________________ उपोद्घातः (74) भेदादपरस्वरूपभेदः, अन्यथा तैलोक्यमे कमेव वस्तु स्यात् / दूरासन्नदेशवर्तिनोः पुरुषयोः एकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेऽपि न शाखिभेद इति चेत्? न ब्रूमः प्रतिभासभेदो भिन्नवस्तुनियतः, किन्तु एकविषयत्वाभावनियत इति / ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभासभेदः तत्र वस्तुभेदः, घटवत्। अन्यत्र पुनर्नियमेनैकविषयतां परिहरतीत्येकप्रतिभासो भ्रान्तः। एतेन यदाह वाचस्पतिः-नच शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे प्रत्ययाभेदः, कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति / तन्नोपयोगि / परोक्षप्रत्ययस्य वस्तुगोचरत्वासमर्थनात् / परोक्षताऽऽ-श्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः / तन्न शाब्दे प्रत्यये स्वलक्षणं परिस्फुरति किञ्च-स्वलक्षणात्मनि वस्तुनिवाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः। तस्य हि सद्भावेऽस्तीति व्यर्थम्, नास्ति इत्यसमर्थम् : असद्धावे नास्तीति व्यर्थम्, अस्ति इत्यसमर्थम्। अस्ति चास्त्यादिपदप्रयोगः। तस्मात् शब्दप्रतिभासस्य बाह्यार्थभावाभावसाधारण्यं नतद्विषयतां क्षमते। यच वाचस्पतिना जातिमव्यक्तिवाच्यतां स्ववाचैव प्रस्तुत्याऽनन्तरमेवन चशब्दार्थस्य जातेर्भावाभावसाधारण्य नोपपद्यते; सा हि स्वरूपतो नित्याऽपि देशकालविप्रकीर्णानेकव्यक्याश्रयतया भावाभावसाधारणीभवनस्तिनास्तिसंबन्धयोग्या। वर्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता; अतीतानागतव्यक्तिसम्बन्धिता च नास्तितेति संदिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यमन्यथासिद्धं वेति विलपितम्, तावन्न प्रकृतक्षतिः, जातौ भरं न्यस्यता स्वलक्षणावाच्यत्वस्य स्वयं स्वीकारात्। किञ्च-- सर्वत्र पदार्थस्य स्वलक्षणस्वरूपेणैवास्तित्वादिकं चिन्त्यते / जातेस्तु वर्तमानादिव्यक्तिसम्बन्धोऽस्तित्वादिकमिति तु बालप्रतारणम् / एवं जातिमद्यक्तिवचनेऽपि दोषः / व्यक्तेश्चेत् प्रतीतिसिद्धः, जातिरधिका प्रतीयताम्; मा वा, न तु व्यक्तिप्रतीतिदोषान्मुक्तिः।। एतेन यदुच्यते कौमारिलैः-सभागत्वादेव वस्तुनो न साधारण्यदोषः। वृक्षत्वं ह्यनिर्धारितभावाभावं शब्दादवगम्यते / तयोरन्यत-रेण शब्दान्तरावगतेन संबध्यत इति तदप्यसङ्गतम्। सामान्यस्य नित्यस्य प्रतिपत्तावनिर्धारितभावाभावत्वायोगात् / यचेदं न च प्रत्यक्षस्येव शब्दानाम् अर्थप्रत्यायनप्रकारो येन तदृष्ट इवास्त्या-दिशब्दापेक्षा न स्याताविचित्रशक्तित्वात् प्रमाणानामिति। तदप्यन्द्रियकशाब्दप्रतिभास योरेकस्वरूपग्राहित्वे भिन्नावभासदूषणेन दूषितम्, विचित्रशक्तित्वं च प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरितार्थम् / ततो यदि प्रत्यक्षार्थप्रतिपादनं शाब्देन तद्वदेवाव-भासः स्यात् अभवंश्च न तद्विषयख्यापनं क्षमते / ननु वृक्षशब्देन वृक्षत्वांशे चोदिते सत्त्याद्यशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत्? निरंशत्वेन प्रत्यक्षसमधिगतस्य स्वलक्षणस्य कोऽवकाशः पदान्तरेण; धर्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा। प्रत्यक्षेऽपि प्रमाणान्तरापेक्षा दृष्टति चेत्? भवतु तस्यानिश्चयात्मत्वात् अनभ्य-स्तस्वरूपविषये, विकल्पस्तु स्वयं निश्चयात्मको यत्र ग्राही तत्र किमपरेण? अस्ति च शब्दलिङ्गान्तरापेक्षा, ततो न वस्तुस्वरूपग्रहः। ननु भिन्ना जात्यादयो धर्माः परस्परं धर्मिणश्चेति जाति लक्षणैकधर्मद्वारेण प्रतीतेऽपि शाखिनि धर्मान्तरवत्तया न प्रतीतिरिति किन्न भिन्नाभिधानाधीनो धर्मान्तरस्य नीलचलोचैस्तरत्वादेरवबोधः / तदेतदसङ्गतम् / अखण्डात्मनः स्वलक्षणस्य प्रत्यक्ष प्रतिभासात् / दृश्यस्य धर्मधर्मि भेदस्य प्रत्यक्षप्रतिक्षिप्तत्वात्, अन्यथा सर्वं सर्वत्र स्यादिति अतिप्रसङ्गः। काल्पनिकभेदाश्रयस्तुधर्मधर्मिव्यवहार इति प्रसाधितं शास्त्र; भवतु वा पारमार्थिको धर्म-धर्मिभेदः, तथाऽप्यनयोः समवायादेर्दूषितत्वादुपकारलक्षणैव प्रत्यासत्तिरेषितव्या / एवं च यथेन्द्रियप्रत्यासत्त्या प्रत्यक्षेण धर्मिप्रतिपत्तौ सकलतद्धर्मप्रतिपत्तिः। तथा शब्दलिङ्गाभ्यामपि वाच्यवाचकादिसंपन्धप्रतिवद्वाभ्यां धर्मिप्रतिपत्तौ निरवशेषतद्धर्मप्रतिपत्तिर्भवेत्, प्रत्यासत्तिमात्रस्याविशेषात् / यच वाचस्पतिः- न चैकोपाधिना सत्त्वे विशिष्ट तस्मिन् गृहीते, उपाध्यन्तरविशिष्टतद्ग्रहः / स्वभावो हि द्रव्यस्य उपाधिभिर्विशिष्यते; न तूपाधयो वा, विशेष्यत्वं वा, तस्य स्वभाव इति। तदपिप्लवत एव / न ह्यभेदादुपाध्यन्तरग्रहणत्वमासञ्जितम् / भेदं पुरस्कृत्यैवोपकार-कग्रहणे उपकार्यग्रहणप्रसजनात्। नचाग्निधूमयोः कार्यकारणभाव एव, स्वभावत एव धर्मधर्मिणोः प्रतिनियमकल्पनमुचितम् , तयोरपि प्रमाणासिद्धत्वात्। प्रमाणसिद्धेच स्वभावोपवर्णनमिति न्यायः / पञ्चात्र न्यायभूषणेन सूर्यादिग्रहणे तदुपकार्याशेषवस्तुराशिग्रहणप्रसञ्जनमुक्तम् / तदभिप्रायानवगाहनफलम् / तथाहि-त्वन्मते धर्मधर्मिणोर्भेदः, उपकारलक्षणैव च प्रत्यासत्तिः / तदोपकारक ग्रहणे समानदेशस्यैव धर्मरूपस्यैव चोपकार्यस्य ग्रहणमासञ्जितम्, तत् कथं सूर्योपकार्यस्य भिन्नदेशस्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रसङ्ग सङ्गतः / तस्मादेकधर्मद्वारेणाऽपि वस्तुस्वरूपप्रतिपत्तौ सर्वात्मप्रतीतेः, क शब्दान्तरेण विधिनिषेधावकाशः। अस्ति च, तस्मान्न स्वलक्षणस्य शब्दविकल्पलिङ्ग प्रतिभासित्वमिति स्थितम् / नापि सामान्य शाब्दप्रत्ययप्रतिभासि / सरितः पारे गावश्चरन्तीति गवादिशब्दात् सास्नाशृङ्गलाळू लादयोऽक्षराकारपरिकरिताः सजातीयभेदापरामशनात् संपिण्डिप्रायाः प्रतिभासन्ते / न च तदेव सामान्यम् / वर्णाकृत्यक्षराकारशून्यं गोत्वं हि कथ्यते / तदेव च सास्नाशृङ्गादिमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेनैकी-क्रियमाणं सामान्यमित्युच्यते; तादृशस्य बाह्यस्याप्रासेििन्तरेवासौ; केशप्रतिभासवत्। तस्माद्वासनावशा-दुद्धेरेव तदात्मना विवर्तोऽयमस्तु, असदेव वातद्रूपंख्यातु, व्यक्तय एव वा सजातीयभेदतिरस्कारेणान्यथा भासन्ताम्, अनुभवव्य-यधानात्। स्मृतिप्रमोषोवाऽभिधीयताम्, सर्वथा निर्विषयः खल्वयं सामान्यप्रत्ययः, क सामान्यवार्ता? यत् पुनः सामान्याभावे सामान्यप्रत्ययस्याकस्मिकत्यमुक्तम् ? तदयुक्तम्। यतः पूर्वपिण्डदण्डदर्शनस्मरणसहाकारिणाऽतिरिच्यमानाविशेषप्रत्ययजनिका सामग्री निर्विषयं सामान्यविकल्पमुत्पादयति; तदेवं न शाब्दप्रत्यये जातिःप्रतिभाति नापि प्रत्यक्षे, न चानुमानतोऽपि सिद्धिः; अदृश्यत्वे प्रतिबद्धलिङ्गादर्शनात् / नापीन्द्रियवदस्याः सिद्धिः, ज्ञानकार्यतः कादाचित्कस्यैव निमित्तान्तरस्य सिद्धेः। यदाऽपि पिण्डान्तरेऽन्तरालेवा गोबुद्धेरभावं दर्शयेत् तदा शावलेयादिसक-लगोपिण्डानामेवाभावादभावो गोबुद्धरुपपद्यमानः कथमर्था-तर-माक्षिपेत्? गोत्वादेव गोपिण्डः, अन्यथा तुरगोऽपि गोपिण्डः स्यात् / यद्येवं गोपिण्डादेव गोत्वमन्यथा तुरगत्वमपि गोत्वं स्यात्, तस्मात् कारणपरम्परात एव गोपिण्डो, गोत्वं तु भवतु मा वा / ननु सामान्यप्रत्यजननसामर्थ्य यद्येकस्मात् पिण्डादभिन्नम्। तदा विजाती-यव्यावृत्तं पिण्डान्तरमसमर्थम् / अथ भिन्नं, तदा तदेव सामान्यं, नाम्नि परं विवाद इति चेत्? अभिन्नैव सा शक्तिः प्र