________________ अप्पाबहुय(ग) ६७१-अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) वाउ० विसे साहिया, वणप्फइकाइयएगिं दियतिरिक्खजोणियणपुंसका अणंतगुणा। सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियो मनुष्यपुरुषाश्च, स्वस्थाने तु द्वयेऽपि तुल्याः , युगलधर्मोपेतत्वात् / एवं देवकुरूत्तरकुर्वकर्मभूमक हरिवर्ष रम्यक वर्षाकर्मभूमक है मवत है रण्यवताकर्मभूमकमनुष्यस्त्रीपुरुषा यथोत्तरं संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। तेभ्यो भरतैरवतकर्मभूमकमनुष्यपुरुषा द्वयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। तेभ्यो भरतैरवत-कर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। ताभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वये-ऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः / तेभ्योऽपि पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि संख्येय-गुणाः, सप्तविंशतिगुणत्वात्। स्वस्थाने तु परस्परं तुल्याः। ताभ्योऽनुत्तरोपपातिकोपरितनौवेयकमध्यमग्रैवेयकाधस्तनप्रै-वेयकाच्युतारणप्राणतानतकल्पदेवपुरुषाः यथोत्तरं संख्येयगुणाः; ततोऽधःसप्तमषष्ठपृथिवीनैरयिकसहस्रारकल्पदेवपुरुषा महा-शुक्रकल्पदेवपुरुषाः पञ्चमपृथिवीनैरयिक लान्तककल्प-देवपुरुषाश्चतुर्थपृथिवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनै रयिक नपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तरद्वीपनपुंसका यथोत्तरमसंख्येयगुणाः। ततो देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहरण्यवताकर्मभूमक-भरतैरवतकर्मभूमकपूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुंसकाः यथोत्तरं सख्येयगुणाः, स्वस्थाने तुद्वये परस्परं तुल्याः / तत ईशानकल्पदेवपुरुषा असंख्येयगुणाः, तत ईशानकल्पे देवस्त्रियः संख्ये०। ताभ्यः सौधर्मे कल्पे देवपुरुषस्त्रियः संख्ये० / तेभ्यो भवनासिदेवपुरुषा असंख्येयगुणाः, तेभ्यो भवनवासिदेवस्त्रियः संख्येयगुणाः / ताभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः। ततः खचरतिर्यग्योनिकपुरुषाः खचरति-र्यग्योनिकस्त्रियः स्थलचरतिर्यग्योनिकपुरुषाः स्थलचरतिर्यग्योनिकस्त्रियः जलचरतिर्यग्योनिकपुरुषाः जलचरतिर्य-योनिकस्त्रियो वाणमन्तरदेवपुरुषाः वाणमन्तरदेवस्त्रियो ज्योतिष्कदेवपुरुषाः ज्योतिष्कदेवस्त्रियो यथोत्तरं संख्येयगुणाः। ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः / ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण संख-येयगुणाः ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः। ततस्तेजस्कायिकैकेन्द्रियतिर्यग्यो-निकनपुंसका असंख्येयगुणाः, ततः पृथिव्यप्वायुकायिकति-र्यग्यो निकनपुंसका यथोत्तरं विशेषाधिकाः / वनस्पतिकायिकै - केन्द्रियतिर्यग्यो निकनपुंसका अनन्तगुणाः, निगोदजीवानाम-नन्तत्वात् / / 8|| जी०२ प्रति०। शरीरमाश्रित्य सशरीराऽशरीराऽल्पबहुत्वचिन्तायाम्"सव्वत्थोवा ससरीरी, असरीरी अणंतगुणा' (२६)शरीरद्वारम् आहारकादिशरीरिणाम्अप्पाबहुसव्वत्थोवा आहारगसरीरी, वे