________________ अप्पलेवा ६९०-अभिधानराजेन्द्रः - भाग 1 अप्पा मवमरत्नाधिकं ब्रूयात्- यदि मया कदापि युवत्या सह कृतमकार्य , ततः किं त्वया बहूनां मध्ये अहमेवमभ्याख्यातः- अनेन कृता प्रतिसेवनेति। किन्त्वहमेवैकान्तेवक्तव्यो भवामि। यथादुष्ठ कृतमालोचनां गृहाण गुरूणामन्तिक इति। मम रोषेण त्वयाऽऽत्मीयमपिशीलं विगोपितम् एवं सद्भावो ज्ञायते / एतावता "आवस्सग आउट्टण, सब्भावे वा'' इति व्याख्यातम्। इदानीमसद्भावे इति व्याख्यानयति-"अभासमाणाण परोप्परं वा" इति / अथ कदाचित्तौ रोषतः परस्परं न संलपतः, तदा तयोः परस्परमभाषमाणयोर्भूतार्थपरिज्ञानाभावे तपस्वी क्षपको देवताध्यानार्थ कायोत्सर्ग कुर्यात् / कायोत्सर्गेण च देवतामाकम्प्य पृच्छतिकोऽनयोयोर्मध्ये सम्यग्वादी, को वा मिथ्यावादीति ? तत्र यद्देवता ब्रूते, तत्प्रमाणम्। तेन तप इति द्वारं व्याख्यातम्। ___ अधुना सङ्घद्वारं व्याचिख्यासुरिदमाहकिंचि तहाऽतह दीसइ, चउभंगे पंत देवया भहा। अत्तीकरेइ मूल, इयरे सबप्पतिण्णाओ॥ सर्वप्रकारेणाज्ञायमाने भूतार्थे संघसमवायं कृत्वा तस्मै आवेद्यतेरत्नाधिको वदति- नाऽहं कृतवान्प्रतिसेवनाम् ; इतरो ब्रूते द्वावपि प्रतिसेवितवन्ताविति, तत्र किंकर्तव्यमिति? एवमादिना कृते ये संधमध्ये गीतार्थास्ते वदन्ति- किञ्चित्तथाभावं तथा भावेन दृश्यते; किशित्तथाभावमन्यथाभावेन; किश्चिदन्यथाभावं तथाभावेन; किञ्चिदन्यथाभावमन्यथाभावेन / एषा चतुर्भङ्गी। अस्यां चतुर्भङ्ग्यां प्रथमो भङ्गः प्रतीतः। द्वितीयभङ्गभावना त्वेवम्-कोऽपि क्यापि धनप्रदेशे गच्छति। तत्र केचिदारक्षका अपगतक्षमा असिव्यग्रहस्ता वल्गन्तिाततः कदाचिद्देवता भद्रिका मा विनश्यत्वेष पुरुष इति तंदूरान्तरितं दर्शयति। तृतीयमङ्ग:- भगवतोवर्द्धमानस्वामिनः सागारिकमकषायितं सङ्गमकः कषायितं दर्शयति / चतुर्थभङ्ग:-कस्याञ्चिद्विपदि दासं राज्ञा कारितराजनेपथ्यं विनश्यन्तं दृष्ट्वा कदाचिद्भद्रदेवतातदनुकम्पया स्त्रियं दर्शयति। एवं प्रान्ता भद्रा च देवता अन्यथाभूतं यद्वस्तु अन्यथा करोतिअन्यथा भूतं दर्शयति, ततो दृष्टमपि तावदप्रमाणमत्र। ननुज्ञायते-किमपि दृष्टमवमरत्नाधिकेन, अथ च सत्यप्रतिज्ञा व्यवहारास्तीर्थकृद्भिरुपदिष्टास्तस्माद्यद् रत्नाधिको ब्रूते- न मया प्रतिसे वितमिति तत्प्रमाणतः शुद्ध एष न प्रायश्चित्तभागिति / यदपि चावमरत्नाधिको वक्तिमया प्रतिसेवितमिति, तदपि प्रमाणमतस्तस्य मूलं प्रायश्चित्तमिति। व्य०२ उन अन्भच्छण्ण-त्रि०(अभ्रच्छन्न) मेघावृते. बृ०१उ०। अब्भड-देशी-प्रसिद्धशब्दः / अनुव्रजने, "अब्भडवंचिउ बे पय, पेम्मु निअत्तइजाएँ। सव्वासण-रिउ-संभव-हो, कर परिअत्ता ता" प्रा०) प्रेमशब्देन प्रिया वाच्या, अभेदोषचारात्। यथा प्रेमवतीत्युच्यते, तथा प्रेमापीत्युच्यते / प्रियाप्रियमिति शेषः / प्रियम्, (अब्भडवं चिउ इति) अनुव्रज्य मुत्कलाय्य यावद् द्वौ पादौ निवर्तते, तावत् सर्वाशनरिपु संभवस्य चन्द्रस्य कराः किरणाः परिवृताः, प्रसृता इत्यर्थः / सर्वमश्नातीति 'नन्द्यादि० / 5 / 1 / 52 // इत्यनः प्रत्ययः। सर्वाशनोऽग्निः, तस्य रिपुर्जलं, तत्संभवश्चन्द्रः।