________________ अब्भुट्ठाण 698 - अभिधानराजेन्द्रः - भाग 1 अब्भुट्ठाण तिर्मानसी मानसिकोपयोगनिष्पन्ना / किमुक्तं भवति ?-यदा साधुरेषणासमितो भवति, तदा श्रोत्रादिभिरिन्द्रियैर्हस्तमात्रकधावनादिसमुत्थेषु शब्दादिषूपयुज्यते / अत एवास्या मनोगुप्से चैकत्वं, शेषास्तु समितय ईा आदाननिक्षेपोचारादिपारिष्ठापनिकाख्याः कायिक्य:- कायचेष्टानिष्पन्नाः। अत एवासां तिसृणामपि कायगुप्त्या सहैकत्वम् / (मणो उ सव्वासु अविरुद्धोत्ति) मानसिक उपयोगः सर्वासु पञ्चस्वपि समि-तिष्वविरुद्धः, समितिबन्धकेऽप्यस्तीति भावः। अत एव मनोगुप्तस्य सर्वासां समितीनां मनोगुप्त्या सहैकत्वं मन्तव्यम् / आह-भिक्षार्थ गृहद्वारे स्थितस्य तत्राहारादीनि कल्पनीयानि मार्गयतः श्रोत्रादिनिरुपयुक्तस्य भाषासमितिमनोगुप्त्येषणासमी-तीनां तिसृणामपि संभवो दृश्यते। अतः किमासामेकत्वमुता-ऽन्यत्वम् ? इत्याशक्याऽऽहवयसमितो चिय जायइ, आहारादीणि कप्पणिजाणि। एसणउवओगे पुण, सोयाई माणसी भवइ / / शशितम्रक्षितादिदशदोषरहितं मया ग्राह्यमित्येषणासमिति-भावसंयुक्तो यदा साधुराहारादीनि कल्पनीयानि मार्गयति तदा वाक्समित एवासौ जायते, नपुनर्मनोगुप्तः इत्येवकारार्थः। यदातु श्रोत्रादिभिरेषणायामुपयोगं करोति, तदा मानसी नाम गुप्तिर्भवेत्, मनोगुप्तिरित्यर्थः / न पुनर्वाग्भाषासमितिः / इदमेव तात्पर्यम्- भाषासमितिः, मनोगुप्तिश्चेति द्वे समितिगुप्ती युगपन्न भवतः, किन्तु भिन्नकालं, यद्यपिच 'मणोय सव्वासु अविरुद्धो ति" वचनाद् भाषासमितावपि मानसिकोपयोगः समस्ति, तथापि गौणत्वादसौ सन्नपिन विवक्ष्यत इति। अपि चजो वि य ठियस्स चेट्ठा, हत्थादीणं तु भंगियाईसु। सो वि य ईरियासमिती, न केवलं चंकमंतस्स // न केवलं चक्रमतश्चक्रमणं कुर्वत एव ईर्यासमितिः, किन्तु स्थितस्य गमनागमनक्रियामकुर्वतो भङ्गिकादिषु भङ्ग-बहुलगमबहुलादिश्रुतेषु परावर्तमानेषु भङ्ग कादिरचना, ययाऽपि हस्तादीनां चेष्टा, साऽपि परिस्पन्दरूपत्वादीर्यासमितिः प्रति-पत्तव्या।यच परेण प्रागुक्तंचङ्क्रमणं निरर्थकमित्यादि तत्परिहाराय चक्रमणगुणानुपदर्शयतिवायाई सट्ठाणं, वयंति कुविया उ संनिरोहेणं। लाघवमग्गिपडुत्तं, परिस्समजओ अचंकमतो।। अनुयोगदानादिनिमित्तं यश्विरमेकस्थानोपवेशनलक्षणः सन्निरोधः, तेन कुपिताः स्वस्थानाचलिता ये वातादयो धातवस्ते चंक्रमतो भूयः स्वस्थानं व्रजन्ति / लाघवं शरीरे लघुभाव उपजा-यते / अग्रिपटुत्वं जाठरानलपाटवंच भवति।यस्तु व्याख्यानादि-जनितः परिश्रमः, तस्य जयः कृतो भवति / एत चक्रमतो गुणा भवन्ति, अतो न निरर्थक चक्रमणम्। आह- यद्येवं, ततः किमवश्यं तत्राऽभ्युत्थानं कर्तव्यमुतन ? इत्यत्रोच्यतेचंकमणे पुण भइयं, मा पलिमंथो गुरूवितिन्नम्मि। पणिवायवंदणं पुण, काऊण सई जहाजोगं / / चैतद्विशिनष्टिप्रश्रवणविचारभूम्यादेरागतस्य गुरोः कर्तव्यमेवाभ्युत्थानम्। चक्रमणे पुनर्भक्तं विकल्पितम्। कथम् ? इत्यत आह-मा / सूत्रार्थपरावर्तनायाः परिमन्थो