________________ अफलवादि (ण) 675 - अभिधानराजेन्द्रः - भाग 1 अबंध यत्पुनस्ते प्राप्नुवन्ति, तद्दर्शयितुमाह- (नाणाविहाई इत्यादि) नानाविधानि बहुप्रकाराणि दुःखान्यसातोदयलक्षणान्यनुभवन्ति पुनः पुनः / तथाहि- नरकेषु करपत्र दारणकुंभीपाकतप्तायःशाल्मलीसमालिङ्ग नादीनि, तिर्यक्षु च शीतोष्णादिदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तृडादीनि, मनुष्येषु इष्टवियोगाऽनिष्ट संयोगशोकाक्रन्दनादीनि, देवेषु चाभियोगेष्याकिल्विषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि, ये एवंभूता वादिनस्ते पौनःपुन्येन समनुभवन्ति / एतच श्लोकार्द्ध सर्वेषूत्तरश्लोकार्द्धषु योज्यम्। शेषं सुगमं यावदुद्देशकसमाप्तिरिति // 26|| नवरमुच्चावचानीति-अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशो निर्विच्छेदमिति ब्रवीमीति। सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-ब्रवीम्यहं तीर्थराज्ञया न स्वमनीषिकया, स चाऽहं ब्रवीमि, येन मया तीर्थङ्करसकाशात् श्रुतम् / एतेन च क्षणिकवादिनिरासो द्रष्टव्यः / 27 / सूत्र०१ श्रु०१ अ०१ उ01 अफास-त्रि०(अस्पर्श) न विद्यते स्पर्शोऽष्ट प्रकारो मृदुकर्कशादिरस्येत्यर्थः / षो०१६ विव० अशुभस्पर्शे एकान्तोद्वेजनीये, सूत्र०१ श्रु०५ अ०१ उ० अफासुय-न०(अप्रासुक) न० प्रगता असवोऽसुमन्तो यस्मात् , तदप्रासुकम्। सजीवे, भ०५ श०६ उ०ा सचित्ते, आचा०१ श्रु०१अ०१ उ०। सूत्र०। स्था। अफासुयपडिसेवि(ण)-त्रि०(अप्रासुकप्रतिसेविन्) अप्रासुकं सचित्तं प्रतिसे वितुं शीलमस्य स भवत्यप्रासुकप्रतिसेवी / सचेतनजलादिवस्तुप्रतिसेवनशीले, "अफासुयपडिसेविय, णाम भुजो य सीलवादी या" सूत्र०१ श्रु०७ अ० अफुस-त्रि०(अस्पृश्य) स्प्रष्टुमयोग्ये, "अफुसं दुक्खं" अस्पृश्यं कर्माकृतत्वादेव।स्था०३ ठा०२ उ०) अफुसमाणगइ-पुं०(अस्पृशद्गति) अस्पृशन्ती सिद्ध्यन्तराल-प्रदेशान् | गतिर्यस्य सोऽस्पृशद्गतिः। अन्तरालप्रदेशा-नामस्पर्शनेनैवोज़ गच्छति सिद्धे, औ०। उजूसेढीपडिवन्ने अफुसमाणगई उड्ढे एक्कसमएणं अविग्गहेणं / उड्डूं गता सागारोवउत्ते सिज्झिहित्ति। अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रक एव समयः, य एव चाऽऽयुष्कादिकर्मणां क्षयसमयः, स एव निर्वाणसमयोऽतोऽन्तराले समयान्तरस्याऽभावादन्तरालप्रदे- | शानामसंस्पर्शनमिति सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति / औ०। "अफुसमाणगती बितियं समयं ण फुसति, अहवा जेसु अवगाढो जे य फुसति उड्डमविगच्छमाणो तत्तिए चेव आगासपदेसे फुसमाणो गच्छति"। आ०चू०२ अ०॥ अबंझ-त्रि०(अवन्ध्य) न वन्ध्यमवन्ध्यम्। अवश्यकार्यकारिणि, सूत्र०। अवन्ध्यमेकादशं पूर्वम्, वन्ध्यं नाम निष्फलं, न विद्यते वन्ध्यं यत्र, तदवन्ध्यम, सफलमित्यर्थः / तत्र हि- सर्वेऽपि ज्ञान-तपःसंयमयोगाः शुभफलेन सफला वर्ण्यन्ते, अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्तेऽतोऽवन्ध्यम्, तस्य च परिमाणं षड्वंशतिपदकोटयः / स०) "अबंझपुव्वस्सणं बारस वत्थूपण्णत्ता' नं० स०ा अवश्यकार्यकर्तरि, सूत्र०२ श्रु०१ अ०॥ अबंध-पुं०(अबन्ध) बन्धाऽभावे, पं० सं०५ द्वा०॥ अबंधग-पुं०(अबन्धक) निरुद्धयोगे, भ०२५ श०६ उ०। आ०म०द्वि। अबंधव-त्रि०(अबान्धव) स्वजनसम्पाद्यकार्यरहिते, प्रश्न०१ आश्र०द्वा०। अंबभ-न०(अब्रह्मन्) अकुशले कर्मणि, तच्च मैथुनं विवक्षितम्, अत्यन्ताकुशलत्वात् तस्य। प्रश्न०४ आश्र०द्वा०। तचाऽष्टादशधाअट्ठारसविहे अबंभे ओरालिअंच दिव्वं, मणवयकाएण जोएण अणुमोअणकारावणकरणेणऽद्वारसाऽबंभ / / इह मूलतो द्विधाऽ ब्रह्म भवति- औदारिकं तिर्यड्मनुष्याणां, दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यवहितः संबन्धः / मनोवाकायाः कारणं, त्रिधा योगेन त्रिविधेनैवानुमोदनकारणकरणेन निरूपित, पश्चात्तु पूर्वोपन्यासः अब्रह्माऽष्टादशधा भवति। इयं भावना-औदारिकं स्वयं न करोति मनसा वाचा कायेन, नाऽन्येन कारयति मनसा वाचा कायेन, कुर्वन्तं नाऽनुमोदते मनसा वाचा कायेना एवं वैक्रियमपि। आव०४ अ० एतच प्रश्नव्याकरणानां चतुर्थेऽध्ययने यथा यादृशादिद्वारपञ्चकेन / द्वारपञ्चकं चेदम् - "जारिसओ 1 जनामा 2, जह य कओ 3 जारिसं फलं दिति / जे वि य करेंति पावा 5, पाणवहं तं निसामेह'' // 1 // प्रश्न०५ आश्र०द्वारा तत्रयादृशमब्रह्मेतिद्वारार्थप्रतिपादनायेदं सूत्रम्जंबू ! अभंच चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्जं पंकपणगपासजालभूयं इत्थीपुरिसनपुंसगवेदचिण्हं तवसंजमबंभचेरविग्धं भेदाययणबहुपमादमूलं कायरका-पुरिससेवियं सुयणजणवजणिजं उड्ढुनरयतिरियतिलोकपइट्वाणं जरामरणरोगसोगबहुलं बधबंधविधायदुव्दिघायं दंसणचरित्त-मोहस्स हेउभूयं चिरपरिचयमणुगयं दुरंतं चउत्थं अहम्मदारं / (जंबू ! इत्यादि) जम्बू ! इति शिष्यामन्त्रणम् / अब्रह्म अकुशलं कर्म, तचेह मैथुनं विवक्षितम्, अत्यन्ताकुशलत्वात्तस्य आह च "नो किंचि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं / मुत्तं मेहुणमेगं, न जं विणा रागदोसेहिं" ||1|| चकारः पुनरर्थः / चतुर्थसूत्रक्रमापेक्षया सह देवमनुजासुरैया लोकः स तथा, तस्य प्रार्थनीयमभिलषणीयम् यतः - "हरिहरहिरण्यगर्भ-प्रमुखे भुवने न कोऽप्यसौ शूरः / कुसुमविशिखस्य विशिखा-नस्खलयद्यो जिनादन्यः'' |१||पङ्को महान् कर्दमः, पनकः स एव प्रतलः, सूक्ष्मः पाशो बन्धनविशेषः, जालं मत्स्यबन्धनम्। एतद्भूतमेतदुपमं कलङ्कनिमित्तत्वेन दुर्भाचनत्वेन च साधात्।उक्तं चसन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव। भूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति / / 1 / / तथास्त्रीपुरुषनपुंसक्वेदानांचिह्नलक्षणंयत्तत्तथा तपः स्यमब्रह्मचर्यविनमिति व्यक्तम्। तथा भेदस्य चारित्र जीवितविनाशस्यायतनान्याश्रया ये बहवः प्रमादा