अनुव्रजेन रते 'अब्भड' इति वंचक्त्या / प्र०। वंचयते लोकान् 'स्वराणां०८/२३८। अब्भडवंचिउ॥९०४ पाद। अब्भणुण्णा-स्त्री०(अभ्यनुज्ञा) कर्त्तव्यानुमतिदाने, स्था०। अथात्र भगवतो महावीरस्याऽभ्यनुज्ञातानि प्रदर्श्यन्तेपंच ठाणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिचं वणियाई णिचं कित्तियाइं णिचं बुइयाइं णिचं पसत्थाई निचमब्भणुण्णाई भवंति / तं जहा-खंती मोत्ती अज्जवे मद्दवे लाघवे। पंच ठाणाई समणाणं० जाव अब्मणुन्नायाइं भवंति।तं जहा- सचं संजमे तवे चियाए बंभचेरवासे / पंच ठाणाई समणाणं० जाव अब्भणुन्नायाई भवंतितं जहा- उक्खित्तचरए णिक्खित्तचरए अंतचरए पंतचरए लूहचरए। पंच ठाणाइं० जाव अब्मणुनायाइं भवंति / तं जहा-अन्नायचरए अन्नवेलचरए मोणचरए संसट्ठकप्पिए तज्जायसंसट्ठक-प्पिए। पंच ठाण इं० जाव अब्भणुन्नायाई भवंति। तं जहा- उवनिहिए सुद्धसणिए संखादत्तिए दिट्ठलाभिए पुट्ठलामिए। पंच ठाणाइं० जाव अब्मणुनायाई भवंति / तं जहा- आयंबिलए निव्विइए पुरिमड्डिए परि-मियपिंडवाइए भिन्नपिंडवाइए / पंच ठाणाइं० जाव अब्मणुनायाई भवंति / तं जहा-अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे। पंच ठाणा० जाव भवंति। तं जहाअरसजीवी विरसजीवी अंतजीवी पंतजीवी लूहजीवी / पंच ठाणाई० जाव भवंति / तं जहा-ठाणाइए उक्कुडुआसणिए पडिमछाइवीरासणिए णेसज्जिए। पंच ठाणाइं० जाव भवंति। तं जहा-दंडायइए लगंडसाई आयावए अवाउडए अकंडुयए। नित्यं सदा वर्णितानि फलतः कीर्तितानि संशब्दितानि, नामतः (बुइयाई ति) व्यक्तवाचोक्तानि, स्वरूपतः प्रशस्तानि प्रशंसितानि लाधितानि, शंसु स्तुताविति वचनात् / अभ्यनुज्ञातानि कर्त्तव्यतया अनुमतानि भवन्तीति। अयं च सूत्रोत्क्षेपः प्रतिसूत्रे वैयावृत्त्यसूत्रं यावत् दृश्यत इति / स्था०५ ठा०१ उ०। (क्षान्त्यादीनां व्याख्या स्वस्थाने वक्ष्यते) असत्याऽभ्याख्यानं कुर्वतः क्रियाजे णं भंते ! परं अलिएणं असब्भूएणं अब्भक्खाणेणं अब्भक्खाइ, तस्स णं कहप्पगारा कम्मा कजंति ? गोयमा! जेणं परं अलिएणं असंतएणं अब्भक्खाणेणं अब्भक्खाइ, तस्स णं तहप्पागरा चेव कम्मा कजंति, जत्थेवणं अभिसमागच्छइ, तत्थेव णं पडिसंवेदेइ / तओ से पच्छा वेदेइ / सेवं भंते ! भंते ! त्ति। अलीके न भूतनिहवरूपेण पालितब्रह्मचर्य साधुविषयेऽपि नाऽनेन ब्रह्मचर्य मनु पालितमित्यादिरूपेण (असब्भूएणं ति) अभूतोद्भावनरूपेण अचौरेऽपि चौरोऽयमित्यादिना / अथवा अलीके न असत्येन तच द्रध्यतोऽपि भवति, लुब्धकादिना मृगादीन्पृष्टस्य जानतोऽपि नाऽहं जानामि, इत्यादि / अत आह