________________ अभयणंदा 706 - अभिधानराजेन्द्रः - भाग 1 अभयदेव अभयणंदा-स्त्री०(अभयनन्दा) बुद्धिनिधाने, अणु०१ वर्ग। अभयदय-पुं०पअभयद(क)यब अभयं विशिष्टमात्मनः स्वास्थ्यम्, निःश्रेयसधर्मनिबन्धनभूता परमा धृतिरितिभावः। तत अभयं ददातीति अभयदः। जी०३ प्रतिकालातदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् भगवन्त एव ददतीति / ध०२ अधि०। रा०। न भयं दयते ददाति प्राणाऽपहरणरसिके 5प्युपसर्गकारिप्राणिनीत्यभयदयः / अथवा- सर्वप्राणिभयपरिहारवती दयाऽनुकम्पा यस्य सोऽभयदयः / अहिंसाया निवृत्ते, उपदेशदानतो निवर्तके च / भ०१ श०१ उ०। औ०। ध०। भयानामभावाद् भयस्याऽभावोऽभयं, तद्दायकः। तीर्थकरे, कल्प०१क्ष०। अभयदाण-न०(अभयदान) दानभेदे, ग०। यः स्वभावात् सुखैषिभ्यो, भूतेभ्यो दीयते सदा। अभयं दुःखभीतेभ्योऽभयदानं तदुच्यते॥१॥ ग०२ अधिक। नहि भूयस्तमो धर्मः, तस्मादन्योऽस्ति भूतले। प्राणिनां भयभीताना-मभयं यत् प्रदीयते // 51|| द्रव्यधेनुधरादीनां, दातारः सुलभा भुवि। दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः // 52 / / महतामपि दानामां, कालेन क्षीयते फलम्। भीताभयप्रदानस्य, क्षय एव न विद्यते // 53 / / दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतम्। सर्वाण्यभयदानस्य, कलां नाऽर्हन्ति षोडशीम्॥५५।। एकतः क्रतवः सर्वे, समग्रवरदक्षिणाः। एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम्॥५५॥ सर्वे वेदान तत्कुर्युः सर्वे यज्ञा यथोदिताः। सर्वे तीर्थाऽभिषेकाच, यत् कुर्यात् प्राणिनां दया // 56 / / ध०र०॥ अभयदेव-पुं०(अभयदेव) नवाङ्गवृत्तिकारके स्वनामख्याते आचार्ये, स्था०। (1) तचरित्रं त्वेवमाख्यान्ति - धारापुर्यां नगर्या महीधरस्य श्रेष्ठिनो धनदेव्यां नाम भार्यायामभयकुमारो नाम पुत्ररत्नं जज्ञे / स च धारायामेव समवसृतस्य वर्द्धमानसूरिशिष्यजिनेश्वरसूरिणोऽन्तिके प्रवव्राज / ततः प्रज्ञाऽतिशय्यात् षोडशवर्षजन्मपर्यायः कुमारावस्थ एव वर्धमानसूरिणाऽभ्यनुज्ञातो विक्रमीयसं०१०८८ मिते वर्षे आचार्यपदमध्यतिष्ठत् / तदानीं दुष्कालादिभिरध्ययनलेखनादिषु विरहादागमानां वृत्तयो व्युच्छिन्नप्राया आसन, इत्येकदा निशि शुभध्यानाऽवस्थितं तमभयदेवसूरि शासनदेवताऽवोचत्भगवन् ! पूर्वाचार्यैः एकादशस्वप्यङ्गेषु टीकाः कृताः, तास्तुद्वेएवाऽवशिष्ट, शेषा व्युच्छिन्ना इति संप्रति ताः पुनरुज्जीव्य सङ्घोऽनुग्राह्य इति / आचार्येणोक्तम्-शासनाऽधीश्वरि ! मातः! अल्पबुद्धिरहमेतद् गहनं कार्ये कर्तु कथं शक्नुयाम् ?, यतस्तत्र यदि किञ्चिदप्युत्सूत्रं स्यात् , तन्महतेऽनर्थाय संसारपाताय भवे-दिति। ततो देवतयोक्तम्-भगवन्! त्वामहं समर्थमेव मत्वा-ऽवोचम्। यत्र च त्वं संशयिष्यसे, तत्र तत्क्षणमेवाऽहं स्मर्त्तव्या, अहं च महाविदेहं गत्वा तत्र सीमन्धरस्वामिनं पृष्ट्वा त्वां वक्ष्यामीतिन विञ्चिदनुपपन्नं भविष्यति, इति प्रवचनदेव्योत्साहितस्तत्कार्य प्राऽऽरभत। समाप्तेः पूर्वमेव आचामाम्लतपसा निशि जागरणैश्च धातुप्रकोपाद विकृतरुधिरः समजायतातदा द्विष्टलोकैः सहर्षे प्रावाद्यत- यदयमभयदेव उत्सूत्रं व्याख्याति स्मेति, कुपिता शासनदेवी | अस्य शरीरे कुष्ठरोगमुदपादयत् / तमपवादमाकर्ण्य दुःखितमाचार्य रात्रावागत्य धरणेन्द्रस्तं रुधिररोगं व्यनाशयत् / अकथयचस्तम्भनग्रामपार्वे सेढिकानद्यास्तटे भूमिमध्ये श्रीपार्श्वनाथप्रतिमाऽस्ति, यस्याः प्रभावाद् नागार्जुनन रससिद्धिराप्ता, तां प्रकटय तत्र महातीर्थं प्रवर्त्तय, ततस्त्वं विधूताऽपकीर्तिर्भविष्यसि। ततस्तत्रा-ऽभयदेवसूरिणा 'जय तिहुअण !0' इत्यादि द्वात्रिंशद्गाथा-ऽऽत्मकं स्तोत्रमुद्गीर्य सईसमक्षं सा प्रतिमा प्रकटायिता, तस्मात्तस्याऽऽचार्यस्य महद्यशः सर्वत्र प्रोदच्छलत्। पश्चाद्धरणेन्द्रवचसातस्यस्तोत्रस्य द्वेगाथे वियोज्य त्रिंशद्गाथाऽऽत्मकमेव प्राचीकटत्, तादृशमेवाद्याऽपि उपलभ्यते। सा च प्रतिमा खम्भात'नगरेऽद्याऽपि पूज्यमाना वरीदति / सा च नेमिनाथशासनसमये 2222 वर्षे कृतेति तत्प्रतिमाया आसनपृष्ठे टङ्कितमस्ति, पश्चाद् नवाऽङ्गेषु वृत्तीः पञ्चाशकादिटीकाश्च निर्माय कर्पटवणिजनगरे वि०सं०११३५ मिते देवलोकं गतः / जै००। इत्येकोऽभयदेवसुरिः। अनेन चाऽऽत्मकृतप्रबन्धेष्वेवं स्वपरिचयोऽदर्शिश्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गप्रवरश्रीमजिनचन्द्राऽऽचार्याsन्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहायेन समर्थितम्, तदेवं सिद्धमहा-निधानस्येव समापिताऽधिकृताऽनुयोगस्य मम मङ्गलाऽर्थ पूज्य-पूजा- नमो भवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय, नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय / नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै / नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्य-प्रमुखपण्डितपर्षदे, नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टार-कायेति। एवं च निजवंशवत्सलराजसन्तानिकस्येव ममाऽसमानमिममाया-समतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु, यथोचितमितोऽर्थजातमनुतिष्ठन्तुसुधूचितपुरुषा-ऽर्थसिद्धिमुपयुञ्जतांच योग्येभ्यइति। किश - सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः। सर्वस्वपरशास्त्राणा-मदृष्टरस्मृतेश्च मे।।१।। वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः। सूत्राणामतिगाम्भीयात्, मतिभेदाच कुत्रचित् // 2 // क्षुण्णानि संभवन्तीह, केवलं सुविवेकिभिः। सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्यो न चेतरः॥३॥ शोध्यं चैतजिने भक्तै-ममिवद्भिर्दयापरैः। संसारकारणाघोरा-दपसिद्धान्तदेशनात्॥४॥ कार्या न वा क्षमाउस्मासु, यतोऽस्माभिरनाग्रहैः। एतद्गमनिकामात्र-मुपकारीति चिर्चितम् // 5 // तथा संभाव्य सिद्धान्ताद्, बोध्यं मध्यस्थया धिया। द्रोणाचार्यादिभिः प्राज्ञै-रनेकैरादृतं यतः / / 6 / / जैनग्रन्थविशालदुर्गभवनादुचित्य गाढश्रम, सद्व्याख्यानफलान्यमूनि मयका स्थानाऽङ्गसद्भाजने। संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना, श्रीमत्सङ्घविभोरतः परमसावेव प्रमाणं कृती / / 7 / / श्रीविक्रमादित्यनरेन्द्रकालात्, शतेन विंशत्यधिकेन युक्त। समासहस्रेऽतिगते (वि०सं०११२०) निबद्धा, स्थानाङ्गटीकाऽल्पधियोऽपिगम्या / / / स्था०१० ठा।