________________ अभयकुमार 705 - अभिधानराजेन्द्रः - भाग 1 अभयघोष इत्याकर्ण्य नरेन्द्राधा, पर्षद् नत्वा गृहेऽगमत् / द्रमकः स तु तत्रैव, स्वार्थाऽर्थी तस्थिवान् स्थिरः / / 6 / / गुरुस्तमूचे चित्तज्ञः, चिन्तितं ब्रूहि ! सोऽब्रवीत्। जानामि यदि वः पादान, वरिवस्यामि सर्वदा // 10 // ततः प्रव्राज्य तं सद्यो, गुरवः कृतयोगिनाम्। अर्पयामासुराचारं, शिक्षयामासुराशु ते // 11 // तं गीतार्थयुतं भिक्षा-चर्यायामन्यदा गतम् / प्रागवस्थाविदः पौराः, प्रेक्ष्य प्राहुरहंयवः / / 12 / / अहो ! महर्केस्त्यक्ताऽयं, महासत्त्वो महामुनिः। इति वक्रोक्तितः षिड्ग, उपहास्यत सोऽन्वहम् // 13 // ततोऽसौ शैक्षकत्वात् तं, परीषहमसासहिः / सुधर्मस्वामिना प्रोचेऽनूचानेन वचस्विना / / 14 // संयमे किं समाधान-मस्ति ते सुष्ठ सोऽभ्यधात् / अस्ति युष्मत्प्रसादेन, विहारोऽन्यत्र चेद् भवेत्॥१५॥ विधास्यते समाधिस्ते, वत्सेत्युक्त्वा गुरुस्ततः / अभयस्याऽऽगतस्याऽऽख्याद् , विहारो नो भविष्यति / / 16|| अभयः स्माऽऽहनः कस्मा-दकस्मादीदृशः प्रभो!। अप्रसादोऽथ तेऽत्रोचुः, मुनेरस्य परीषहम् / / 17|| अभयोऽप्यभ्यधादेकं, दिवसं स्थीयतां प्रभो!। निवर्त्तत न चेदेष, न स्थातव्यं ततः परम्॥१८|| ओमित्युक्ते मुनीन्द्रेण, निस्तन्द्रः शासनोन्नती। जगाम धाम सद्धर्म-धामधामाऽभयस्ततः // 16 // रत्नानामसपत्नानां, रत्नगर्भाऽधिपोऽङ्गणे / कोटित्रयीं समाकृष्य, राशित्रयमचीकरत् // 20 // तुष्टो राजा ददात्युच्चै-रत्नकोटित्रयी जनाः ! / गृहीतैना यथेष्ट हि, पटहेनेत्यघोषयत्॥२१॥ ततोऽमिलद् द्रुतं लोको, लोलुपः सोऽभयेन तु। बभाष गृह्यतामेषा, रत्नकोटित्रयी मुधा // 22 // युष्माभिः स्वगृहं गत्वाऽनया किन्तु गृहीतया। यावजीवं विमोक्तव्यं, जलमग्निं स्त्रियस्तथा // 23 // इत्याकर्ण्य जनास्तूर्ण-मुत्कर्णास्तजिघृक्षवः / बिभ्यतो निश्चलास्तस्थुः, सिंहनादं मृगा इव // 24 // अभयः प्राह भोः! कस्माद् विलम्बस्तेऽप्यदोऽवदन्। लोकोत्तरमिदं लोकः, किं कश्चित् कर्तुमीश्वरः? ||25|| सोऽवादीत् मुनिना तेन, तत्यजे त्रयमप्यदः / तत्कुतो हसतैवं त-मतिदुष्करकारकम् ? ||26|| न जानीमो वयं स्वामिन् !, तस्यर्षेः सत्त्वमीदृशम् / तमृषिमचर्यिष्यामस्तदिदानीं महामते ! // 27 // अभयेन समं गत्वा, श्रीमन्तस्ते प्रणम्य तम्। महर्षि क्षामयामासुः, स्वापराधं मुहर्मुहः // 28 // इत्येवमभयो जैन-शासनार्थविशारदः / अतिष्ठिपज्जनं मुग्धं, चिरं धर्मे जिनोदिते // 26 // इत्यवेत्य हतपापकश्मलं, सज्जना अभयवृत्तमुज्ज्व लम्। शिक्षयन्तु कृतसर्वमङ्गलं, संततं प्रवचनार्थकौशलम् // 30|| ध०२०।। अभयघोस-पुं०(अभयघोष) स्वनामख्याते वैद्य, ध०२०। अभयघोषकथा चेयम् - आसीत् पूर्वविदेहेषु, शत्रुसंहतिदुर्जये। वत्सावत्याख्यविजये, प्रवरा पू: प्रभङ्करा / / 1 / / तस्यां सुविधिवैद्यस्य, सूनुः