________________ अप्पाबहुय(ग) 659 - अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) वर्षायुष्केषु मनुष्यस्त्री पुनपुंसकेषु तथा गर्भव्युत्क्रान्तिकतिर्यग्योनिकस्त्रीपुनपुंसकेषु असंख्येयवर्षायुष्केष्ववाप्यते, सनत्कुमारादिदेवादयश्च समुदियता लान्तकादिदेवादिभ्यः संख्येयगुणाः, इति भवन्ति शुक्ललेश्याकेभ्यः पद्मलेश्याकाः संख्येयगुणाः, तेभ्यस्तेजोलेश्याकाः संख्येयगुणाः, सर्वेषासौधर्मेशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तर-गर्भव्युत्क्रान्तिकतिर्यक्पोन्द्रियमनुष्याणां बादराऽपर्याप्त-केन्द्रियाणां च तेजोलेश्याभावात्। नन्वसंख्येगुणाः करमान्न भवन्ति, कथं न भवन्ति?, इति चेत्। उच्यते. इह ज्योतिष्का भवनवासिभ्योऽप्यसंख्ये यगुणाः, किं पुनः सनत्कुमारादिदेवेभ्यः, ते च ज्योतिष्कास्तेजोलेश्याकास्तथा सौधर्मेशानकल्पदेवाश्च, ततः प्राप्नुवन्त्यसंख्येयगुणाः / तदयुक्तम् / वस्तुतत्त्वापरिज्ञानात्। लेश्यापदे हि गर्भव्युत्क्रान्तिकतिर्यग्योनिकानां संमूर्छिम-पञ्चेन्द्रियतिर्यग्योनिकानां च कृष्णलेश्याद्यल्पबहुत्वे सूत्रं वक्ष्यति- "सव्वत्थोवा गन्भवतियतिरिक्खजोणिया सुक्कलेस्सा, तिरिक्खजोणिणीओ संखेज्जगुणाओ, पम्हलेस्सा गब्भवतियतिरिक्खजोणिया संखेज्जगुणा, तिरिक्खजोणिणीओ संखेज्जगुणाओ, तेउलेस्सा गब्भवऋतिरिक्खजोणिया संखे-जगुणा, तेउलेस्साओ तिरिक्खजोणिणीओ संखेज्जगुणाओ" इति महादण्ड के च तिर्यग्योनिकस्त्रीभ्यो व्यन्तरज्योतिष्काश्च संख्येयगुणा वक्ष्यन्ते / ततो यद्यपि भवनवासिभ्योऽप्यसंख्येयगुणा ज्योतिष्काः, तथापि पदालेश्याकेभ्यस्तेजोलेश्याकाः संख्येयगुणा एव। इदमत्र तात्पर्यार्थः- यदि केवलान् देवानेव पद्मलेश्यानधिकृत्य देवा एव तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसंख्येयगुणाः, यावता तिर्यक्संमिश्रया पद्मलेश्याकेभ्यस्तिर्यक्संमिश्रा एव तेजोलेश्याकाश्चिन्त्यन्ते, तिर्यञ्चश्व पद्मलेश्या अपि अतिबहवस्ततः संख्येयगुणा इति। तेभ्यः अलेश्याका अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपि कापोतलेश्यायाः संभवात्, वनस्पतिकायिकानांच सिद्धेभ्योऽप्यनन्तगुणत्वात्। तेभ्योऽपि नीललेश्या विशेषाधिकाः, प्रभूततराणां नीललेश्यासंभवात्। तेभ्योऽपि कृष्णलेश्याका विशेषाधिकाः, प्रभूतानां कृष्णलेश्याकत्वात् / सामान्यतः सलेश्या विशेषाधिकाः, नीललेश्याकादीनामपि तत्र प्रक्षेपात् / प्रज्ञा०३ पद। जी०। कर्मा तदेवं सामान्यतोऽल्पबहुत्वं चिन्तितं; संप्रति नैरयिकेषु तच्चिन्तयन्नाहएतेसि णं भंते ! नेरइयाणं कण्हलेस्साणं नीललेस्साणं काउलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा नेरइया कण्हलेस्सा, नीललेस्सा असंखेजगुणा, काउलेस्सा असंखेजगुणा।।