________________ अप्पलेवा 689 - अभिवानराजेन्द्रः - भाग 1 अप्पा ज्येष्ठार्येणाद्य सद्य इदानीमायगृहे कृतमकार्य मैथुनाभिसेवा-लक्षणं, ततो भदन्त ! तत्संसर्गतो मयाऽपि संसृष्टकल्पो मैथुनप्रतिसेवा, अत्राऽस्मिन्प्रस्तावे उपजीवितः। अहवा उच्चारगतो, कुडंगमाईकडिल्लदेसम्मि। बेती कयं अकजं, जेट्टजेणं सह मए वि॥ अथवेत्यभ्याख्यानस्य प्रकारान्तरप्रदर्शने / कुडङ्गादौ कडिल्ल-देशे गहनप्रदेशे उच्चाराय गतस्तत्र च ज्येष्ठार्येण सह मयापिकृतमकार्यमिति। तस्माद् व्रतानि मम साम्प्रतमारोपयत। एवमुक्तेसुरिभिः स एवं वक्तव्यःतम्मागते वयाई, दाहामो देंति वाऽऽउरंतस्स। भूयत्थे पुण नाए, अलियनिमित्तं न मूलं तु॥ योऽसौ त्वया अभ्याख्यातः, स यदा आगतो भविष्यति, तदा तस्मिन्नागते व्रतानि दास्यामः / अथ स त्वरमाणो ब्रूते- भगवन् ! कुशाग्रस्थितवाताहतजलबिन्दुरिवातिचञ्चलं जीवितमिति न शक्यते क्षणमात्रमप्यव्रतेन स्थातुम् इत्यधुनैव ममारोप्यतांव्रतादीनीति। तस्यैव त्वरमाणस्य ददति व्रतानि, वाशब्दो विकल्पार्थः / तत्र पुनर्भूतार्थोगवेषणीयः, किमयं सत्यं ब्रूते, उताऽलीकम् ? तत्र यथा भूतार्थो गवेषणीयस्तथाऽनन्तरमेव वक्ष्यते / भूतार्थे च ज्ञाते यदि सत्यं, तदा द्वयोरपि मूलं दीयते। अथाऽलीकम्, ततो योऽभ्याख्यातः सशुद्धः, इतरस्य त्वभ्याख्यातुर्मूलं न दीयते, किन्त्वलीकनिमित्तं मृषावादप्रत्ययं चतुर्गुरुकं प्रायश्चित्तमिति। सम्प्रति यथा भूतार्थो ज्ञायते, तथा प्रतिपिपाद यिषुरिगाथामाहचरियापुच्छणपेसण, कावालिय तवसंघो यजं भणइ। चउभंग निरिक्खा देवया य तहियं विही एसो॥ तत्रभूतार्थे ज्ञातव्ये एष विधिः- चरिका परिवाजिका, तस्याः प्रच्छनाय वृषभाणां प्रेषणं, स चेत्सत्यवादी न मन्यते, ततस्तौ द्वावपि पृथगाश्रये प्रेक्ष्य तत्र वृषभाः तत्स्वरूपगवेषणाय कापालि-करूपेण प्रेष्यन्ते। कापालिकग्रहणमुपलक्षणम्, तेन सरजस्का-दिरूपेणापीत्यपि द्रष्टव्यम्। एवमपि भूतार्थानिर्णय (तवो ति) तपः स्वकायोत्सर्गेण देवतामाकम्प्य पृच्छति। एतस्यापि प्रकारस्याभावे संघो मेलयित्वाः प्रच्छनीयः, तेनच निरीक्षिणो निरीक्षका-नधिकृत्य चतुर्भङ्गी-केचित्तथाभूतं तथाभावेन पश्यन्तीत्यादिरूपा वक्ष्यमाणा प्ररूप्यते। गाथायां पुंस्त्वं प्राकृतत्वात्। सा च चतुर्भङ्गी भद्रप्रान्तदेवता आश्रित्य संभवति / एष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव गाथां विवरीषुराहआलोइयम्मि तिउणो, कज्जं से सीसए तयं सव्वं / पडिसिद्धिम्मि य इयरो, भणाइ वीयं पिते नत्थि॥ अभ्याख्यातः साधुरागतः सन् आलोचयति-प्रथमालिकां यावन्न जानामि द्वितीयः संघाटकः क्वापि गत इति केवलोऽहमागतोऽस्मि। तत आचार्या ब्रुवते - सम्यगालोचय / ततः स स्मृत्वा आलोचयति, यावत्तस्मिन्नपितृतीये वारे तदालोचितम्। ततस्त्रिगुणं त्रिःकृत्व आलोचिते यदि न प्रतिसेवित-मित्यालोचयति, ततो येन कारणेन त्रीन् वारान् / आलोचायितस्तत्कार्य कारणं सर्व तस्य शिष्यते कथ्यते, यथा-सएष तव संघाटकस्त्वया सह किञ्चिन्मात्रं हिण्डित्वा समागतो ब्रूते-ज्येष्ठार्येण आर्यागृहे वृक्षविषमे च क्वचित्प्रदेशे कृतमकार्यम्, तत्संसर्गतो मयाऽपि संसृष्टकल्प उपजीवित इति / ततोऽभ्या-ख्यातसाधुर्वदति न मया प्रतिसेवितम् / एवं तेन प्रतिषिद्धे प्रतिसेवने इतरोऽभ्याख्यानप्रदाता भवति-अहो ! ज्येष्ठार्य ! तव द्वितीयमपि व्रतं नास्ति, आस्तां चतुर्थमित्यपिशब्दार्थः। दोण्हं पि अणुमएणं, चरिया वसहे पुच्छियपमाणं। अन्नत्थ वसह तुम्भे, जा कुणिमो देव उस्सगं / / एवं द्वयोरपि विवदतोरेवमुच्यते-चरिका पृच्छ्यतां, यत्सा वक्ष्यति, तत्प्रमाणयिष्यते। एवमुक्ते यदि तौद्वावप्यनुमन्येते, ततो द्वयोरनुमतेन, संमत्या इत्यर्थः। वृषभाश्चरिको प्रष्टुं प्रेष्यन्ते, तेचतत्र गताः प्रथमतश्चरिकां प्रज्ञापयन्ति, प्रज्ञाप्य पृच्छन्ति-किमत्र सत्यम्, अलीकं वा ? एवं वृषभैश्वरिका पृष्टा सती, यद् ब्रूते तत्प्रमाणं कर्त्तव्यम्। तत्र चरिकयोक्तम्भगवन् ! अभ्यख्यानं तेन द्वितीयेन तस्मै दत्तमिति / एतचोक्तं वृषभा वसतावागत्यगुरवे निवेदयन्तिा यथावस्थिते निवेदिते यद्यन्यतरोवदतिगृहयति चरिका,नसम्यक्कथयति। तदा गुरवो द्वावपि ब्रुवते-यूयमन्यत्र वसतिं याचयित्वा तत्र वसथ, यावदद्य रात्रौ देवताराधनार्थ कायोत्सर्ग कुर्मः। किमुक्तं भवति?-कायोत्सर्गेण देवतामाकम्प्य पृच्छामः- कोऽत्र सत्यवादी? को वाऽलीकवादी? इति। एवमुक्ते तौ द्वावपि वसत्यन्तरे गते यद् भवति, तदभिधित्सुराहअद्विगमादी वृसभा, पुट्विं पच्छा वजंति निसि सुणणा। आवस्सग आउट्टण, सन्मावे वा असन्मावे॥ अस्थिकाः कापालिकाः, आदिशब्दात्सरजस्कादिपरिग्रहः, तद्रूपाः सन्तः / किमुक्तं भवति?- कापालिकं वेषं सरजस्कवेषं कृत्वा यस्यां वसतीद्वावपिजनौ तिष्ठतस्तत्र पूर्वं वृषभा गच्छन्ति। यदिवा तयोर्गतयोः पश्चात्तत्र च गत्वा रात्रौ मातृस्थाने सुप्ता इव तिष्ठन्ति, तथापि तयोः परस्परमुल्लापं शृण्वन्ति / तयोश्चावश्यकं कर्तुकामयोर्योऽसाववमरत्नाधिकोऽभ्याख्यानदाता, सइतरं प्रति मिथ्यादुष्कृतेनोपस्थित एतद्वदति-त्वं मया असता अभ्याख्यानेनाभ्याख्यातोऽतो मिथ्यादुष्कृतमिति / ततो रत्नाधिको ब्रूते-किं नाम तवापकृतं मया, येनासदाभ्याख्यानं मे दत्तमिति? अवमरत्नाधिको भाषते-त्वं नित्यमेव यत्र तत्र वा कार्य सम्यग् प्रवर्त्तमानमपि- हे दुष्ट ! शैक्षक ! इति तर्जयसि, तेन मया त्वमसदभ्याख्यानेनाभ्याख्यातः / एवमावश्यके आवश्यकवेलायामावर्त्तने भावप्रत्याख्याने अलीकाभ्याख्याने सद्भावो ज्ञायते / अथ न परस्परसंभाषणतः सद्भावो ज्ञायते, तदा सद्भावपरिज्ञानाभावे तपस्वी प्रष्टव्य इति शेषः। तथाचाऽऽहसढो त्तिमं भाससि निचमेव, बहूण मज्झम्मि तओ कहेमि। अभासमाणाण परोप्परं वा, देवाणमुस्सग्ग तवस्सि कुज्जा। नित्यमेव सर्वकालमेव यद् हे शठ ! शैक्षक ! इति मां भाषसे, तेन त्वमसताऽभ्याख्यानेनाभ्याख्यातः / अथ स रत्नाधिकस्त