उब्वियसरीरी असंखेज्जगुणा, ओरालियसरीरी असंखेनगुणा, असरीरी अणंतगुणा, तेयाकम्मासरीरी दो वि तुल्ला अणंतगुणा। सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्यो वैक्रियशरीरिणोऽसंख्येयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यक्पञ्चेन्द्रियमनुष्यवायुकायिकानां च वैक्रियशरीरत्वात् / तेभ्य औदारिकशरीरिणोऽसंख्येयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिकं शरीरं, ततः स एक औदारिकशरीरी परिगृह्यते, ततोऽसंख्येयगुणा एवौदारिकशरीरिणो, नाऽनन्तगुणाः। आह च मूलटीकाकारः 'औदारिकशरीरिभ्यो-ऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात्, औदारिकाशरीरिणां च शरीरापेक्षतया असंख्येयत्वादिति' / तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तत्वात्। तेभ्यः तैजसशरीरिणः कार्मणशरीरिणः अनन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः / तैजसकार्मणयोः परस्पराविनाभावित्वात् / इह तैजसशरीरं कार्मणशरीरं च निगोदेष्यपि प्रतिजीवं विद्यते, इति सिद्धेभ्योऽप्यनन्तगुणत्वम् / जी०६ प्रति०) (औदारिकादिशरीराणां चाऽल्पबहुत्वं 'सरीर' शब्दे वक्ष्यते) (संक्रमविषयमल्पबहुत्वं 'सकंम' शब्दे द्रष्टव्यम्) (समुद्धातविषयमल्पबहुत्वं 'समुग्धाय' शब्दे प्ररूपयिष्यते) (३०)संज्ञिद्वारा संजयसंज्ञिनोसंज्ञिनोअसंज्ञिनामल्पबहुत्वम्एएसिणं भंते ! जीवाणं सन्नीणं असन्नीणं नोसन्नीणं नोअसन्त्रीण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा सन्नी, नोसन्नी नोअसन्नी अणंतगुणा, असन्नी अणंतगुणा। सर्वस्तोकाः संज्ञिनः, समनस्कानामेव संज्ञित्वात्। तेभ्यो नोसंझिनो नोऽसंज्ञिनोऽनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धाः, ते च संज्ञिभ्योऽनन्तगुणा एवेति / तेभ्योऽसंज्ञिनोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात्। प्रज्ञा०३ पद। (आहारा-दिसंज्ञोपयुक्तानां नैरयिकादीनामल्पबहुत्वं 'सन्ना' शब्दे वक्ष्यते) (सामायिकादिसंयतविषयमल्पबहुत्वं 'संजय' शब्दे एव द्रष्टव्यम्) (संयमस्थानानामल्पबहुत्वं 'संजमट्ठाण' शब्दे भावयिष्यते) (31) संयमद्वारम् संयतानामसंयतानां नोसंयत नोअसंयतानामल्पबहुत्वम् - एएसिणं भंते ! जीवाणं संजयाणं असंजयाणं संजयासंजयाणं नोसंजयाणं नोअसंजयाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवाजीवा संजया, संजयासंजया असंखेजगुणा, नोसंजता नोअसंजता अणंतगुणा, असंजता अणंतगुणा। सर्वस्तोकाः संयताः, उत्कृष्ट पदेऽपि तेषां कोटिसहस्रपृथक्त्वप्रमाणतया लभ्यमानत्वात् / "कोटिसहस्सपुहुत्तं मणुयलोए संजयाणं" इति वचनात् / तेभ्यः संयतासंयता देशविरता असंख्येयगुणाः, तिर्यक् पञ्चेन्द्रियाणामसंख्यातानां देशविरतिसद्भावात् / तेभ्यो नोसंयता नोअसंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धाः, ते चाऽनन्ता इति। तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात्। प्रज्ञा०३ पद। (३२)संस्थानद्वारम्। संस्थानानामल्पबहुत्यम् - एएसिणं भंते ! परिमंडलवट्टचउरंसतंसआयत अणित्थंत्थाणं संठाणाणं दवट्ठयाए पदेसट्टयाए दवट्ठपदे सट्टयाए