SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ अब्बुय 686 - अभिधानराजेन्द्रः - भाग 1 अब्भंगण वैक्रमे वसुवस्वाशा 1088, मितेऽब्दे भूरिरैव्ययात्। सत्प्रासादं सुविमलवसत्याहू व्यधापयत्॥४०॥ योत्रोपनम्रसंघस्यानि विघ्रविघातनम्। कुरुतेऽत्राम्बिका देवी, पूजिता बहुभिर्विधैः / / 41 / / युगादिदेवचैत्यस्य, पुरस्तादत्र चाश्मनः। एकरात्रेण घटितः, शिल्पिना तुरगोत्तमः // 42 // वैक्रमे वसुवस्वर्क 1288, मितेऽब्दे नेमिमन्दिरम्। निर्ममे लूणिगवसत्याह्वयं सचिवेन्दुना // 43 // कषोपलमयं बिम्ब,श्रीतेजःपालमन्त्रिराट्। तत्र न्यस्थात् स्तम्भतीर्थे, निष्पन्नं दृसुधाऽजनम्॥४४|| मूर्तीः स्वपूर्ववंश्यानां, हस्तिशालंच तत्र सः। न्यवीविशद्विशां पत्युः, श्रीसोमस्य निदेशतः॥४५|| अहो ! शोभनदेवस्य, सूत्रधारशिरोमणेः। तचैत्यरचनाशिल्पान्नाम लेभे यथार्थताम् // 46 // वज्रात्त्रातः समुद्रेण, मैनाकोऽस्यानुजो गिरेः। समुद्रस्नातोऽन्वनेन, दण्डेत् मन्त्रीश्वरो भवात्।।४७|| तीर्थद्वयेऽपि भनेऽस्मिन, दैवान् म्लेच्छैः प्रचक्रतुः / अस्योद्धारं द्वौ शकाब्दे, वह्रिवेदार्कसम्मिते 1243 // 48 // तत्राद्यतीर्थस्योद्धर्ता, लल्लो महणसिंहभूः / पीथमस्त्वितरस्याभूदुद्धर्ता, चण्डसिंहजः॥४६॥ कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः / श्रीवीरचैत्यमस्योचैः, शिखरे निरमीमपत्॥५०॥ तत्तत्कौतूहलाकीर्णं, तत्तद्दोषविबन्धुरम्। धन्याः पश्यन्त्यर्बुदाद्रि, नैकतीर्थपवित्रितम्॥५१।। दृब्धः श्रोत्रसुधाकल्पः, श्रीजिनप्रभसूरिभिः। श्रीमदर्बुदकल्पोऽयं, चतुरैः परिवीयताम्॥५२॥ इति श्रीअर्बुदाचलकल्पः समाप्तः। ती०८ कल्प। अब्भ-न०(अभ्र) अपो बिभर्तीति अब्भ्रम् / मेघे, रा०ा अपभ्रंशेलिङ्गमतन्त्रम्" 4445] इति सूत्रेण पुंस्त्वम् / “अब्भा लग्गा डोंगरिहिं, पहिउ रडतउ जाइ। जो एहा गिरिगिलणमणु, सो किं धणहि धणाइ" ||1|| प्रा०४ पाद / अभ्राणि सन्त्यस्मिन्नित्यभ्रम् / 'अभ्रादिभ्यः' 17 / 2 / 46 / इति हैमसूत्रेण मत्वर्थीयोऽप्रत्ययः। आकाशे, "अब्भवद्दलए विउव्यइ" अभे यानि वार्दलकानि, तानि विकुर्वन्ति, आकाशे मेघान् विकुर्वन्तीत्यर्थः / रा०। स्था०। आ०म०| अभंग-पुं०(अभ्यङ्ग) अभि-अङ्ग्-भावे घन : कुत्वम् / स्तोकेन तैलादिना मर्दने, एकवारं तैलमर्दने च। नि०चू०३ उ०। अभंगण-न०(अभ्यञ्जन) घृतवशादिना (प्रश्न०४ संवन्द्वा०) सहस्रपाकतैलादिभिर्वा (आचा०१ श्रु०६ अ०४ उ०) म्रक्षणे, कल्प०३ क्षण / स्था०। नि०चूला आ०म० बृ०। प्रव०। साधूनामभ्यञ्जनं न कार्यम्- . नो कप्पइ निग्गंथाण वा निग्गंथीण वा, परिवासिएण तेल्लेण वा घएण वा नवणीएण वा वसाएवा, गत्तं अन्भंगित्तएवा पक्खित्तए वा, नन्नत्थ आगाढेहिं रोगायंकेहिं / अस्य सम्बन्धमाहससिणेहो असिणेहो, दिज्जइ मक्खित्तु वा तगं दिति। सव्वो वि वणो लिप्पइ, दुहा उ वा मक्खणा भूया // आलेपः स्नेहोऽस्नेहो वा दीयते, ततो यथा स्नेहेन