________________ उपोद्घातः (80) न तावत्स्वतः; घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः / परतः प्रतिभासमानत्वं च परं विना नोपपद्यते इति / यच्च / परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम्, तदप्यत्र स्थलेऽन्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव / न च घटादीनां चैतन्यान्वयोऽप्यस्ति, मृदाद्यन्वयस्यैव तत्र दर्शनात्, ततो न किश्चिदेतदपि। अतोऽनुमानादपिन तत्सिद्धिः। किञ्च-पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा? भेदे द्वैतसिद्धिरभेदे त्वेकतारूपतापत्तिः / तत्कथमेतेभ्योऽनुमानमात्मानमासादयति / यदि च हेतुमन्तरेणापि साध्यसिद्धिः स्यात्तर्हि द्वैतस्यापि वाङ्मावतःकथं न सिद्धिः? तदुक्तम्"हेतोरद्वैतसिद्धिश्वेद, द्वैतं स्याद्धेतुसाध्ययोः। हेतुना चेद्विना सिद्धिद्वैतं वाङ्मावतो न किम्?" ||1|| "पुरुष एवेदं सर्वम्" इत्यादेः, "सर्वं वै खल्विदं ब्रह्म" इत्यादेश्वागमादपि न तत्सिद्धिः / तस्यापि द्वैताविनाभावित्वेन अद्वैतं प्रति प्रामाण्यासंभवात् वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापिदर्शनात्। तदुक्तम्"कर्मद्वैत फलद्वैत, लोकद्वैत विरुध्यते। विद्याऽविद्याद्वयं न स्याद्, बन्धमोक्षद्वयं तथा" ||1|| अथ कथमागमादपि तत्सिद्धिः / ततो न पुरुषाद्वैतलक्षणमेकमेव प्रमाणस्य विषयः। इति सुव्यवस्थितः प्रपञ्चः। ईश्वरव्यापकत्वखण्डनम्ईश्वरस्य सर्वगतत्वं नोपपन्नम् / तद्धि शरीरात्मना ज्ञानात्मना वा स्यात्? प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वादितरनिर्मेयपदार्थानामाश्रयानवकाशः / द्वितीयपक्षे तु सिद्धसाध्यता; अस्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्त्रयक्रोडीकरणाभ्युपगमात्। यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः / तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्-"विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतः पाणिरुत विश्वतः पाद्" इत्यादिश्रुतेः / यच्चोक्तं तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावन्निर्माणानुपपत्तिरिति / तत्रेदं पृच्छ्यते / स जगत्त्रयं निर्मिमाणस्तक्षादिवत्साक्षाद्देहव्यापारेण निर्मिमीते, यदि वा सङ्कल्पमात्रेण? आद्ये पक्षे एकस्यैव भूभूधरादेर्विधाने अक्षोदीयसः कालपेक्षस्य सम्भवाद्वंहीयसाऽप्यने हसा न परिसमाप्तिः / द्वितीय-पक्षे तु सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः / नियतदेशस्थायिनां सामान्यदेवाना-मपि सङ्कल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः / किञ्च-तस्य सर्वगतत्वेऽङ्गीक्रियमाणेऽशुचिषु निरन्तरसन्तमसेषु नरकादिस्थ-लेष्वपि तस्य वृत्तिः प्रसज्यते / तथा चानिष्टापत्तिः। अथ युष्मत्प-क्षेऽपि यदा ज्ञानात्मना सर्वजगत्त्रयं व्याप्नोतीत्युच्यते तदाऽशुचिरसास्वादादीनामप्युपलम्भसम्भावनात्, नरकादिदुःखस्वरूपसंवेदनाऽऽत्मकतया दुःखाऽनुभवप्रसङ्गाचानिष्टापत्तिस्तुल्यैवेति चेत्। तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धूलिभिरियायकरणम् / यता | ज्ञानमप्राप्यकारिस्वस्थलस्थमेव विषयं परिच्छिनत्ति, नपुनस्तत्र गत्वा, तत्कुतो भवदुपालम्भः समीचीन? न हि भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वादानुभूतिः / तद्भावे हि स्रक् चन्दनाऽङ्गनारसवत्यादिचिन्तनमात्रेणैवतृप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्ति-रिति / यत्तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम्, तच्छक्तिमात्रमपेक्ष्य मन्तव्यम्। तथा च वक्तारोभवन्तिअस्य मतिः सर्वशास्त्रेषु प्रसरति इति / नच ज्ञानं प्राप्यकारि, तस्याऽऽत्मधर्मत्वेन बहिर्निर्गमाभात्। बहिर्निर्गमे चात्मनोऽचैतन्यापत्त्या अजीयत्वप्र-सङ्गः। न हिधर्मो धर्मिणमतिरिच्य वचन केवलो विलोकितः / यच परे दृष्टान्तयन्ति-यथा सूर्यस्य किरणा गुणरूपा अपि सूर्यनि-क्रम्य भुवनं भासयन्त्येवं ज्ञानमप्यात्मनः सकाशादाहिर्निर्गत्य प्रमेयं परिच्छिनत्तीति / तत्रेदमुत्तरम् / किरणानां गुणत्वमसिद्धम् / तेषां तैजसपुगलमयत्वेन द्रव्यत्वात् / यश्च तेषां प्रकाशात्मा गुणः स तेभ्यो न जातु पृथग्भवतीति संक्षेपः। अथैकेन्द्रियाणां भावेन्द्रियज्ञानसमर्थनेन भावश्रुत समर्थनम्-- एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यत एव, वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात् / तथाहिकलकण्ठोद्गीर्णमधुरपञ्चमोद्गार श्रवणात् सद्यः कुसुमपल्लवादिप्रसवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते / तिलकादितरुषु पुनः कमनीयकामिनीकमलदलदीर्धशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाधाविर्भावश्चक्षुरिन्द्रियज्ञानस्य चम्पकाद्यंहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य,वकुलादिभूरुहेषु तु रम्भातिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषास्यादनात् तदाविष्क-रणं रसनेन्द्रियज्ञानस्य, कुरबकादिविटविष्वशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरण-मणिवलयणत्कबूणाभरणभूषितभव्यभामिनीभुजलताऽवगृहनसुखात् निष्पिष्टपद्मरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराय झगिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्यस्पष्ट लिङ्गम-भिवीक्ष्यते। ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतत् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति / दृश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामा-हारसंज्ञा, संकोचनवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसं-कोचनादिभ्यो भयसंज्ञा, विरहकतिलक-चम्पक-के शराऽशो-कादीनां तु मैथुनसंज्ञा दर्शितैव; विल्वपलाशादीनां तु निधानी-कृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा / नचैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते / तस्मात् भावेन्द्रियपञ्चकावरणक्षयोप-शमाद् भावेन्द्रियपञ्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भावा-द् द्रव्यश्रुताभावेऽपि यच यावर भावश्रुतमस्त्येवैकेन्द्रियाणामित्य-लमतितरां पल्लवितेन / इत्थं सत्स्वपि प्रभूतेषु जैन दार्शनिकवि-षयेषु कथमल्पीयस्यस्मिन्नुपोद्घाते पार्यते दर्शयितु मिति विरम्यते कतिपयविषयप्रदर्शनेनेति निवेदयन्ति संशोधकाः