________________ अप्पाबहुय(ग) 650 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) तथा सर्वस्तोका इन्द्रियोपयुक्ताः / इन्द्रियोपयोगो हि प्रत्युत्पन्नकालविषयः; यतः तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते। यदा तुतमेवार्थमिन्द्रियेण दृष्ट्वा विचारयति, अथ संज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते / ततो नोइन्द्रियोपयोगस्याऽतीताऽनागतकालविषयतया बहुकाल-त्वात्संख्येयगुणा नोइन्द्रियोपयुक्ताः, तथा सर्वस्तोका अना-कारोपयुक्ताः, अनाकारोपयोगकालस्य स्तोकत्वात्। साकारोप-युक्ताः संख्येयगुणाः, अनाकारोपयोगकालात् साकारोपयोगस्य संख्येयगुणत्वात्। इदानी समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते, सर्वस्तोका जीवाः आयुष्कर्मणो बन्धकाः, आयुर्बन्धकालस्य प्रतिनियतत्वात् १,तेभ्योऽपर्याप्ताः संख्येयगुणाः, यस्मादपर्याप्ता अनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभाविकमायुर्बध्नन्ति, ततो द्वौ त्रिभागावबन्धकालौ, एको बन्धकाल इति बन्ध-कालादबन्धकालः संख्येयगुणः, तेन संख्येयगुणा एवाऽपर्याता आयुर्बन्धकेभ्यः२, तेभ्योऽपर्याप्तभ्यः सुप्ताः संख्येयगुणाः, यस्मादपर्याप्तेषु च पयप्तिषु च सुप्ता लभ्यन्ते / पर्याप्ताश्चाऽपर्याप्तेभ्यः संख्येयगुणाः, इत्यपर्याप्तेभ्यः सुप्ताः संख्येयगुणाः 3, तेभ्यः समवहताः संख्येयगुणाः, बहूनां पर्याप्तेष्वपर्याप्तषु च मारणान्तिकसमुद्घातेन समवहतानां सदा लभ्यमानत्वात् 4, तेभ्यः सातावेदकाः संख्येयगुणाः, आयुर्बन्धकाऽपर्याप्तकसुप्तेष्वपि सातावेदकानां लभ्यमानत्वात् 5, तेभ्य इन्द्रियोपयुक्ताः संख्येयगुणाः, असातवेदकानामपि इन्द्रियोपयोगस्य लभ्य-मानत्वात् 6, तेभ्योऽनाकारोपयोगोपयुक्ताः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु वाऽनाकारोपयोगस्य लभ्यमानत्वात् 7, तेभ्यः साकारोपयुक्ताः संख्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोप-योगेषु साकारोपयोगकालस्य बहुत्वात् 8, तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, नोइन्द्रियाऽनाकारोपयुक्तानामपि तत्र प्रक्षेपात्, साकारानाकारोपयुक्तानामपि तत्र प्रक्षेपात् / / अत्र विनेयजनानुग्रहार्थमसद्भावस्थापनया निदर्शनमुच्यतेइह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतम् 162 / ते च किल द्विधा- इन्द्रियसाकारोपयुक्ताः, नोइन्द्रियसाकारोपयुक्ताश्च / तत्रेन्द्रियसाकारोपयुक्ताः किलाऽतीवस्तोका इति विंशतिसंख्याः कल्पन्ते; शेषं द्विसप्तत्युत्तरं शतम् 172 ! नोइन्द्रियसाकारोपयुक्तानोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्-कल्पाः 52 / ततः सामान्यतः साकारोपयुक्तेभ्य इन्द्रियसाकारोप-युक्तेषु विंशतिकल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विंशत्यधिके भवतः 162-20+54-224 / ततः साकारोपयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिका:६, तेभ्योऽसातवेदका विशेषाऽधिकाः, इन्द्रियोपयुक्तानामप्यऽसातवेदकत्वात् 10, तेभ्योऽसमवहता विशेषाधिकाः, सातवेदकानाप्यसमवहतत्वभावात् 11, तेभ्यो जागरा विशेषाधिकाः, समवहतानामपि केषांचिजागरत्वात् 12, तेभ्यः पर्याप्ता विशेषाधिकाः, सुप्तानामपि केषांचित् पर्याप्तत्वात्। सुप्ता हि पर्याप्तापर्याप्ता अपि भवन्ति; जागराः तुपर्याप्ता एवेति नियमः 13, तेभ्योऽपि पर्याप्तभ्य आयुः-कर्माऽबन्धका विशेषाधिकाः, अपर्याप्तानामप्यायुः कर्माऽबन्धक-भावात् 14 // इदमेवाऽल्पबहुत्वं