सत्कर्मकर्मठः। आसीदभयघोषाख्यो, वैद्यविद्याविशारदः / / 2 / / नरेन्द्रमन्त्रिसार्थेश- नगरश्रेष्ठिनां सुताः। प्रशस्याः सद्गुणश्रेण्यो, वयस्यास्तस्य जज्ञिरे // 3 // मिलितानामथामीषा-मन्येधुर्वेद्यमन्दिरे / आगादनगारवृत्तिः, साधुर्माधुकरी चरन् // 4 // तं पृथ्वीपालभूपाल-पुत्रं नाम्ना गुणाकरम्। निकृष्टकुष्ठं ते दृष्ट्वा , प्रोचिरे वैद्यनन्दनम् / / 5 / / सदाऽर्थदृग्भिर्वेश्यावद्, भवद्भिर्भक्ष्यते जनः। न कस्यचित् तपस्व्यादेः, चिकित्सा क्रियते किल // 6 // जगाद वैद्यजन्माऽपि, चिकित्स्योऽयं मुनिया। भो भद्राः ! निश्चितं किन्तु, भेषजानि न सन्ति मे // 7|| तेऽप्यूचुर्दद्महे मूल्यं, शाधि साध्वौषधानि नः / उवाच सोऽपि गोशीर्ष-चन्दनं रत्नकम्बलम् // 8 // लक्षद्वयेन तत् क्रेयं, तृतीयं तु मदोकसि। विद्यते लक्षपाकाख्यं, तैलं तद् गृह्यतां द्रुतम् / / 6 / / लक्षद्वयं गृहीत्वाऽथ, गत्वा ते कुत्रिकाऽऽपणे। अयाचन्तौषधे तांस्तु, श्रेष्ठ्यूचे किं प्रयोजनम् ? ||10|| तेऽवोचन् कुष्ठिनः साधोः, चिकित्साऽऽभ्यां विधास्यते। अकार्ण्य तद्वचः श्रेष्ठी, चेतस्येवमचिन्तयत्।।११।। क्वैषां प्रमादशार्दूल-काननं यौवनं ह्यदः। विवेकबन्धुरा बुद्धिः, क्व चेयं वार्धकोचिता? |12|| महादृशामीदृशं योग्य, जराजर्जरवमणाम्। यत् कुर्वन्त्यपि तदहो!, धन्यैभरोिऽयमुह्यते // 13 // एवं विचिन्त्य स श्रेष्ठ, ते समयौषधे मुधा। भाविताऽऽत्मा प्रवव्राज, वव्राज च महोदयम् // 14 // कृत्वा समग्रसामग्री, तेऽग्रिमा भक्तिशालिनाम् / समं वैद्यवरेण्येन, प्रययुः साधुसन्निधौ / / 15 / / नत्वाऽनुज्ञाप्य तैलेन, सर्वाऽङ्गे मूक्षितः स तैः। वेष्टितः कम्बलेनाऽथ, निरीयुः कृतयस्ततः // 16 // शीतत्वात् तत्र ते लग्नाः, निर्यद्भिस्तैः प्रपीडितः। लिप्तश्च चन्दनेनाऽऽशु, स्वास्थ्यमाप मुनिः क्षणात् // 17|| विरेवमाद्यवेलायां, निर्ययुः कृमयस्त्वचः। मांसगास्तु द्वितीयस्यां, तृतीयास्यां च तेऽस्थिगाः // 18 // तान कृमींस्ते दयावन्तः, चिक्षिपुर्गोकलेवरे। संरोहण्या च तं साधु, सद्यः सज्जं प्रचक्रिरे // 16 // क्षमयित्वा च नत्वा च, गत्वाऽन्तनगरं ततः। चैत्यं चक्रुश्च विक्रीय, तेऽर्द्धमूल्येन कम्बलम् // 20 // गृहीत्वा गृहिधर्मे च, पश्चात् कृत्वा च संयमम्। ते पञ्चाऽप्यच्युतेऽभूवन, इन्द्रसामानिकाः सुराः / / 21 / / ततश्च्युक्त्वा विदेहेषु, भूत्वा पञ्चाऽपि सोदराः। ते प्रव्रज्य च सर्वार्थ-सिद्धेऽभूवन सुरोत्तमाः // 22 // ततोऽप्यभयघोषस्य, जीवश्च्युत्त्वाऽत्र भारते। बभूव भव्यसंदोह-योधनः प्रथमो जिनः // 23 // शेषास्तु भरतो बाहु-बलिबाही च सुन्दरी। जज्ञिरे तदपत्यानि, प्राऽऽपुश्च परमं पदम् // 24 // एवं निशम्याऽभयघोषवृत्तं, मुदा गुरूणां गुणराजिभाजाम्। दाने सदाऽप्यौषधभेषजादेः, कृतोद्यमा भव्यजना भवन्तु // 25 / / ध०२०।