________________ अप्पाबहुय(ग) 651- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) वर्द्धमानानां जीवप्रदेशानां समानजातीयरूपा घनीकृतलोकाऽऽकाशश्रेणेरसंख्येयभागप्रदेशराशिप्रमाणा वर्गणा वाच्याः। एताश्चैतावत्योऽप्यसत्कल्पनया षट्स्थाप्यन्ते१५/१४/१३/१२/११/१० तत्र जघन्यवर्गणायां 15/14/13/12/11/10 जीवप्रदेशा असंख्येय वीर्यभागान्विताः। अथ 15/14/13/12/11/10 सत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते, एताश्चैतावत्यः समुदिता एकंवीर्यस्पर्द्धकमित्युच्यते। अथ स्पर्द्धक इति कः शब्दाऽर्थः? उच्यते- एकैकोत्तरवीर्य-भागवृद्ध्या परस्परं स्पर्धन्ते वर्गणा यत्र तत्। तत ऊर्ध्वमेकेन व्यादिभिर्वा वीर्यपरिच्छेदैरधिका जीवप्रदेशान प्राप्यन्ते। किंतर्हि ? प्रथमस्पर्द्धकचरमवर्गणायां जीवप्रदेशेषु यावन्तो वीर्यपरिच्छेदास्तेभ्योऽसंख्येयलोकाकाशप्रदेशप्रमाणैरेव वीर्यपरिच्छेदैरधिका जीवप्रदेशाः, अतस्तेषामपि समानवीर्य-भागानां समुदायो द्वितीयस्पर्द्धकस्याद्यवर्गणा / तत एकेन वीर्यभागेनाधिकानां समुदायो द्वितीयवर्गणा / एवमेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसंख्येयभागवर्तिप्रदेशराशिमाना वाच्याः / एतासामपि समुदायो द्वितीयं स्पर्द्धकम्। इत ऊर्ध्व पुनरप्येकोत्तरवृद्धिर्न लभ्यते / किं तर्हि असंख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयस्पर्द्धकमारभ्यते / पुनस्तेनैव क्रमेण चतुर्थम्, पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्द्धकानि श्रेण्यसंख्येयभागवर्तिप्रदेशराशिप्रमाणानि वाच्यानि / एषां चैतावतां स्पर्द्धकानां समुदाय एकं योगस्थानकमुच्यते। इदं तावदेकस्य सूक्ष्मनिगोदस्य भवाद्यसमये सर्वजघन्यवीर्यस्य योगस्थानकमभिहितं, तदन्यस्य तु किञ्चिदधिकवीर्यस्य जन्तोः, अनेनैव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठते / तदन्यस्य तु तेनैव क्रमेण तृतीयम्, तदन्यस्य तु तेनैव क्रमेण चतुर्थम् / इत्यमुना क्रमेणैतान्यपि योगस्थानानि नानाजीवानां कालभेदेनकजीवस्य वा श्रेणेरसंख्येयभागवर्तिनभःप्रदेशराशि-प्रमाणानि भवन्ति / ननुजीवानामनन्तत्वात्, तद्भेदात्योगस्थानान्यनन्तानि कस्मात् न भवन्ति ? नैतदेवम्- यत एकैकस्मिन् सद्रशे योग-स्थानेऽनन्ताः स्थावरजीवा वर्तन्ते, सास्त्वेकैकस्मिन् सदृशे योगस्थानेऽसंख्याता वर्तन्ते, तेषां च तदेकैकमेव विवक्षितमतो विसदृशानि यथोक्तमानान्येव योगस्थानकानि भवन्ति। तथा-ऽपर्याप्ताः सर्वेऽप्येकस्मिन् योगस्थानके एकसमयमवतिष्ठन्ते / ततः परमसंख्येयगुणवृद्धेषु प्रतिसमयमन्योन्ययोगस्थानकेषु संक्रामन्ति, पर्याप्तास्तु सर्वेऽपि स्वप्रायोग्ये सर्वजधन्ययोगस्थानके जघन्यतः समयमुत्कृष्टतश्चतुरः समयान् यावद्वर्तन्ते, ततः पर-मन्यद्योगस्थानकमुपजायते, स्वप्रायोग्योत्कृ ष्टयोगस्थानके तु जघन्यतः समयम्, उत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु जघन्यतः समयम्, उत्कृष्टतस्तु क्वचित् चतुरः, क्वचित्पञ्च, क्वचित् षट्, क्वचित् सप्त, क्वचिदष्टौ समयान्यावद्वर्तन्त इति। अयं चैतावानपि यो गो मनःप्रभृतिसहकारिकारणवशात् संक्षिप्य सत्यमनोयोगः 1, असत्यमनोयोगः 2, असत्यमृषा- मनोयोगः 3, असत्यामृषामनोयोगः 4 / सत्यवाग्योगः 1, असत्यवाग्योगः 2, सत्यमृषावाग्योगः 3, असत्यामृषावाग्योगः 4 / औदारिककाययोगः १,औदारिकमिश्रकाययोगः 2, वैक्रि यकाययोगः 3, वैक्रियमिश्र काययोगः 4, आहारककाययोगः 5, आहारकमिश्रकाययोगः 6, कार्मणकाययोग 7 भेदतः (4+4+7=15) पञ्चदशधा प्रोक्त इत्यलं प्रसंगेन। एतेभ्यश्च योगस्थानेभ्योऽसंख्येयगुणाः असंख्यातगुणिताः। (पयडित्ति) भेदशब्दस्य प्रत्येकं संबन्धात् प्रकृतिभेदात् स्थिभिदाच ज्ञानावरणादीनां भेदाः।