व्याघातो भवत्विति कृत्वा, यदि गुरवो अनभ्युत्थानं वितरन्ति, तदा नाऽभ्युत्थातव्यम् / परमेवं गुरुभिर्वितीर्णे सति सकृदेकवारमभ्युत्थानं विधाय प्रणिपातवन्दनशिरःप्रणामलक्षण कृत्वा भगवन् ! अनुजानीध्वमिति भणित्वा यथायोगं यथेप्सितं सूत्रार्थगुणनादिकं व्यापारं कुर्यात् / अथवा गुरयो न वारयन्ति, ततो नियमादभ्युत्थातव्यम्। पुनरपि परः प्रेरयति-यदिचक्रमणाभ्युत्थाने सूत्रार्थ-परिमन्थदोषो भवति, तत इदमस्माभिरुच्यतेअइसुठुमिदं वुच्चइ, जं चंकमणे वि होइ उट्ठाणं / एवमकारिजंतो, भद्दगमोई व मा कुज्जा / अतिसुष्ठ वतीव प्रबुद्धजनोचितमिदं भवद्भिरुच्यते-यचङ् - क्रमणेऽप्यभ्युत्थानं कर्तव्यं भवति / सूरिराह- एवं चड्-क्रमणविषयमभ्युत्थानमकार्यमाणा भद्रकभोजिकस्येव प्रसङ्गतो मा शेषमप्यविनयं कार्षुरितिकृत्वा चङ्क्रमणेऽपि अभ्युत्थानं कार्यते / अथ कोऽयं भद्रकभोजिकः ? इत्युच्यते। "जहा -एगो भोइओ तस्स रन्ना तुटेण गाममंडलं पसासणे दिन्नं। सो तत्थ गतो, ताहे ते गामिल्लया तुट्ठा भइओ सामी लद्धो त्ति (ऋजुरित्यर्थः) तओ ते भोइयं विन्नवेति-अहे तव पुत्ताणुपुत्तियं तिव्वा जाया, तो अम्हे चिंतणिज त्ति काउंकरपुव्वपरिमाणाओथोवतरं करेहि, भोइएण अब्भुवगयइ / अन्नया जं जं ते विन्नति, तो तं सो भद्दओ तेसिं गामेल्लयाणं अनुग्गहं करेइ / अइवीसत्थत्तणेण लद्धपसरा ते जहारिहं विणयं भंसिउमादत्ता। ततो भोइयेण रुट्टेण तेगामिल्लया दंडिया, केइ उद्दविया" एस दिलुतो। अयमत्थोवणओ- "चंकमणे अणदभुट्ठाणे, सेसं पि विणियं परिहविज, ततो रुट्ठो आयरिओ पच्छित्ते दंडिजा, जे य तत्थ अचंतावराहिणोते गच्छाओ निच्छुभिजा, विणयमकारिजंताय ते इह लोए पारलोए य परिचत्ता भवंति। आयरिओय सरणमुवगयाणं तेसिं न संरक्षणकारी भवइ, अओ चंकमणे विते अब्भुट्ठाणं कारिजंति'। अपिचवसभाण हॉति लहुगा, असारणे सारणे अपच्छित्ता। ते वि य पुरिया दुविहा, पंजरभग्गा अभिमुहा य॥ येते गुरुचक्रमणादिषु नाभ्युत्तिष्ठन्ति, तान यदि वृषभान सारयन्तिकस्मादाचार्यान्नाभ्युत्तिष्ठथ? ततो वृषभाणां चतुर्ल घवः / अथ वृषभैः प्रतिनोदिताः परं ते न प्रतिशृण्वन्ति, ततः सारण- कृते सति वृषभा अप्रायश्चित्ताः, इतरे प्रायश्चित्तमापद्यन्ते / अनभ्युत्थाने असारणायां चाऽमी दोषा भवन्ति- ये प्रतीच्छका उपसंपत्प्रतिपत्त्यर्थमायाताः ते द्विविधा पुरुषा भवन्ति-पञ्ज-रभग्राः, संयमाभिमुखाश्च / तत्र गच्छे वसतां यदाचा-र्योपाध्यायप्रवर्तकं स्थविरगणावच्छेदिकाख्यपदस्थपञ्चकस्य पारतन्त्र्यं यावद् परस्परं प्रतिनोदनाः, एतत् पञ्जरमुच्यते, एतस्मात् पञ्जराद्भग्ना निन्दिताः पञ्जरभग्नाः / संयमाभिमुखास्तुपावस्थाद्यवयव भग्नविहारिगच्छाचारित्राभिलाषितात्संविन-गच्छं प्रवेष्टुकामाः, तत्र ये पञ्जरभग्ना आगतास्तेषामनभ्युत्थान-विषयाः। मुख्यस्तु पार्श्वस्थाद्यप्रतिनोदनां दृष्ट्वा चिन्तयतिभग्गा कटी अब्भुट्ठाणेण देइ अणुट्ठाणगे सोही। अनिरोहसुहो वासो, होहिइणे इत्थ चिट्ठामो॥