________________ (75) उपोद्घातः तिवस्तुः यथा त्वेकः शक्तस्वभावो भावः तथा अन्योऽपि भवन् कीदृशं दोषमावहति? यथा भवतां जातिरेकाऽपि समानध्वनिप्रसवहेतुरन्याऽपि स्वरूपेणैव जात्यन्तरनिरपेक्षा, तथाऽस्माकं व्यक्तिरपि जातिनिरपेक्षा स्वरूपेणैव भिन्ना हेतुः। यत्तु त्रिलोचनः-अश्वत्वगोत्वादीनां सामान्यविशेषाणां स्वाश्रयेसमवायः सामान्यम् / सामान्यमित्यभिधानप्रत्यययोनिमित्तमिति / यद्येवं व्यक्तिष्वप्ययमेव तथाभिधानप्रत्यय हेतु रस्तु किं सामान्यस्वीकारप्रमादेन? न च समवायः सम्भवी॥ "इहेति बुद्धेः समवायसिद्धि-रिहेति धीश्च द्वयदर्शने स्यात् / न च कचित्तद्विषये त्यपेक्षा, स्वकल्पनामात्रमतोऽभ्युपायः" // 1 // एतेन येयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीषु व्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भवितुमर्हतीत्यूहाप्रवर्त्तनमस्य प्रत्याख्यातम् / जातिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात् / यत् पुनरनेन विपर्यये वाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिनिवृत्त्यक्वचिदेव भवन्ती निमित्तवती न चान्यन्निमित्तमित्यादि / तन्न सम्यक् / अनुवृत्तमन्तरेणापि अभिधानप्रत्ययानुवृत्तेरतद्रूपपरावृत्तस्वरूपविशे-षात् अवश्यं स्वीकारस्य साधितत्वात्। तस्मात्"तुल्यभेदे यया जातिः , प्रत्यासत्त्या प्रसर्पति। कचिन्नान्यत्र सैवास्तु, शब्दज्ञाननिबन्धम् "||1| यत् पुनरत्र न्यायभूषणेनोक्तम्-नह्येवं भवति यथा प्रत्यासत्त्या दण्हसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र सैव प्रत्यासत्तिः पुरुषस्फटि-- कादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु किं दण्डसूत्रादिनेति / तदसङ्ग तम् / दण्डसूत्रयोर्हि पुरुषस्फटिक प्रत्यासन्नयोर्दृष्टयोः दण्डिसूत्रिप्रत्ययहेतुत्वं नापलप्यते / सामान्यं तु स्वप्नेऽपि न दृष्टम्। तद्यदीदं परिकल्पनीयं तदा वरं प्रत्यासत्तिरेव सामान्यप्रत्ययहेतुः परिकल्प्यताम्, कि गुऱ्या परिकल्पनयेत्यभिप्रायापरिज्ञानात्। अथेदं जातिप्रसाधकमनुमानमभिधीयते-यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम् / यथा दण्डिज्ञानम् / विशिष्टज्ञानं चेदंगौरयमित्यर्थतः कार्यहेतुः; विशेषणानुभवकार्य हि दृष्टान्ते विशिष्टबुद्धिः सिद्धेति / अत्रानुयोगः विशिष्टबुद्धेभिन्नविशेषग्रहणनान्तरीयकत्वं वा साध्यम् ; विशेषणमात्रानुभवनान्तरीयकत्वं वा? प्रथमपक्षे पक्षस्य प्रत्यक्षबाधासाधनावधानमनवकाशयति वस्तुग्राहिणः प्रत्यक्षस्योभयप्रतिभासाभावात् विशिष्टबुद्धित्वं च सामान्यम् / हेतुरनैकान्तिकः / मिन्नविशेषणग्रहणमन्तरेणापि दर्शनात्, यथा स्वरूपवान् घटः / गोत्वं सामान्यमिति वा / द्वितीयपक्षे तु सिद्ध-साधम् / स्वरूपवान् घट इत्यादिवत् गोत्वजातिमान् पिण्ड इति परिकल्पितं भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वादगोव्यावृ-त्तानुभयभावित्वात् गौरयमिति व्यवहारस्य / तदेव न सामान्यबुद्धिः। वाधकं च सामान्यगुणकर्माधुपाधिचक्रस्य, केवलव्यक्तिग्राहकं पटुप्रत्यक्षम् / दृश्यानुपलम्भो वा प्रसिद्धः। तदेवं विधिरेव शब्दार्थः। स च बाह्योऽर्थोबुद्ध्याकारश्च विवक्षितः तत्र, न बुध्याकारस्य तत्त्वतः संवृत्त्या या विधिनिषेधौ, स्वसंवेदनप्रत्यक्षगम्यत्वात्, अनध्यवसायाच। नापितत्त्वतोबाह्यस्यापि विधिनिषेधौ, तस्य शाब्दे प्रत्ययेऽप्रतिभासनात् / अत एव सर्वधर्माणां तत्त्वतोऽनभि-लाप्यत्वं प्रतिभासाध्यवसाया भावात् तस्मात् बाह्यस्यैव साम्वृतौ विधिनिषेधौ / अन्यथा संव्यवहारहानिप्रसङ्गात्। तदेवं "नाकारस्य न बाह्यस्य, तत्त्वतो विधिसाधनम्। बहिरेव हि संवृत्या, संवृत्याऽपितु नाकृतेः।।