________________ अप्पाबहुय(ग) ६५२-अभियानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) भेदानामसंख्यातगुणत्वमित्यतः प्रकृतिभेदेभ्यः स्थितिभेदाः असंख्यातगुणा भवन्तीति; तथा स्थितिभेदेभ्यः सकाशात् स्थितिबन्धाध्यवसायाः पदैकदेशे पदसमुदायोपचारात् स्थितिबन्धाध्यवसायस्थानान्यसंख्यातगुणानि। तत्र स्थान स्थितिः? कर्मणोऽवस्थानं, तस्या बन्धः स्थितिबन्धः / अध्यवसानान्यध्यवसायाः, ते चेह कषायजनिता जीव-परिणामविशेषाः। तिष्ठन्ति जीवा एष्वितिस्थानानि, अध्यवसाया एव स्थानान्यध्यवसायस्थानानि; स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि, तानि स्थितिभेदेभ्योऽसंख्येयगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसंख्येयलो काकाशप्रदेशप्रमाणै रध्यवसायस्थानर्जन्यते / उत्तरे तु स्थितिविशेषास्तैरेव यथोत्तरं विशेषवृद्धैर्जन्यन्ते; अतः स्थितिभेदेभ्यः स्थितिबन्धाध्यवसायस्थानान्यसंख्यातगुणानि सिद्धानि भवन्ति। तथा-(अणुभागट्ठाण त्ति) पदैकदेशे पदसमुदायोपचारादनुभागस्थानान्यनुभागबन्धाध्यवसायस्थानानि / तत्राऽनु पश्चाद् बन्धोत्तरकालं भज्यते सेव्यतेऽनुभूयत इत्यनुभागो रसः, तस्य बन्धोऽनुभागबन्धः, अध्यवसानान्यध्यवसायाः, ते चेह कषायजनिता जीवपरिणामविशेषाः / तिष्ठन्ति जीवा एष्वेति स्थानानि, अध्यवसाया एव स्थानान्यध्यवसायस्थानानि, अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थानान्यनुभागबन्धाऽध्यवसायस्थानानि / स्थितिबन्धाऽध्यवसायस्थानेभ्यः तान्यसंख्येयगुणानि भवन्ति, स्थितिबन्धाध्यवसायस्थानं ह्येकैकमन्तर्मुहूर्तप्रमाणमुक्तम् / अनुभागबन्धाध्यवसायस्थानेत्ये कै कं जघन्यतः सामायिकम्, उत्कृष्ट तस्त्वष्ट - सामायिकाऽन्तमेवोक्तमत एकस्मिन्नपि नगरकल्पे स्थितिबन्धाध्यवसायस्थाने तदन्तर्गता नगरान्तर्गतोश्चर्नीचैहकल्पानि नानाजीवान् कालभेदेनैकजीवान् कालभेदेनैकजीवं वा समाश्रित्यासंख्येयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाऽध्यवसायस्थानानि भवन्ति। तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसायस्थानानांमध्ये यदाद्यं सर्वलघुस्थितिकं बन्धाध्यवसायस्थानं तस्मिन्नपि देशक्षेत्रकालभावजीवभेदेनाऽसंख्येयलोकाकाश-प्रदेशप्रमाणान्यनुभागबन्धाध्यवसायस्थानानि प्राप्यन्ते / द्वितीयादिषु तु तान्यप्यधिकान्यधिकतराणि च प्राप्यन्ते इति सर्वेष्वपि स्थितिबन्धाध्यवसायस्थानेषु भावनाः कार्याः अतः स्थितिबन्धाऽध्यवसायस्थानेभ्योऽनुभागबन्धाध्यवसाय-स्थानान्यसंख्येयगुणानीति। तत्तो कम्मपएसा, अणंतगुणिया तओ रसच्छेया। ततस्तेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः, कर्मप्रदेशाः कर्मस्कन्धा अनन्तगुणिता भवन्ति / अयमत्र तात्पर्यार्थः- प्रत्येकमभव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभि-निष्पन्नानभव्यानन्तगुणानेव स्कन्धान मिथ्यात्वादिभिर्हेतुभिः प्रतिसमयं जीवो गृह्णातीत्युक्तम् / अनुभागबन्धाध्यवसायस्थानानि तु