________________ (77) उपोद्घातः दायाव्यवच्छेदे सत्यस्मर्यमाणकर्तृकत्वादाकाशवदित्यनुमानरचनायामनवकाशा व्यधिकरणासिद्धिः मैवम्, एवमपि विशेषणे संदिग्धासिद्धतापत्तेः / तथा ह्यादिमतामपि प्रासादादीनां सम्प्रदायो व्यवच्छिद्यमानो विलोक्यते, अनादेयस्तु श्रुतेरव्यवच्छेदी संप्रदायोऽद्यापि विद्यत इति मृतकमुष्टिबन्धमन्वकार्षीत् / तथा च कथं न संदिग्धासिद्धं विशेषणं विशेष्यमप्युभयासिद्धं वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात्। न तु श्रोत्रियाः श्रुतो करि स्मरन्तीति मृषोद्यं श्रोत्रियापसदाः खल्वमी इति चेन्ननु यूयमाम्नायमाम्नासिष्ट ताव-ततो 'यो वैवेदांश्व प्रहिणोतीति प्रजापतिः सोमं राजानमन्वसृज-त्ततस्त्रयो वेदा अन्वसृजन्तेति च' स्वयमेव स्वस्य करि स्मारयन्तीं श्रुतिं विश्रुतामिव गणयन्तो यूयमेव श्रोत्रियापसदाः किन्न स्यात् / किं च -क एवमाध्यन्दिनितित्तिरिप्रभृतिमुनिनामाङ्किताः काश्चन शाखास्तत्कृतत्वादेव मन्वादिस्मृत्यादिवदुत्सन्नानां तासां कल्पादौ तैर्दृष्टत्वात्, प्रकाशितत्वाता तन्नामचिह्नेऽनादौ कालेऽनन्तमुनिनामाङ्कितत्वं तासां स्यात्। जैनाश्च कालासुरमेतत्करि स्मरन्ति! कर्तविशेषविप्रतिपत्तेरप्रमाणमेवैतत्स्मरणमिति चेत्, नैवम् / यतो यत्रैव विप्रतिपत्तिः तदेवाप्रमाणमस्तु, न पुनः कर्तृमात्रस्मरणमपि। "वेदस्याध्ययनं सर्वं ,गुर्वध्ययनपूर्वकम्। वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा|१|| अतीतानागतौ कालौ, वेदकारविवर्जितौ। कालत्वात्तद्यथा कालौ, वर्तमानः समीक्षते" // 2 // इति कारिकोक्तेर्वेदाध्ययनवाच्यत्वकालत्वेऽपि हेतुः कुरङ्गशृङ्ग-भङ्गुरं कुरङ्गाक्षीणां चेत इति वाक्याध्ययनं गुर्वध्ययनपूर्वकमेतद्वाक्याध्ययनवाच्यत्वादधुनातनाध्ययनवदतीतानागतौ कालौ प्रक्रान्तवाक्यकर्तृवर्जितौ कालत्वाद्वर्तमानकालवदिति वेदप्रयोजकत्वादनाकर्णनीयौ सकर्णानाम् / अथार्थापत्तेरपौरुषेयत्वनिर्णयो वेदस्य। तथाहिसंवादविसंवाददर्शनादर्शनाभ्यां तावदेष निःशेषपुरुषैः प्रामाण्येन निर्णायि, तन्निर्णयश्वास्य पौरुषेयत्वे दुरापः। यतः"शब्दे दोषोद्भवस्तावद्वक्यधीन इति स्थितिः। तदभावः क्वचित्तावद्, गुणवद्वक्तृकत्यतः।।१।। तद्गुणैरपकृष्टानां, शब्दे संक्रान्त्यसंभवात्। वेदे तु गुणवान् वक्ता, निर्णेतुं नैव शक्यते॥२॥ ततश्च दोषाभावोऽपि, निर्णेतुं शक्यतां कथम्। वक्त्रमावे तु सुज्ञानो, दोषाभावो विभाव्यते // 3 // यस्माद्वकुरभावेन, न स्युर्दोषा निराश्रयाः"। ततः प्रामाण्यनिर्णयान्यथाऽनुपपत्तेरपौरुषेयोऽयमिति। अस्तु तावदत्र कृपणपशुपरम्पराप्राणव्यपरोपणप्रगुणप्रचुरोपदेशापवित्र-वादप्रमाणमेवैष इत्यनुत्तरोत्तरप्रकारः प्रामाण्यनिर्णयोऽप्यस्य न साध्यसिद्धिर्विरुद्धत्वात, गुणवद्वक्तृतायामेव वाक्येषु प्रामाण्यनि-र्णयोपपत्तेः / पुरुषो हि यथा रागादिमान् मृषावादी तथा सत्यशौ-चादिमान् वितथवचनः समुपलब्धः, श्रुतौ तु तदुभयाभावे नैरर्थ-क्यमेव भवेत् / कथं वक्तुर्गुणित्वनिश्चयश्छन्दसीति चेत्कथं पितृपितामहप्रपितामहादेरप्यसौ तस्माद्येन तद्धस्तन्यस्ताक्षरश्रेणेः पारम्पर्योपदेशस्य चानुसारेण ग्राह्यदेयनिधानादौ निःशङ्कः प्रवर्तेथाः, क्वचित्संवादाचेदत एवान्यत्रापि प्रतीहि कार्यादौ संवाददर्शनात् / कदाचित् वचित् संवादस्तु सामग्रीवैगुण्यात् त्वयाऽपि प्रतीयत एवं प्रतीताप्तमन्त्रोपदिष्टमन्त्रवत् / प्रतिपादितश्च प्राक् रागद्वेषाज्ञानशून्यपुरुषविशेषनिर्णयः किं चास्य व्याख्यानं तावत्पौरुषेयमेवापौरुषेयत्वे भावना नियोगादिविरुद्धव्याख्याने भेदाभावप्रसङ्गात्, तथाच को नामात्र विश्रम्भो भवेत् कथं चैतध्वनीनामर्थनिर्णीतिलौकिकध्वन्यनुसारणेति चेत् किं न पौरुषेयत्वनिर्णातिरपि तत्रोभयस्यापि विभावनादन्यथा त्वर्द्धजरतीयम्।