुरुरासीदिति तत्समयोऽनुमातुं शक्यते / अनेनैव अभयदेवसूरिणा तत्त्वबोधविधायिनी नाम सम्मतिटीका विरचितेति / जै०इ०) एतच्च स्फुटमेव प्रतिभाति ग्रन्थसमाप्तौ "इति कतिपयसूत्रव्याख्यया यन्मयाऽऽप्तं, कुशलमतुलमस्मात् सम्मतेर्भध्यसार्थः। भवभयमभिभूय प्राप्यतां ज्ञानगर्भ, विसलमभयदेवस्थानमनिन्दसारम् / / 1 / / पुष्यद्वाग्दानवादिद्विरदघनघटाकुन्तधीकुम्भपीठ- प्रध्वंसोद्भूतमुक्ताफलविशदयशोराशिभिर्यस्य तूर्णम् / गन्तुं दिग्दन्तिदन्तच्छलनिहितपदं व्योम पर्यन्तभागान, स्वल्पब्रह्माण्डभाण्डोदरनिविडतरोत्पिण्डितैःसंप्रतस्थे / / 2 / / प्रद्युम्नसूरेः शिष्येण, तत्त्वबोधविधायिनी। तस्यैषाऽभयदेवेन, सम्मतेर्दिवृतिः कृता / / 3 / / सम्म०३ काण्ड। इत्ययं द्वितीयोऽभवदेवसूरिः // (3) हषपुरीसगच्छोद्भवे भलधारीत्यपरनामके सूरौ, स च कोटिकगणस्य मध्यमशाखायां प्रश्नवाहनकुलसंभूतः स्थूलभद्रस्वामिनो वंश्यः / एकदा हर्षपुराद् विहरन् अणहिल्लपट्टननगरे बहिःप्रदेशे सपरिवारः स्थितः, अन्यदा श्रीजयसिंहदेवनरेन्द्रेण गजस्कन्धाऽऽरूढेन राजवाटिकाऽऽगतेन दृष्टो मलमलिनवस्त्रदेहः, राज्ञा च गजस्कन्धादवतीर्य दुष्करकारक इति दत्तं तस्य "मलधारी' इति नामेति / जै० इ०।। तथा च विविधतीर्थकल्पे जिनप्रभसुरिः - "सिरिपण्हवाहणकुलसंभूओ दरिसपुरीयगच्छालंकारभूत्तिओ अभयदेवसूरी, हरिसओ राओ, एगया गामाणुगामं विहरतो सिरिअणहिल्लवाडयपट्टणमागओ, ठिओ बाहिं पएसे सपरिवारो, अन्नया सिरिजयसिंहदेवनरिंदेण गयखंधारूढे ण रायवाडियागएण दिट्ठो मलमलिणवत्थदेहो, राएण गयखंधाओ ओअरिऊण दुक्करकारओ त्ति दिण्णं 'मलधारि' त्ति नामं, अब्भत्थिऊण नयरमज्झे नीओ रण्णा, दिण्णोउवस्सओ बयवसहीसमीवे, तत्थ ठिआ सूरिणो''। ती०४० कल्प। अस्य गुरुर्जयसिंहसूरिन माऽऽसीत, हेमचन्द्रसूरिनामा च शिष्योऽभवत् / येन वि०सं०११७० वर्षे 'भवभावना' नाम ग्रन्थो व्यरचि, येनैकसहस्रं ब्राह्मणा जैनीकृताः, यदुपदेशादजयमेरुनगरा-ददूरवर्तिनि 'मेडता' ग्रामे प्रसिद्धतज्जिनमन्दिरं कारितम् / किन-अस्यैव अभयदेवसूरेरुपदेशाद् भुवनपालराजेन जिनमन्दिरे पूजाकृभिर्देयः करो मोचितः / अजयमेरुराजेन जयसिंहेनाऽपि तदुपदेशात् मासस्य द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योः शुक्लपञ्चम्यां च स्वराज्ये प्राणिमात्रवधो निवारितः / शाकम्भरीराजेन पृथ्वीराजेन च तदुपदेशाद् रणस्तम्भपूरे स्वर्णकलशोपशोभितं जिनमन्दिरं कारितम् / यदा च सोऽभयदेवसूरिरनशनेन देवलोकंगतस्तदा तस्य शवं चन्दनमयरथे निधायाऽग्निसंस्कारः कृतः, तस्य च शवरथस्य पश्चात् सर्व एव नागरो लोको जयसिंहराजश्व पृष्ठतोऽनुजगाम। दग्धे च तद्भस्म रोगोपद्रवनाशकमिति मत्वा सर्वलोका उधिक्युः / इत्येतत् सर्वं रणस्तम्भपुरीयजिनमन्दिरे शिलायां लिखितमुपलभ्यते / इत्ययं तृतीयोऽभयदेवसूरिः / जै० इ०। (5) भद्रेश्वरसूरिशिष्ये, सं० 1248 वर्षे विवेकमञ्जाः कारकस्य आसमस्य गुरौ, अनेन च भद्रबाहुकृतसामुद्रिकशास्त्रोपरि टीका कृता / केचिदेनं श्रीशान्त्याचार्यशिष्यं मन्यन्ते / इत्ययं चतुर्थोऽभयदेवसूरिः। जै० इ०। (5) रुद्रपालीयगच्छोद्भवे विजयेन्दुसूरिशिष्ये देवभद्रसूरि-गुरौ, अनेन काशिराजाद् 'वादिसिंह' इति बिरुदं लेभे / 'जयन्तविजयं' नाम महाकाव्यं च वि०सं०१२७८ वर्षे निर्ममे / इत्ययं पञ्चमोऽभयदेवसूरिः। जै० इ०॥ (6) गुणाकरसूरिसहवासिनि, येन वि०सं०१४२६ वर्षे सरस्वतीपाटननगरे भक्ताऽमरस्तोत्रटीका कृता, 1451 वर्षे तिजयपहुत्त' नामकं स्तोत्रं च निर्मितम् / जै००।