सर्वाण्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणान्येवाभिहितानि, अतोऽनुभागबन्धाध्यवसायस्थानेभ्यः कर्मप्रदेशा अनन्तगुणाः सिद्धा भवन्ति। तथा(तओ रसच्छेय ति) ततस्तेभ्यः कर्मप्रदेशेभ्यो, रसच्छेदा अनन्तगुणा भवन्ति / तथाहि- इह क्षीरनिम्बरसाद्यधिश्रयणरिवाऽनुभागबन्धाध्यवसायस्थानेस्तन्दुलेष्विव कर्मपुद्रलेषु रसोजन्यते, स चैकस्यापि परमाणोः संबन्धी केवलिप्रज्ञया छिद्यमानः सर्वजीवानन्तगुणानविभागपरिच्छेदान् प्रयच्छति / यस्माद् भागादपि सूक्ष्मतयाऽन्यो भागो नोत्तिष्ठति, सोऽविभागपरिच्छेद उच्यते / एवंभूताश्चानुभागस्याऽविभागपरिच्छेदा रसपर्यायाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्वजीवाऽनन्तगुणाः संप्राप्यन्ते। यतः - गहणसमयम्मि जीवो, उप्पाएइ उगुणे सपञ्चयओ। सव्वजियाणंतगुणे, कम्मपएसेसु सव्वेसु॥ गुणशब्देनेहाविभागपरिच्छेदा उच्यन्ते / शेषं सुगमम् / कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्तन्ते। अतः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणाः सिद्धा भवन्तीति। कर्म०५ कर्म०। (औदारिकादिशरीरबन्धकाना-मल्पबहुत्वं तु सरीर' शब्द एव दृश्यम्) (22) भवसिद्धिकद्वारम् / भवसिद्धिकद्वारमाहएएसि णं भंते ! जीवाणं भवसिद्धियाणं अभव-सिद्धियाणं नोभवसिद्धियाणं नोअभवसिद्धियाण य कयरे कयरेहिंतो अप्पा वा०Y? गोयमा ! सव्वत्थोवा अभवसिद्धिया, नोभवसिद्धिया नोअभवसिद्धिया अणंतगुणा, भवसिद्धिया अणंतगुणा। सर्वस्तोका अभवसिद्धिकाः अभव्याः, जघन्ययुक्तानन्तक - परिमाणत्वात्। उक्तं चानुयोगद्वारेषु- "उक्कोसए परित्ताणंतरूये पक्खित्ते जहन्नयजुत्ताणतयं होइ, अभवसिद्धिया वि तत्तिया चेव त्ति'' तेभ्यो नोभवसिद्धिका अभवसिद्धिका अनन्तगुणाः, यत उभयप्रतिषेधवृत्तयः सिद्धास्ते चाऽजघन्योत्कृष्टयुक्ता-ऽनन्तकपरिमाणा इत्यनन्तगुणाः / तेभ्यो भवसिद्धिका अनन्तगुणाः, यतो भव्यनिगोदस्यैकस्यानन्तभागकल्पाः सिद्धा भव्य-जीवराशिनिगोदाश्चाऽसंख्येया लोके इति। गतं भवसिद्धिद्वारम् / प्रज्ञा०३ पद। (23) भाषकद्वारम्। भाषकाऽभाषकाऽल्पबहुत्वमाहएएसि णं भंते ! जीवाणं भासगाणं अभासगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा भासगा, अगासगा अणंतगुणा। सर्वस्तोका भाषका भाषालब्धिसंपन्नाः, द्वीन्द्रियादीनामेव भाषकत्यात् / अभाषका भाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात्। प्रज्ञा०३ पद। सत्यादिभेदेन भाषाणामल्पबहुत्वम्। प्रज्ञा०११ पद। (भाषाद्रव्याणां खण्डादिभिर्भेदर्भिद्यमानानामल्पबहुत्वं च'भासा' शब्दे वक्ष्यते) (24) महादण्डकद्वारम्। सर्वजीवाऽल्पबहुत्वम्अह भंते ! सव्वजीवप्पहुं महादंडयं वत्तइस्सामि, सव्वत्थोवा गम्भवकं तियमणुस्सा, मणुस्सीओ संखे जगुणाओं, बादरतेउकाइया पज्जत्तया असंखि-जगुणा, अणुत्तरोववाइया देवा असंखे जगुणा, उवरिमगे वे जगा देवा संखेनगुणा, मज्झिमगेवेजगा देवा संखजगुणा, हेहिमगेवेजगा, देवा संखेजगुणा, अचुए कप्पे देवा संखेज्जगुणा, आरणे कप्पे देवा