२। नैरयिकाणां हि तिस्रो लेश्याः / तद्यथा-कृष्णलेश्या, नीललेश्या, कापोतलेश्या / उक्तञ्च- "काऊया दोसु तइयाए मीसिया नीलिया चउत्थीए / पंचमियाए मिस्सा, कण्हा तत्तो परमकण्हा" ||1|| ततः त्रयाणामेव पदानां परस्परमल्यबहुत्वचिन्ता, तत्रसर्वस्तोकाः कृष्णलेश्या नैरयिकाः, कतिपयपञ्चमपृथिवीगतनरकावासेषु षष्ठयां सप्तम्यां नैरयिकाणां कृष्णलेश्यासद्भावात् / ततोऽसंख्येयगुणा नीललेश्याः, कतिपयेषु तृतीयपृथिवीगतनरकावासेषु चतुर्थ्यां समस्तायां पृथिव्यां कतिपयेषु पक्षमपृथिवीगतनरकावासेषु नैरयिकाणां पूर्वा के भ्योऽसंख्येयगुणानां नीललेश्याभावात् / तेभ्योऽप्यसंख्येयगुणाः कापोतलेश्याः, प्रथमद्वितीयपृथिव्यो-स्तृतीयपृथिवीगतेषु च कतिपयेषु नरकावासेषु नारकाणा-मनन्तरोक्तेभ्योऽसंख्येयगुणानां कापोतलेश्यासद्भावात्। अधुना तिर्यक्पञ्चेन्द्रियेष्वल्पबहुत्वमाहएएसि णं भंते ! तिरिक्खजोणियाणं कण्हलेस्साणं० जाव सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा तिरिक्खजोणिया सुक्कलेस्सा, एवं जहा ओहिया, नवरं अलेस्सवजा॥३॥ (एवं जहा ओहिया इति) एवमुपदर्शितेन प्रकारेण प्राग्वत् औधिकास्तथा वक्तव्याः, नवरमलेश्यावर्जास्तिरश्चामले-श्यानामसंभवात्। ते चैवम्सर्वस्तोकास्तिर्यग्योनिकाः शुक्ललेश्यास्ते च जघन्यपदे संख्याता द्रष्टव्याः 1, तेभ्योऽ-संख्येयगुणाः पद्मलेश्याः 2, तेभ्योऽपि संख्येयगुणास्तेजोलेश्याः 3, तेभ्योऽप्यनन्तगुणाः कापोतलेश्याः 4, तेभ्योऽपि नीललेश्या विशेषाधिकाः 5, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः 6, तेभ्योऽपि सलेश्या विशेषाधिकाः७। साम्प्रतमेकेन्द्रियेष्वल्पबहुत्वमाहएतेसिणं भंते ! एगिदियाणं कण्हलेस्साणं० जाव तेउलेस्साण यकयरे कयरेहिंतो अप्पावा 4? गोयमा! सव्वत्थोवा एगिंदिया तेउलेस्सा, काउलेस्सा अणंतगुणा, नीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया॥४|| सर्वस्तोका एकेन्द्रियास्तेजोलेश्याः, कतिपयेषु बादर-पृथिव्यप्प्रत्येकवनस्पतिकायिकेष्वपर्याप्तावस्थायां तस्याः सद्भावात् / तेभ्यः कापोतलेश्या अनन्तगुणाः, अनन्तानां सूक्ष्मबादरनिगोदजीवानां कापोतलेश्यासद्भावात्। तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः। अत्र भावना प्रागेवोक्ता। सम्प्रति पृथिवीकायिकादिविषयमल्पबहुत्वं वक्तव्यम्। तत्र पृथिव्यप्वनस्पतिकायानां चतस्रो लेश्याः, तेजोवायुकायानां तिस्र इति तथैव सूत्रमाहएते सि णं भंते ! पुढवीकाइयाणं कण्हलेस्साणं० जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! जहा ओहिया एगिदिया, नवरं काउलेस्सा असंखिजगुणा, एवं आउक्काइयाण वि / एते सि णं भंते ! तेउक्काइयाणं कण्हले स्साणं नीलकाउलेस्साण य कयरे कयरे हितो अप्पा वा०४? गोयमा ! सव्वत्थोवा तेउक्काइया काउलेस्सा, नीलले स्सा विसे साहिया, कण्हले स्सा विसेसाहिया, एवं वाउक्काइयाण वि / एतेसि णं भंते ! वणस्सइकाइयाणं कण्हलेस्साणं० जाव तेउलेस्साण य जहा एगिदियाणं बेइंदियते इंदियचउरिंदियाणं जहा ते उकाइ-याणं / एतेसि णं भंते ! पंचिंदियतिरिक्खजोणियाणं कण्हलेस्साणं० जाव सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! जहा ओहियाणं तिरिक्खजोणियाणं, नवरं काउलेस्सा जोणियाणं जहा ओहियाणं, तिरिक्खजोणियाणं नवरं काउलेस्सा संखिजगुणा 3, एवं तिरिक्खजोणिणीणं वि 4 ||5||