________________ (71) उपोद्घातः वाच्यत्वात् / अथ प्रत्यक्षस्य विधायकत्यात्कथं प्रतिषेधे सामर्थ्यम्। प्रत्यक्ष हि-इदमिति वस्तुस्वरूपं गृह्णाति, नान्यत्स्वरूपं प्रतिषेधति। "आहुर्विधातृ प्रत्यक्षं, न निषेद्धृ विपश्चितः। नैकत्व आगमस्तेन, प्रत्यक्षेण प्रबाध्यते" |1|| इति वचनात्, इति चेन्न / अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरि-- च्छेदस्याप्यसंपत्तेः। पीतादिव्यवच्छिन्नं हिनीलं नीलमिति गृहीतं भवति, नान्यथा। केवलवस्तुस्वरूपप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् / मुण्डभूतलग्रहणे घटाभावग्रहणवत्। तस्माद्यथा प्रत्यक्षं विधायकं प्रतिपन्नं तथा निषेधकमपि प्रतिपत्तव्यम् / अपि च-विधायकमेव प्रत्यक्षमित्यङ्गीकृते यथा प्रत्यक्षेण विद्या विधीयते, तथा कि नाविद्याऽपि इति / तथा च द्वैतापत्तिः / ततश्च सुव्यवस्थितः प्रपञ्चः। तदमी वादिनोऽविद्याविवेकेन सन्मात्रं प्रत्य-क्षात्प्रतीयन्तोऽपि न निषेधकं तदिति बुवाणाः कथं नोन्मत्ताः / इति सिद्धं प्रत्यक्षबाधितः पक्ष इति / अनुमानबाधितश्च-प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वात्, आत्मवत्। प्रतीयमानत्वं च हेतुर्ब्रह्मात्मनाव्यभिचारी। स हि प्रतीयते न च मिथ्या / अप्रतीय-मानत्वे त्वस्य तद्विषयवचसामप्रवृत्तेऎकतैव तेषां श्रेयसी / साध्यविकलश्च दृष्टान्तः / शुक्तिशकलकलधौतेऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात्। किञ्चेदमनुमानं प्रपञ्चादि-न्नम्, अभिन्नं वा। यदि भिन्नं तर्हि सत्यमसत्यं वा / यदि सत्यं तर्हि तद्रदेव प्रपञ्चस्यापि सत्यत्वं स्यात्। अद्वैतवादप्राकारे खङ्गपापात्। अथासत्यम्, तर्हि न किञ्चित्तेन साधयितुं शक्यम्, अवस्तुत्वात्। अभिन्नं चेत् प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वापत्तिः / मिथ्यारूपं च तत्कथं स्वसाध्यसाधनायालम् / एवं च प्रपञ्चस्यापि मिथ्यारूपत्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात्, यतो बाह्मार्थाभावो भवेदिति। अथ वा प्रकारान्तरेण सन्मात्रलक्षणस्य परम ब्रह्मणः साधनं दूषणं चोपन्यस्यते / ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात्प्रमाणविषयत्वम् / अपरस्य द्वितीयस्य कस्यचिदप्यभावात् / तथाहि-प्रत्यक्षं तदावेदक-मस्ति / प्रत्यक्षं द्विधा भिद्यतेनिर्विकल्पकसविकल्पकभेदात् / ततश्च निर्विकल्पकप्रत्यक्षात् सन्मात्रविषयात्तस्यैकस्यैव सिद्धिः। तथा चोक्तम्"अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम्। बालमूकादिविज्ञान-सदृशं शुद्धवस्तुजम्" // 1 // नच विधिवत्परस्परव्यावृत्तिरप्यध्यक्षत एव प्रतीयत इति द्वैतसिद्धिः, तस्य निषेधाऽविषयत्वात् 'आहुर्विधातृ प्रत्यक्षं न निषेद्ध' इत्यादिवचनात्। यच सविकल्पकप्रत्यक्षं घटपटादिभे--दसाधकं तदपि सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताद्वैतस्यैव साधकम्, सतायाश्च परमब्रह्मरूपत्वात्। तदुक्तम्-"यदद्वैतं तद्ब्रह्मणोरूपम्" इति / अनुमानादपि तत् सद्भावो विभाव्यत एव / तथाहि-विधिरेव तत्त्वं प्रमेयत्वात् / यतः प्रमाण-विषयभूतोऽर्थः प्रमेयः, प्रमाणानां च प्रत्यक्षानुमानागमोपमा-नापित्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः / ___ तथा चोक्तम्"प्रत्यक्षाद्यवतारःस्याद्भावांशो गृह्यते यदा। व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षिते" ||1 // यवाभावाख्यं प्रमाणं, तस्य प्रामाण्याभावान्न तत्प्रमाणम्। तद्विषयस्य