म्रक्षितं क्रियते, नवा, तथाऽनेनाऽभिधीयते। यद्वा-व्रणं म्रक्षित्वा तकमनन्तर-सूत्रोक्तमालेपं प्रयच्छन्ति; न वा सर्वोऽपि व्रण आलेप्यते। द्विधा वा म्रक्षणा भूयात, क्षतो व्रणोऽपि म्रक्ष्यते, आलेपोऽपि म्रक्षितुं दीयत इति भावः / अनेन संबन्धेनायातस्यास्य व्याख्यानो कल्पते परिवासितेन वा तैलेन वा धृतेन वा नवनीतेन वा वसयावा गात्रमभ्यङ्गितुं वा बहुलेन तैलादिना, मेक्षितुं वा स्वल्पेन तैलादिना, नान्यत्र गाढगाढेभ्यो रोगातङ्केभ्यः, तान्मुक्त्वा न कल्पते इत्यर्थः / दोषाश्चात्र त एव संचयादयो मन्तव्याः। आह- यद्येवं परिवासितेन न कल्पते म्रक्षितुं, ततस्तदिवसानीतेन कल्पिष्यते। सूरिराहतद्दिवसमक्खणम्मी, लहुओ मासो उ होइ बोधव्वो। आणायणा विराहण, धूलि सरक्खो य तसपाणा॥ तदिवसानीतेनापि यदि म्रक्षयति, तदा लघुमासः, आज्ञादयश्च दोषाः, विराधना च संयतस्य भवति / तथाहि- म्रक्षिते गात्रे धूलिलंगति, सरजस्को वा सचित्तरजोरूपो वा तेनोद्धतो लगति, तेन चीवराणि मलिनीक्रियन्ते, तेषां धावने संयमविराधना, स्नेहगन्धेन वा ये त्रसप्राणिनो लगन्ति, तेषां विराधना भवेत्। धुवणाधुवणे दोसा, निसि भत्तं उप्पिलावणं चेव / चउसत्त समइ तलिया, उव्वट्टणमाइ पलिमंथो॥ स्नेहेन मलिनीकृतानां चीवराणां गात्राणां च धावनाधावनयोरुभयोरपि दोषाः / तथाहि- यदि न धाव्यन्ते, तदा निशि भक्तम्, अथ धाव्यन्ते, ततः प्राणिनामुत्प्लावना भवेत्। उपकरणशरीर-योर्वा, कृशत्वं च भवति / (स मंइ त्ति) स एव हेवाको लगति, म्रक्षिते च गात्रपादयोर्मा धूली लगिष्यति इतिकृत्वा तलिकाऽपि नाति, तत्र गर्वो निर्दिवतेत्यादयो दोषाः। यावत्स्वगात्रस्यो-द्वर्तनादिकं करोति, तावत्सूत्रार्थपरिमन्थो भवति / तद्दिवसमक्खणेण उ, दिट्ठा दोसा जहा उ मक्खिज्जा। अद्घाणेणुव्वाएऽपवाएँ अरुकच्छुजयणाओ॥ तदिवसम्रक्षणेन जनिता एतदोषा दृष्टाः / द्वितीयपदे यथा म्रक्षयेत् तथाऽभिधीयते- अध्वगमनेनाभारोद्वान्तः, परिश्रान्तो वा, तेन वा कटी गृहीता, अरुणं तद्द्वाररोपे जातं कच्छूः पामा, तया वा कोऽपि गृहीतस्ततो यतनया मक्षयेदपि। तामेवाऽऽहसन्नाईकयकजो, धुवितं मक्खेउ अत्थए अंते। परिपीय गोमयाई-उवट्टणा धोवणे जयणा। संज्ञा गमनम्, आदिशब्दादागमनादिकं च कायकृते कृतकार्यो, न संसद्वादकृतकार्यः, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः / स यावन्मात्र म्रक्षणीयं, तावन्मात्रमेव धावित्वा प्रक्षाल्य ततो म्रक्षयति, म्रक्षयित्वा च प्रतिश्रयस्यान्तस्तावदास्ते, यावत्तेन गात्रेण तत्तैलादिकम्रक्षणं परिपीतं भवति / ततो गोमयादिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लावना न भवति, तथा धावनं कार्यम्। जह कारण तद्विवसं, तु कप्पई तह भवेज इयरं पि। आयरियवाहि वसभेहिँ पुच्छिए वेज संदेसो॥ यथा कारणे तद्दिवसानीतं म्रक्षणं कल्पते, तथेतरदपि परिवासितं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy