________________ अबोहि 685 - अभिधानराजेन्द्रः - भाग 1 अब्बुय मिथ्यादर्शनं विपर्यस्तदर्शनं, मिथ्यात्वंतु मिथ्याक्रिया द्यभिलाषरूपं, तत्र रताः, तथा सह निदानेन देवत्वादि प्रार्थनारूपेण वर्तन्त इति सनिदानाः। तथा कृष्णां सर्वाधर्मरूपालेश्यांजीवपरिणामरूपामवगाढाः प्राप्ता इहाऽस्मिन् जगति एवंविधा ये जीवा म्रियन्ते, तेषां दुर्लभो भवेद् बोधिः / आतु०। अबोहिकलुस-त्रि०(अबोधिकलुष) मिथ्यादृष्टी, दश०४ अ०। अबो हिबीय-न०(अबोधिबीज) अबोधेर्जन्मान्तरे जिनधर्माऽप्राप्तौ बीजमिव बीजं हेतुरबोधिबीजम्। पञ्चा०४ विव०। सम्यग्दर्शनाभावहेतौ, पञ्चा०७ विवा अबोहिय-न०(अबोधिक) मिथ्यात्वफले (अज्ञाने), दश०६ अ० न विद्यते बोधिर्यस्य सोऽबोधिकः / बोधरहिते, "निच्छयत्थं न जाणंति, मिलक्खुव्व अबोहिया'। सूत्र०१श्रु०१ अ०२ उ०।अविद्यमानबोधिके, औ० / अविद्यमानो बोधोऽस्मात् / भवान्तरप्राप्तव्यजिनधर्मलाभाप्रतिजागरेणाऽज्ञे, “अप्पणो य अबोहीए, महोमोहं पकुव्वइ" / स०३० समा अब्बुय-पुं०(अर्बुद) स्वनामख्याते (आबू) पर्वते, ती०। तत्कथा चैवम् - अर्हन्तौ प्रणिपत्याऽहं, श्रीमन्नाभेयनेमिनौ। महाद्रेर्बुदाख्यस्य, कल्पं जल्पामि लेशतः / / 1 / / देव्याः श्रीमातुरुत्पत्तिमादौ वक्ष्ये यथाश्रुतम्। यदधिष्ठानतो ह्येष, प्रख्यातो भुवि पर्वतः / / 2 / / श्रीरत्नमालनगरे, राजाऽभूद् रत्नशेखरः। सोऽनपत्यतया दूनः प्रैषीच्छाकुनिकान बहिः / / 3 / / शिरस्थां काष्ठभारिण्यास्ते दुर्गा दुर्गतस्त्रियाः। वीक्ष्य व्यजिज्ञपन राज्ञे, भाव्यस्यास्त्वत्पदे सुतः॥४॥ राज्ञाऽऽदिष्टा सगर्भव, सा हन्तुं तन्नरैर्निशि। गर्ने क्षिप्ता कायचिन्ताव्याजात् तस्माद् बहिर्निरत् // 5 // साऽसूत सूनुमत्यार्ता, द्राग् वडातान्तरेऽमुचत्। गर्त चाऽऽनीय तवृत्ताऽनभिहस्तैरघानि सा॥६|| पुण्येरितार्भ स्तन्यं चाऽपीप्यत् सन्ध्याद्वये मृगी। प्रवृद्धेऽस्मिष्टङ्कशाला-महालक्ष्याः पुरोऽन्यदा / / 7 / / मृग्याश्चतुर्णा पादानामधो नूतननाणकम्। जातं श्रुत्वा शिशुरूपं, लोके वार्ता व्यज़म्भत॥८|| नव्यो नृपोऽभूत् कोऽपीति, श्रुत्वा प्रैषीद भटान् पः। तद्धायाऽथ तं दृष्ट्वा, सायं ते पुरगोपुरे।।६।। बालहत्याभियाऽमुञ्चन्, गोयूथस्यायतः पथि। तत्तथैव स्थितं भाग्यादेकस्तूक्षा पुरोऽभवत्॥१०॥ तत्प्रेर्य च चतुष्पादान्तराले तं शिशुन्यधात्। तच्छुत्वा मन्त्रिवाक्यात्तं, राजाऽमस्तौरसं मुदा // 11 // श्रीपुञ्जाख्यः क्रमात्सोऽभूद्, भूपस्तस्याऽभवत्सुता। श्रीमाता रूपसंपन्ना, केवलं प्लवगानना // 12 // तद्वैराग्यान्निर्विषया, जातु जातिस्मरा पितुः। न्यवेदयत् प्राग्भवं स्वं, यदाऽहं वानरी पुरा // 13 // संचरन्त्यर्बुदे शाखिशाखांतालुनि केनचित्। विद्धा वृक्षाच रुण्डं मे, कुण्डेऽपतत् तरोरधः॥१४॥ तस्य कामिततीर्थस्य, माहात्म्याद् नृतनुर्मम। मस्तकं तु तथैवास्तेऽद्याप्यतः कपिमुख्यहम्।।