________________ अबंभ 676 - अभिवानराजेन्द्रः - भाग 1 अबंभ मद्यविकथादयस्तेषां मूलं कारणं यत्तत्तथा / आह- च- "किं किं न कुणई किं किं, न भासए चिंतए य किं किं न / पुरिसो विसयासत्तो, विहलंघलिउव्व मजेण" ||1|| कातराः परीषहभीरवः, अतएव कापुरुषाः कुत्सितनरास्तैः सेवितं यत्तत्तथा / सुजनानां सर्वपापविरतानां यो जनसमूहस्तस्य वर्जनीयं परिहरणीयं यत्त-त्तथा। उर्ध्वं चऊर्ध्वलोको नरकश्चाऽधोलोकस्तिर्यग्लोक एतल्लक्षणं यत्त्रैलोक्यं, तत्र प्रतिष्ठानं यस्य तत्तथा / जरामरण-रोगशोकबहुलं, तत्राऽन्यत्र च जन्मनि जरामरणादिकारणत्वात् / उच्यते च- "जो सेवइ किं लब्भइ," इति (गाहा) वधस्ताडनं,बन्धः संयमनं, विघातो मारणम्, एभिरपि दुष्करो विघातो यस्य तद्धबन्धविघातदुर्विघातम् / गाढरोगाणां हि महापद्यप्यब्रोच्छा नोपशाम्यति। आह चकुशः काणः खञ्जः, श्रवणरहितः पुच्छविकलः,, क्षुधाक्षामो जीर्णः, पिठरककपालार्पितगलः। वणैः पूयक्लिन्नैः, कृमिकुलचितैराचिततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः।।१।। शिखरिणी। दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तम् / ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतम् / यदाह- "तिव्वकसाओ बहुओहपरिणओ रागदोससंजुत्तो। बंधइचरित्तमोहं, दुविहं पिचरित्तगुणघाइ'' ||1|| द्विविधं कषायनोकषायमोहनीयभेदात्। यत् पुनदर्शनमोहस्य हेतुभूतमिदमिति, तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात् / तथाहि- तद्धेतुप्रतिपादिका गाथैवं श्रूयते-"अरहंतसिद्धचेइय-तवसुयगुरुसाहुसंघपडणीओ।बंधइ दसणमोहं, अणंत संसारिओ जेण" ||1|| भवतीह वाक्यशेषः। सत्यम्, किन्तु स्वपक्षा-ब्रह्मसेवनेन या संघप्रत्यनीकता, तया दर्शनमोहं बध्नतोऽब्रह्मचर्य दर्शनमोहहेतुतां न व्यभिचरति / भण्यते च स्वपक्षाब्रह्मसेवकस्य मिथ्यात्वबन्धः, अन्यथा कथं दुर्लभबोधिरसाव- / भिहितः ? आह च- "संजइचउत्थभंगे, चेइयदव्वे य पवयणुड्डाहे। रिसिघाये यचउत्थे, मूलग्गी बोहिलाभस्स" ||1|| इति। चिरंपरिचितमनादिकाला-सेवितम्। चिरपरिगतं वा पाठः।अनुगतं अनवच्छिन्नंदुरन्तं दुष्टफलं चतुर्थमधर्मद्वारमाश्रवद्वारमिति अब्रह्मस्वरूपमुक्तम्। अथ तदेकार्थकद्वारमाहतस्स यणामाणि गोणाणि इमाणि हंति तीसं। तं जहा- अबंभ 1 मेहुण 2 चरंत 3 संसम्गि सेवणाहिकारो 5 संकप्पो 6 बाहणा पदाण 7 दप्पो 8 मोहोमणसंखोभो 10 अणिग्गहो 11 विग्गहो 12 विधाओ 13 विभंगो 14 विब्भमो 15 अहम्मो 16 असीलया 17 गामधम्मतत्ती 18 रती 16 रागचिंता 20 कामभोगमारो 21 वेरं 22 रहस्सं 23 गुज्झं 24 बहुमाणो 25 बंमचेरविग्यो 26 वावत्ति 27 विराहणा 28 पसंगो 26 कामगुणो त्ति ३०विय। तस्स एयाणि एवमादीणि नामधेजाणि हुंति तीसं। 'तस्सेत्यादि' सुगमम् / अब्रह्माऽकुशलानुष्ठानं 1, मैथुनं मिथुनस्य युग्मस्य कर्म 2, चतुर्थमाश्रवद्वारमिति गम्यते पाठान्तरेण। 