कस्यचिदप्यभावात्। यस्तु प्रमाणपञ्चकविषयः स विधिरेव / तेनैव च प्रमेयत्वस्य व्याप्तत्वात् / सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम्, यत्तु न विधिरूपं, तन्न प्रमेयम् / यथा खरविषाणम्। प्रमेयं चेदं निखिलं वस्तृतत्त्वम् / तस्माद् विधिरूपमेव। अतो वा तत्सिद्धिः। ग्रामारामादयः पदार्थाः प्रतिभासान्तः- प्रविष्टाः प्रतिभासमानत्वात्, यत्प्रतिभासते तत्प्रतिभासान्तः-प्रविष्टम् / यथा प्रतिभासस्वरूपम् / प्रतिभासन्ते च ग्रामाऽऽरामादयः पदार्थास्तस्मात्प्रतिभासन्तःप्रविष्टाः / आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते-"पुरुष एवेदं सर्वं यद् भूतं यच भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहति। यदेजति यन्नजति यद् दूरे यदन्तिके यदन्तरस्य सर्वस्य यदुत सर्वस्यास्य बाह्यतः" इत्यादि। 'श्रोतव्यो मन्तव्यो निदिध्यासितव्योऽनुमन्तव्यः' इत्यादि वेदवाक्यैरपि तत्सिद्धेः। कृत्रिमेणापि आगमेन तस्यैव प्रतिपादनात् / उक्तं च-- "सर्वं वै खल्विदं ब्रह्म, नेह नानास्ति किञ्चन। आरामं तस्य पश्यन्ति,न तत्पश्यति कश्चन" ||1|| इति प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्त्वम्, सकल-भेदानां तद्विवर्तत्वात् / तथाहि--सर्वे भावा ब्रह्मवियर्ताः, सत्वेकरूपेणान्वितत्वात् / यद्यद्रूपेणान्वितं तत्तदात्मकमेव / यथा घटघटीशरावोदञ्चनादयो मृद्रूपेणैकेनान्विता मृद्विवर्ताः। सत्त्वैकरूपेणा-न्वितं च सकलं वस्तु / इति सिद्धं ब्रह्मविवर्तित्वं निखिलभेदानामिति / तदेतत्सर्व मदिरारसाऽऽस्वादगद्गदोद्गदितमिवावभासते, विचारासहत्वात्। सर्व हिवस्तुप्रमाणसिद्धं नतुवाङमात्रेण / अद्वैतमतेच प्रमाणमेव नास्ति, तत्सद्भावे द्वैतप्रसङ्गात् / अद्वैतसा-धकस्य प्रमाणस्य द्वितीयस्य सद्भावात्। अथमतं लोकप्रत्यायनायतदपेक्षया प्रमाणमप्यभ्युपगम्यते। तदसत् / तन्मते लोकस्यै-वासम्भवात् / एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्त्वात् / अथास्तु यथाकथञ्चित्प्रमाणमपि / तत्किं प्रत्यक्षमनुमानमागमो वा तत्साधकं प्रमाणभुररीक्रियते? न तावत्प्रत्यक्षम्। तस्य सम-स्तवस्तुजातगतभेदस्यैव प्रकाशकत्यात् , आबालगोपालं तथैव प्रतिभासनात् / 'यच निर्विकल्पकं प्रत्यक्ष तदावेदकम्' इत्युक्तम्। तदपि न सम्यक् / तस्य प्रामाण्यानभ्युपगमात्। सर्वस्यापि प्रमाणतत्त्वस्य व्यवसायात्मकस्यैवाविसंवादकत्वेन प्रामाण्योप-पत्तेः / सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परब्रह्मणः स्वप्नेऽपि अप्रतिभासनात् / यदप्युक्तम्"आहुर्विधातृ प्रत्यक्षम्" इत्यादि / तदपि न पेशलम् / प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ता-कारात्मकवस्तुन एव प्रकाशनात्। एतच प्रागेवक्षुण्णम्। न ह्यनु-स्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्ष सामान्य प्रतिभासते, येन यदद्वैतं तद्ब्रह्मणो रूपमित्याधुक्तं शोभेत। विशेषनिरपेक्षसामान्यस्य खरविषाणवदप्रतिभासनात्। तदुक्तम्"निर्विशेष हि सामान्यं, भवेत् खरविषाणवत्। सामान्यरहितत्वेन, विशेषास्तद्वदेव हि" ||1|| ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वम् / यच प्रमेयत्वादित्यनुमानमुक्तम्, तदप्ये तेनैवापास्तं बोद्धव्यम् / पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् / यच तत्सिद्धौ प्रतिभासमानत्वसाधनमुक्तम् / तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधना याऽलम् / प्रतिभासमानत्वं हि निखिलभावानां स्वतः, परतो वा?