१५।। श्रीपुज्जोऽक्षेपयच्छीर्ष , कुण्डे प्रेष्य निजान नरान। ततः सा नृमुखी जज्ञे, तपस्वी चाऽर्बुदे गिरौ // 16 // व्योमगामन्यदा योगी, दृष्ट्वा ता रूपमोहितः। खादुत्तीर्याऽलपत् प्रेम्णा, मां कथं वृणुषे शुभे?! ||17|| सोचेऽत्यगादाद्ययामो, रात्रोस्तावदतः परम्। ताम्रचूडतादर्वाक, कयाचिद्विद्यया यदि॥१८॥ शैलेऽत्र कुरुषे हृद्याः, पद्या द्वादश तर्हि मे। वरःस्या इतिचेटैस्वैर्दियाम्याऽचीकरत्स ताः।।१६।। स्वशक्त्या कुक्कुटरवे, कृतके कारिते तया। निषिद्धोऽपि विवाहाय, नाऽस्थात्तत्कैतवं विदन // 20 // सरित्तीरेऽथ तं स्वस्रा, कृतवीवाहसंभृतिम्। सोचे त्रिशूलमुत्सृज्य, विवेढुं संनिधेहि मे // 21 // तथाकृत्वोपागतस्य, पादयोर्विकृतान् शुनः। नियोज्य साऽस्य शूलेन, हृद्यस्त्रेण वधं व्यधात्॥२२॥ इत्याजन्माखण्डशीला, जन्म नीत्वा स्वराप सा। श्रीपुञ्जः शिखरे तत्र, तत्प्रासादमचीकरत् / / 23 / / षण्मासान्तेऽर्बुदाख्योऽस्याऽधोभागेऽद्रेश्वलत्यहिः। ततो विकम्पस्तत्सर्वः, प्रासादशिखरं विना / / 24|| लौकिकास्त्वाहु:नन्दिवर्धन इत्यासीत्, प्राक् शैलोऽयं हिमाद्रिजः / कालेनाऽर्बुदनागाधिष्ठानात्त्वर्बुद इत्यभूत् // 25|| वसन्ति द्वादश ग्रामाः, अस्योपरि धनोधराः। तपस्विनो गौगालिकाः, राष्ट्रिकाश्च सहस्रशः // 26 // न स वृक्षोन सा वल्ली, न तत्पुष्पं न तत्फलम्। नस स्कन्धो न सा शाखा, या नैवात्र निरीक्ष्यते / / 27 / / प्रदीपवन्महौषध्यो, जाज्वलन्त्यत्र रात्रिषु / सुरभीणि रसाट्यानि, वनानि विविधान्यपि॥२८॥ स्वच्छन्दोच्छलदच्छोर्मिस्तीरद्रुकुसुमान्विता। पिपासुतप्ताऽऽनन्दाऽत्र, भाति मन्दाकिनी धुनी // 26 // चकासत्यस्य शिखराण्युत्तुङ्गानिसहस्रशः। परिस्खलन्ति सूर्यस्य, येषु रथ्या अपि क्षणम्॥३०॥ चण्डालीवजतैलेभकन्दाद्याः कन्दजातयः। दृश्यन्ते च प्रतिपदं, तत्तत्कार्यप्रसाधिकाः॥३१।। प्रदेशाः पेशलाः कुण्डैस्तत्तदाश्चर्यकारिभिः / अस्य धातुखनीभिश्च, निर्भरश्वाऽमृतोदकैः // 32 // काकूयिते कृते चोचैर्द्राक्कोकूयितकुण्डितः। प्रादुर्भवति वाःपूरः, कुर्वन् खलहलारवम्॥३३।। श्रीमाताऽचलेश्वरस्य, वशिष्ठाश्रम एव च। अत्रापि लौकिकास्तीर्थाः, मन्दाकिन्यादयोऽपि च // 34|| महारेरस्य नेतारः,परमारनरेश्वराः। पुरी चन्द्रावती तेषां, राजधानी निधिः श्रियाम्॥३५॥ कलयन् विमला, बुद्धि, विमलो दण्डनायकः। चैत्यमवर्षभस्याधात्, पैत्तलप्रतिमान्वितम् // 36 / / आराध्याऽम्बां भगवती, पुत्रसंपदपस्पृहः। तीर्थस्थापनमभ्यर्थ्य, चम्पकद्रुमसन्निधौ // 37 / / पुष्पसग्दामरुचिरं, दृष्ट्वा गोमयगोमुखम्। तत्राग्रही भुवं दण्डेत्, श्रीमातुर्भवनान्तिके॥३८॥ (युग्मम्) राजानके श्रीधान्धूके, क्रुद्धं श्रीगुर्जरेश्वरम्। प्रसाद्य भक्त्या तं चित्रकूटादानाय्य तद्गिरा // 36 / /