'चरंत त्ति' चरन् विश्वं व्याप्नुवन् 3, संसर्गः सम्पर्कः, ततः स्त्रीपुंसंसर्गविशेषरूपत्वात् संसर्गजत्वात्संसर्गीत्युच्यते। आह च-"नामापि स्वीति संहादि, विकरोत्येव मानसम् / किं पुनदर्शनं तस्याः, विलासोल्लासितभुवः // 1 // 4 // सेवनां चौर्यादि-प्रतिसेवनामधिकारी नियोगः सेवनाधिकारः, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवास्वधिकृतो भवति। आह च-"सर्वेऽना विधीयन्ते, नरैरर्थकलालसैः / अर्थस्तु प्रार्थ्यते प्रायः प्रेयसीप्रेमकामिभिः" ||1|| इति५, संकल्पो विकल्पः, तत्प्रभवत्वादस्य संकल्प इत्युक्तम् / उक्तं च- "कामं जानामि ते रूपं, संकल्पात्किल जायसेन त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि" ||1|| इति 6, बाधना बाधहेतुत्वात्। केषाम् ? इत्याह-पदानां संयमस्थानानां प्रजानां घा लोकानाम् / आह च- "यचेह लोकेष्वपरं नराणामुत्पद्यते दुःखमसह्यवेगम्। विका-शिनीलोत्पलचारुनेत्राः, मुक्त्वा स्त्रियस्तत्रन हेतुरन्यः" // 1 // इति७, दो देहदृप्तता, तज्जन्यत्वादस्य दर्प इत्युच्यते। आह च-"रसा पगामन निसेवियव्वा, परं रसा दित्तिकरा हवंति। दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं तु पक्खी" ||1|| अथवा दर्प सौभाग्याद्यभिमानस्तस्य भवं चेदं, न हि प्रशमाद्दैन्याता पुरुषस्याऽत्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते / तदुक्तं "प्रशान्तवाहिचित्तस्य, संभवन्त्यखिलाः क्रियाः / मैथुनव्यतिरेकिण्यो, यदि रागं न मैथुनम्" / / 1 // इति 8, मोहो मोहनं वेदरूपमोहनीयोदयसंपाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते / आह चदृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरन, यन्नास्ति तत्पश्यति। कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवे, रोषो नोऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते // 11 // 6 / मनःसंक्षोभः चित्तचलनं, तद्विनेद् न जायते इति / उच्यते च"तिक्कडकडुक्खकड-प्पहारनिभिन्नजोगसन्नाहा / भहरिसि जो वा जुवईण जं निसेवंति गयगव्वा" ||14|10, अनिग्रहोऽनिषेधो मनसो विषयेषु, प्रवर्तमानस्येति गम्यते। एतत्प्रभवत्वाचास्या-ऽनिग्रह इत्युक्तम् 11, (विग्गहो त्ति) विग्रहः कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते। उक्तं च- "ये रामरावणादीनां, संग्राम-ग्रस्तमानवाः / श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम्" ||1|| अथवा (बुग्गहो ति) विग्र हो विपरीतोऽभिनिवेशस्तत्प्रभवत्वादस्य तथैवोच्यते / यतः कामिनामिदं स्वरूपम्- "दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः / उत्कीर्णवर्ण-पदपङ्क्तिरिवान्यरूपं, सारूप्यमेति विपरीतगतिप्रयोगात्" ||1|| 12, विधातो गुणानामिति गम्यते / यदाह- 'जइ वा णो' गाथाद्वयम् 13, विभङ्गो विराधना गुणानामेव 14 / विभ्रमो भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्ध्या प्रवर्तनाद्, विभ्रमाणां मदन-विकाराणामाश्रयत्वाद्विभ्रमा इति 153 अधर्मः, अचारित्ररूपत्वात् 16, अशीलता चारित्रवर्जितत्यम् 17, ग्रामधर्माः शब्दादयः कामगुणास्तेषां तप्तिर्गवेषणं पालनं च ग्रामधर्मतप्तिः, अब्रह्मपुरोहितं कुर्वन्तीति अब्रह्मापि तथोच्यते 18, रतिः रतं, निधुवनमित्यर्थः 16, रागो रामानुभूतिरूपत्वादस्य, क्वचिद् रागचिन्तेति पाठः 20! कामभोगैः सह मारो मदनं मरणं वा कामभोगमारः 21, वैरं वैरहेतुत्वात् 22, रहस्यमेकान्तकृत्यत्वात् / 23, गुह्यं गोपनीयत्वात् 24, बहुमानः बहूनां मतत्वान् 25, ब्रह्मचर्य मैथुनविरमणं, तस्य विघ्रो व्याघातो यः स तथा 26, व्यापत्तिः भंशो, गुणानामिति गम्यते 27, एवं विराधना 28, प्रसङ्ग कामेषु प्रसजनमभिष्वङ्गः 26, कामगुणो मकरकेतुकार्यः 30 इती रूपप्रदर्शने / अपिचेति समुच्चये / तस्याऽब्रह्मण एतानि