________________ अप्पाबहुय(ग) 658 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) वेउव्वियसरीरस्स जहण्णए जोए असंखेजगुणे 5, कम्मगसरीरस्स उक्कोसए जोए असंखेजगुणे 6, आहारगमीसगस्स जहण्णए जोगे असंखेजगुणे 7, आहारगमीसगस्स उक्कोसए जोए असंखेज्जगुणे 8, ओरालियमीसगस्स वेउव्वियमीसगस्स। एएसि णं उक्कोसए जोए दोण्ह वि तुल्ले अंसखेजगुणे 6-10, असचामोसमणजोगस्स जहण्णए जोए असंखेजगुणे 11, आहारगस्स सरीरस्स जहण्णए जोए असंखेजगुणे 12, तिविहस्स मणयोगस्स, चउव्विहस्स वइजोगस्स एएसिणं सत्तण्ह वितुल्ले जहण्णए जोए असंखेज्जगुणे 12-13, आहारगसरीरस्स उक्कोसए जोए असंखेजगुणे ओरालियसरीरस्स वेउव्वियसरीरस्स चउव्विहस्स य मणजोगस्स चउव्विहस्सय वइजोगस्स / एएसि णं दसण्ह वि तुल्ले उक्कोसए जोए असंखेज्जगुणे 21-30 टीका सुगमा। भ०२५ श०१ उ०॥ मनोयोम्यादीनामल्पबहुत्वम् - एएसिणं भंते ! जीवाणं सजोगीणं मणजोगीणं वयजोगिणं कायजोगीणं अजोगीण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा मणजोगी, वयजोगी असंखेज्जगुणा, अजोगी अणंतगुणा, कायजोगी अणंतगुणा, सजोगी विसेसाहिया। सर्वस्तोका मनोयोगिनः, संजयसंज्ञिपर्याप्ता एव हि मनोयोगिनः, तेच स्तोका इति; तेभ्यो वाग्योगिनोऽसंख्येयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसंख्यातगुणत्वात् / तेभ्योऽयोगिनोऽ-नन्तगुणाः, सिद्धानमनन्तत्वात्। तेभ्यः काययोगिनोऽनन्ताः, वनस्पतीनामनन्तत्वात् / यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नाऽनन्तगुणत्वव्याघातः / तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योग्यादीनांतत्र प्रक्षेपात्। गतंयोगद्वारम्। प्रज्ञा०३ पद / कर्मा जी पं० सं०। (26) योनिद्वारम् / शीतादियोनिकानाम् - एतेसिं णं भंते ! जीवाणं सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा सीतोसिणजोणिया, उसिणजोणिया असंखेज्जगुणा, अजोणिया अणंतगुणा, सीतजोणिया अणंतगुणा। अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः शीतोष्णोभययोनिकाः, भवनवासिगर्भजतिर्यक्पश्शेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिष्कवैमानिकानामेवोभययोनिकत्वात्। तेभ्योऽसंख्येयगुणा उष्णयोनिकाः, सर्वेषां सूक्ष्मबादरभेदभिन्नानां तैजस्कायिकानांप्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्य-पुवायुप्रत्येकवनस्पतीनां वोष्णयोनिकत्वात्। अयोनिका अनन्तगुणाः सिद्धानामनन्तत्वात् / तेभ्यः शीतयोनिका अनन्तगुणाः अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात् , तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात्। सचित्ताऽचित्तमिश्रयोनिकानाम् - एतेसि णं भंते ! जीवाणं सचित्तजोणीणं अचित्तजोजोणीणं मीसजोणीणं अजोणीण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा मीसजोणिया, अचित्तजोणिया असंखिजगुणा, अजोणिया अणंतगुणा, सचित्तजोणिया अणंतगुणा। अल्पबहुत्वचिन्तायां सर्वस्तोका जीवा मिश्रयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात् / तेभ्योऽचित्तयोनिका असंख्येयगुणाः, नैरयिकदेवानां कतिपयानां च प्रत्येकं पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिद्वित्रि-चतुरिन्द्रियसंमूछिमतिर्यक् पञ्चेन्द्रियसंमूछिममनुष्याणा-मचित्तयोनिकत्वात्। तेभ्योऽप्ययोनिका अनन्तगुणाः, सिद्धा-नामनन्तत्वात् / तेभ्यः सचित्तयो निका अनन्तगुणाः, निगोदजीवानां सचित्तयोनिकत्वात्, तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् / संवृतविवृतयोनिकानाम्एतेसिणं मंते ! जीवाणं संवुडजोणियाणं वियडजोणियाण य संवुडवियडजोणियाणं अजोणियाण य कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा संवुडवियडजोणिया, वियडजोणिया असंखेजगुणा, अजोणिया अणंतगुणा, संवुडजोणिया अणंतरगुणा। अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयोनिकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव संवृतविवृत-योनिकत्वात, तेभ्यो विवृतयोनिकाः संख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानाना समूच्छिमतिर्यक्पञ्चेन्द्रियसंमूञ्छि-ममनुष्याणां च विवृतयोनिकत्वात्। तेभ्योऽयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्।तेभ्यः संवृतयोनिका अनन्तगुणाः, वनस्पतीनां संवृतयोनिकत्वात्, तेषां च सिद्धेभ्योऽप्यनन्तगुण-त्वात्। प्रज्ञा०८ पद। (27) लेश्याद्वारम् / सलेश्यानामल्पबहुत्वम् - तत्र सलेश्याऽलेश्यानामल्पबहुत्वचिन्तायाम्-"सव्वत्थोवा अलेस्सा, सलेस्सा अणंतगुणा" जी०१ प्रति०। सम्प्रति सलेश्यादीनामष्टानामल्पबहुत्वमाहएएसि णं भंते ! जीवाणं सलेसाणं किण्हलेसाणं नीललेसाणं काउलेसाणं तेउलेसाणं पम्हलेसाणं सुक्कलेसाणं अलेसाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा सुक्कलेस्सा, पम्हलेस्सा संखिज्जगुणा, तेउलेस्सा संखिज्ज०, अलेस्सा अणंतगुणा, काउलेस्सा अणंतगुणा, नीललेस्सा विसे-साहिया, कण्हलेस्सा विसेसाहिया॥१॥ सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु संख्येयवर्षायुष्केषु मनुष्येषु तिर्यक् स्त्रीपुं नपुंसकेषु कतिपयेषु संख्येयवर्षायुष्केषु तस्याः संभवात् / तेभ्यः पद्मलेश्याकाः संख्येयगुणाः, सा हि सनत्कु मारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभूतेषु गर्भव्युत्क्रान्तिकेषु कर्मभूमिजेषु संख्येय