असंखगुणत्ति पदमनु-भागबन्धस्थानानियावत्सर्वत्रयोजनीयम्। इयमत्र भावना- इह तावदावश्यका दिष्ववधिज्ञानदर्शनयोःक्षयोपशमवैचित्र्यादसंख्यातास्ताव भेदा भवन्ति। ततश्च तदावरणबन्धस्याऽपि तावत्प्रमाणभेदाः संगच्छन्ते, वैचित्र्येण बद्धस्यैव विचित्रक्षयोपशमोपपत्तेरिति। कथं पुनः क्षयोपशमवैचित्र्येऽप्यसंख्येयभेदत्वं प्रतीयते ? इति चेत्। उच्यते- क्षेत्रतारतम्येनेति / तथाहि- त्रिसमयाऽऽहारकसूक्ष्मपनक सत्त्वावगाहनामानं जघन्यमवधिद्विकस्य क्षेत्रं परिच्छेद्यतयोक्तम्।यदाह सकलश्रुतपारदृश्वा विश्वा-ऽनुग्रहकाम्यया विहितानेकशास्त्रसंदर्भो भगवान् श्रीभद्रबाहुस्वामी- "जावइय तिसमयाहारगस्स सुहुमस्स पणगजीवस्सा ओगाहणाजहन्ना, ओहीखित्तं जहन्नं तु" ||1|| उत्कृष्ट तु सर्व-बहुतैजस्कायिकजन्तूनां शुचिः सर्वतो भ्रामिता यावन्मात्र क्षेत्रं स्पृशति, तावन्मानं तस्य प्रमाणं भवति / यदाहुः श्रीमदाराध्य-पादाः "सव्वबहुअगणिजीवा, निरंतरं जत्तियं भरिजंसु / खिव्वं सव्वदिसागं, परमोही खित्तनिधिहो" // 1 // इति। ततो जघन्यात् क्षेत्रादारभ्य प्रदेशवृद्ध्या प्रवृद्धोत्कृष्टक्षेत्र-विषयत्वे सत्यसंख्येयभेदत्वमवधिद्विक स्य क्षेत्रं तारतम्येन भवति / अतस्तदावारकस्याऽवधिद्विकस्यापि नानाजीवानां क्षेत्रादिभेदेन बन्धवैचित्र्यादुदयवैचित्र्याचासंख्येयगुणभेदत्वम् / एवं नानाजीवानाश्रित्य मतिज्ञानावरणादीनां शेषाणामप्यावरणानां तथाऽन्यासामपि सर्वासां मूलप्रकृतीनामुत्तरप्रकृतीनां च क्षेत्राऽऽदिभेदेन बन्धवैचित्र्यादुदयवैचित्र्यादाऽसंख्याता भेदाः संपद्यन्त इति। उक्तंचजम्हा उ ओहिविसओ, उक्कोसेसव्वबहुयसिहिसूई। जत्तियमित्तं फुसई, तत्तियमित्तप्पएससमो॥१॥ तत्तारतम्मभेया, जेण बहू हुंति आवरणजणिया। तेणाऽसंखगुणतं, पयडीणं जोगओ जाण / / 2 / / चतसृणामानुपूर्वीणां बन्धोदयवैचित्र्येणाऽसंख्याता भेदाः, ते च लोकस्याऽसंख्येयभागवर्तिप्रदेशराशितुल्या इति बृहच्छतकचूर्णिकारोक्ता विशेषाः / ननु जीवानामनन्तत्वात् तेषां बन्धोदयवैचित्र्येणाऽनन्ता अपि प्रकृतिभेदाः कस्मात् न भवन्ति ? नैतदेवम्, सदृशानां बन्धोदयानामेकत्वेन विवक्षितत्वाद् विसदृशास्त्वेतावन्त एव तद्भेदा भवन्ति / ते च भेदाः प्रकृतिभेदत्वात् प्रकृतय इत्युच्यन्ते / ततश्च योगस्थानेभ्योऽसंख्यातगुणाः प्रकृतयः, यत एकैकस्मिन् योगस्थाने वर्तमान नाजीवैः कालभेदादेकजीवेन वा सर्वा अप्येताः प्रकृतयो बध्यन्त इति। तथा तेभ्यः प्रकृतिभेदेभ्यः स्थितिभेदाः स्थितिविशेषा अन्तर्मुहूर्तसमयाधिकान्तर्मुहूर्त त्रिसमयाधिकान्तर्मुहूर्तादि-लक्षणा असंख्यातगुणा भवन्ति / एकैकस्याः प्रकृतेरसंख्यातैः स्थितिविशेषैर्षध्यमानत्वादेकमेव हि प्रकृतिभेदं कश्चिञ्जीवोऽन्येन स्थितिविशेषेण बध्नाति, स एव च तं कदाचिदन्येन, कदाचिदन्यतरेण, कदाचिदन्यतमेनेत्येवमेकं प्रकृतिभेदमेकं जीवमाश्रित्यासंख्याताः स्थितिभेदा भवन्ति, किं पुनः सर्वप्रकृतीः सर्वजीवानाश्रित्य प्रकृतिभेदेभ्यः ? स्थिति