न च लौकिकार्थानुसारेण मदीयोऽर्थःस्थापनीय इति श्रुतिरेव स्वयं वक्ति। न च जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौरुषेयवचनसामोऽप्यन्य एव कोऽपि संभाव्येत, पौरुषेयीणामपिम्लेच्छार्यवाचामे कार्थ्यं नास्ति किं पुनरपौरुषेयवाचां, ततः परमकृ-- पापीयूषप्लावितान्तःकरणः कोऽपिपुमान् निर्दोषः प्रसिद्धार्थे ध्यनिभिः स्वाध्यायं विधाय व्याख्यातीदानींतनग्रन्थकारवदिति युक्तं पश्यामः / अवोचाम च- "छन्दः स्वीकुरुषे प्रमाणमथ चेत्तद्वा-च्यनिश्चायकं / कंचिद्विश्रविदं नजल्पसि ततो ज्ञातोऽस्य मूल्यक्रयी" इति आगमोऽपि नापौरुषेयत्वमाख्याति / पौरुषेयत्वविष्कारिण एवा-स्योक्तवद् सद्भावात् / अपि चेयमानुपूर्वी पिपीलिकादीनामिव देशकृताङ् कुरपत्रकहलकाण्डादीनामिव कालकृताचावर्णानां वेदे न संभवति, तेषां नित्यव्यापकत्वात् / क्रमेणाभिव्यक्तेः सा संभ-वतीति चेत्तर्हि कथमियमपौरुषेयी भवेदभिव्यक्तिः, पौरुषेयत्वा-दिति सिद्धा पौरुषेयी श्रुतिः / अथजगत्कर्तृत्वविध्वंसःयत्तायदुच्यते परैः-क्षित्यादयो बुद्धिमत्कर्तृकाः कार्यत्यात् घटवदिति / तदयुक्तम् / व्याप्तेरग्रहणात् / साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेदिति सर्ववादिसंवादः।सचायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात्? सशरीरोऽपि किमस्मदादिवद् दृश्यशरीरविशिष्ट उत पिशाचादिवददृश्यशरीरविशिष्टः? प्रथमपक्षे प्रत्यक्षबाधः / तमन्तरेणाऽपि च जायमाने तृणतरुपुर-न्दरधनुरभ्रादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत्साधारणानैकान्तिको हेतुः / द्वितीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः / कारणमाहोस्विदस्मदाद्यदृष्टवैगुण्यम् / प्रथमप्रकारः कोशपानप्रत्यायनीयः / तत्सिद्धौ प्रमाणाभावात् इतरेतराश्रय-दोषापत्तेश्च / सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम्, तत्सिद्धौच माहात्म्यविशेषसिद्धिरिति / द्वैतीयीकस्तु प्रकारो न संचरत्येव विचारगोचरे; संशयानिवृत्तेः / किं तस्याऽसत्त्वाददृश्यशरीरत्वं, वान्ध्येयादिवत्, किं वाऽस्मदाद्यदृष्टवैगुण्यात्पिशाचा-दिवदिति निश्चयाभावात् / अशरीरचे तदा दृष्टान्तदाष्टान्तिक यो-वैषम्यम् / घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः / अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यमाकाशादिवत् / तस्मात्सशरीराशरीरलक्षणे पक्षद्वये ऽपि कार्यत्वहेतोर्याप्तयसिद्धिः। किञ्चत्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः / धर्येकदेशस्य तरुविद्युदभ्रदादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्य-मानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात्। तदेवं न कश्चिज्जगतः कर्ता / किञ्चस ईश्वरः खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा? प्रथम विधायां जगन्निर्माणात्क-दाचिदपि नोपरमेत। तदुपरमे तत्स्वभावत्यहानिः। एवं च सर्गक्रियाया अपर्यवसानादेकस्यापि कार्यस्य न सृष्टिः। घटो हि स्वारम्भक्षणादारभ्य परिसमाप्तेरुपान्त्यक्षर्णयावन्निश्चयनयाभि-प्रायेण न