१।।" एतेन यद्धर्मोत्तरः--आरोपितस्य बाह्यत्वस्य विधिनिषेधावित्यलौकिकमनागममतार्किकीयं कथयति। तदपहस्तितम्। नन्वध्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसितमिति कोऽर्थः? अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः / अप्रति-भासाविशेष विषयान्तरपरिहारेण कथं नियतविषया प्रवृत्तिरिति चेत्? उच्यते यद्यपि विश्वमगृहीतं तथापि विकल्पस्य नियतसा-मग्रीप्रसूतत्वेन नियताकारतया नियतशक्तित्वात् नियता एव जलादौ प्रवृत्तिः / धूमस्य परोक्षाग्निज्ञानजननवत्। नियतविषया हि भावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसाङ्कर्यपर्यनुयोगभाजः / तस्मात् तदध्यवसायित्वमाकारविशेषयोगात् तत्प्रवृत्तिजनकत्यम् / न च सादृश्यादारोपेण प्रवृत्तिं ब्रूमः, येनाकारे बाह्यस्य बाह्ये वा आकारस्यारोपद्वारेण दूषणावकाशः, किं तर्हि स्ववासनाविपाकवशादुपजायमानैव बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये वृत्तिमातनोतीति विप्लुतैव / तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधिः। स एव चापोहशब्दवाच्यः शब्दानामर्थः प्रवृत्ति-- निवृत्तिविषयश्चेति स्थितम्।। अत्र प्रयोगः-यद् वाचकं तत्सर्वमध्यवसितातद्रूपपरावृत्तवस्तुमागोचरम् यथेह कूपेजलमिति वचनम्। वाचकं वेदंगवादिशब्द-रूपमिति स्वभावहेतुः / नायमसिद्धः, पूर्वोक्तेन न्यायेन पारमा-- र्थिकवाच्यवाचकभावस्याभावेऽपि अध्यवसायकृतस्य सर्वव्यवहारिभिरवश्यं स्वीकर्तवयत्वात् / अन्यथा सर्वव्यवहारोच्छेदप्रसङ्गा त्। नाऽपि विरुद्धः, सपक्षे भावात् / न चानैकान्तिकः, तथाहि--शब्दानामध्यवसितविजातिव्यावृत्तवस्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतः"वाच्यं स्वलक्षणमुपाधिरुपाधियोगः, सोपाधिरस्तु यदि वा कृतिरस्तु बुद्धेः।" गत्यन्तराभावात्। अविषयत्वे च वाचकत्वायोगात्। तत्र"आद्यन्तयोर्न समयः फलशक्तिहानेमध्येऽप्युपाधिविरहात् त्रितयेन युक्तः // " तदेवं वाच्यान्तरस्याभावात्। विषयवत्त्वलक्षणस्य व्यापकस्य निवृत्ती विपक्षतो निवर्तमानं वाचकत्त्वमध्यवसितबाह्यविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः। "शब्देस्तावन्मुख्यमाख्यायतेऽर्थः, तत्रापोहस्तद्गुणत्वेन गम्यः। अर्थश्वैकोऽध्यासतो भासतोऽन्यः, स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् / / " अथापोहसिद्धिजैनाचार्यरित्थं पराक्रियते - "अथश्रीमदनेकान्त-समुद्घोषपिपासितः। अपोहमापिबामि द्राक्, वीक्षन्तां भिक्षवः क्षणम्" ||1|| इह तावद्विकल्पानां तथाप्रतीतिपरिहृतविरुद्धधर्माध्यासकथचित्तादात्म्यापन्नसामान्यविशेषस्वरूपवस्तुलक्षणाक्षणदीक्षादीक्षितत्वं प्राक् प्राकट्यत / ततस्तत्त्वतः शब्दानामपि तत्प्रसिद्धमे