विनेयजनाऽनुग्रहाय स्थापनाराशिभिरुपदश्यते- इह द्वे पङ्क्ती उपर्यधोभावेन न्यस्येते / तत्रोपरितन्यां पङ्क्तौ आयुःकर्मबन्धका अपर्याप्ताः सुप्ताः समवहताः सातवेदका इन्द्रियोपयुक्ता अनाकारोपयुक्ताः क्रमेण स्थाप्यन्ते, तस्या अधस्तन्यां पङ्क्तौ तेषामेव पदानामधस्ताद् यथासंख्य-मायुरबन्धका पर्याप्ता जागरा असमवहता असातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताः। स्थापना चेयम्-आद्यमिति तत्परिमाणं संख्यामेकः स्थाप्यते। ततः शेषपदानि किल जघन्येन संख्येयगुणानीति द्विगुणो द्विगुणा-ऽङ्कः तेषु स्थाप्यते। तद्यथा-द्वौ चत्वार अष्टौ षोडश द्वात्रिंशत् चतुःषष्टिः; सर्वोऽपि जीवराशिरनन्ताऽनन्तस्वरूपोऽप्यसत्-कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः परिकल्प्यते 256 / ततोऽस्माद् राशेरायुबन्धकादिगताः संख्याःशोधयित्वा, यत् शेषमवतिष्ठते ,तदायुरबन्धकादीनां परिमाणे स्थापयितव्यम्। तद्यथा- आयुरबन्धकादि पदे द्वे शते पञ्चपञ्चाशदधिके, 2561-255, शेषेषु यथोक्तक्रमद्वेशते चतुष्पञ्चाशदधिके 256-2-254, द्वे शते द्विपञ्चाशदधिके२५६-४-२५२, द्वे शते अष्टचत्वारिंशदधिके 256-8-248, द्वे शते चत्वारिंशदधिके 256-16-240, द्वे शते चतुर्विंशत्यधिके 256-32-224, द्विनवत्यधिकं शतम् २५६६४-१९२एवं च सति उप-रितनपक्तिगतान्यनाकारोपयुक्तपर्यन्तानि पदानि संख्येयगुणानि, द्विगुणद्विगुणाऽधिकत्वात् / ततः पर साकारोपयुक्तपदमपि संख्येयगुणम्, त्रिगुणत्वात् / शेषाणि तु नोइन्द्रियोप-युक्तादीनि प्रतिलोमं विशेषाधिकानि, द्विगुणत्वस्याऽपि क्वचिदभावात्। प्रज्ञा०३ पद। (प्रकृतिबन्धादीनाम्) सम्प्रति प्रागुक्तचतुर्विधबन्धे योगस्थानानि कारणं, प्रकृतयः प्रदेशाच तत्कार्यं वर्तन्ते / तथा स्थितिबन्धाध्यवसायस्थानानि कारणं, स्थितिविशेषास्तु तत्कार्यम्, अनुभागबन्धाध्यवसाय-स्थानानि कारणम्, अनुभागस्थानानि तु तत्कार्य वर्तन्त इति कृत्वा सप्तानामप्येषा पदार्थानां परस्परमल्पबहुत्वमभिधित्सुराहसेढिअसंखिजंसे,जोगट्ठाणाणि पयडिठिइभेया। ठिइबंधज्झवसाया-ऽणुभागठाणा असंखगुणा ||5|| योगो वीर्यम् तस्य स्थानानि वीर्याविभागान्त्रासकातरूपाणि। कियन्ति पुनस्तानि भवन्ति? इत्याह - (सेढिअसंखेचंसे त्ति) श्रेणिरसंख्येयांशः श्रेण्यसंख्येयांशः 1 एतदुक्तं भवति-श्रेणेवक्ष्यमाणस्वरूपाया असंख्येयभागेयावन्त आकाशप्रदेशा भवन्ति, तावन्ति योगस्थानानि। एतानि चोत्तरपदापेक्षया सर्वस्तोकानीति शेषः / तत्र यथैतानि योगस्थानानि भवन्ति, तथोच्यते- इह किल सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धि-युक्तस्य प्रदेशाः केचिदल्पवीर्ययुक्ताः केचित्तु बहुबहुतरबहुत-मवीर्योपेताः; तत्र सर्वजघन्ययुक्तवीर्यस्यापि प्रदेशस्य संबन्धि वीर्य केवलिप्रज्ञाछेदेन छिद्यमानमसंख्येयलोकाकाशप्रदेशप्रमाणान् भागान् प्रयच्छति, तस्यैवोत्कृष्टवीर्ययुक्तप्रदेशे यद्वीर्य, तदेतेभ्योऽसंख्येयगुणान् भागान् प्रयच्छति। उक्तं च - पन्नाए छिज्जंता, असंखलोगाण जत्तियपएसा। तत्तियवीरियभागा, जीवपएसम्मि एकेके // 1 // सव्वजहन्नगविरिए, जीवपएसम्मितत्तिया संखा। तत्तो असंखगुणियं, बहुविरिऐं जियपएसम्मि // 20 भागा अविभागपरिच्छेदा इति चाऽनन्तरम् / ततः सर्वस्तोका विभाग-परिच्छे दकलितानां लोकासंख्येयभागवर्त्य संख्येय प्रतरप्रदेशराशि-संख्यानां जीवप्रदेशानां समानवीर्यपरिच्छेदतया जघन्यैका वर्गणा। तत एकेन योगपरिच्छेदेनाधिकानां तावतामेव जीवप्रदेशानां द्वितीया वर्गणा / एवमे कै कयोगपरिच्छे दवृद्धया