________________ अप्याबहुय(ग) 641 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इति / एतत्कथम् ? उच्यतेअद्धासमयद्रव्येभ्यः आकाशप्रदेशानामनन्तगुणत्वात्। ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारण-माश्रित्याकाशप्रदेशा अनन्तगुणाः, कालसमयाश्च तदनन्त-भागवर्तिन इति ? उच्यते - एकस्यामनाद्यपर्यवसितायामाकाश प्रदेशश्रेण्यामे कैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन, ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोधिआयतश्रेणीविरचनेन आकाशप्रदेशघनो निष्पद्यते, कालसमयश्रेण्यां तु सैव श्रेणी भवति, न पुनर्घनः, ततः कालसमयाः स्तोका भवन्तीति। इह गाथाएत्तो सव्वपएसाऽणंतगुणा खप्पएसऽणंतत्ता। सव्वागासमणतं, जेण जिणिंदेहि पन्नत्तं / / 1 / / आह- समेऽणंतत्तम्मि खेत्तकालाण किं पुण निमित्तं ? | भणियं खमनंतगुणं, कालोऽयमणंतभागम्मि // 2 // भन्नइ नभसेढीए, अणाइयाए अपज्जवसियाए। निप्फज्जइ खम्मि घणो, न उ काले तेण सो थोवो // 3 // प्रदेशेभ्योऽनन्तगुणाः पर्याया इत्येतद्भावनार्थं गाथा - एत्तो य अणंतगुणा, पज्जाया जेण नहपएसम्मि। एक्कक्कम्मि अणंता, अगुरुलहू पञ्जवा भणिया।।१।। इति। भ० 25 श०३ उ० गतं जीवद्वारम्। (15) ज्ञानद्वारम्। ज्ञानिनामल्पबहुत्वम् - एएसि णं भंते ! जीवाणं आमिणिबोहियणाणीणं सुयणाणीणं ओहिणाणीणं मणपञ्जवणाणीणं के वलणाणीण य कयरे कयरेहिंतो अप्पा वा 4 ? गोयमा ! सव्वत्थोवा मणपज्जवनाणी, ओहिणाणी असं०, आमिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया, केवलनाणी अणंतगुणा। सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानामेवामर्षांषध्यादिऋद्धिप्राप्तानां मनःपर्यवज्ञानसंभवात् / तेभ्योऽसंख्येयगुणा अवधिज्ञानिनः, नैरयिकतिर्यक् पञ्चेन्द्रियमनुष्यदेवानामप्यवधिज्ञानसं भवात् / तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, संज्ञितिर्यक् पश्शेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाञ्चिदाभिनिबोधिकश्रुतज्ञानभावात् / स्वस्थाने तुल्येऽपिपरस्परंतुल्याः।“जत्थमइनाणं तत्थसुअनाणं, जत्थसुयनाणं तत्थ मइनाणं" इतिवचनात् / तेभ्यः केवल-ज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् / उक्तं हि ज्ञानि-नामल्पबहुत्वम्। इदानीं प्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाहएएसि णं भंते ! जीवाणं मइअण्णाणीणं सुयअण्णाणीणं विभंगनाणीण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा विभंगनाणी, मइअण्णाणी सुयअण्णाणी दोवि तुल्ला अणंतगुणा। सर्वस्तोका विभङ्ग ज्ञानिनः, कतिपयानामेव नैरयिकदेवतिर्यक् पञ्चेन्द्रियमनुष्याणां विभङ्गभावात् / तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपि मत्यज्ञानश्रुताज्ञान-भावात्। स्वस्थाने तुपरस्परंतुल्याः।"जत्थ मइअन्नाणं तत्थ सुयअन्नाणं, जत्थ सुयअन्नाणं तत्थ मइअन्नाणं" इति वचनात्। ___ संप्रत्युभयेषां ज्ञानाज्ञानिनामल्पबहुत्वमाहएएसिणं भंते ! जीवाणं आभिनिबोहियनाणीणं सुयणाणीणं ओहिणाणीणं मणपज्जवणाणीणं केवलणाणीणं मतिअण्णाणीणं सुयअन्नाणीणं विमंगनाणीणय कयरे कयरेहिंतो अप्पा व०४? गोयमा ! सव्वत्थोवा जीवा मणपज्जवणाणी, ओहिनाणी असंखिजगुणा, आमिनिबोहियनाणी सुयनाणी य दोवि तुल्ला विसेसाहिया, विभंगनाणी असंखेज०, केवलनाणी अणंतगुणा, मइअन्नाणी सुयअन्नाणी य दोवि तुल्ला अणंतगुणा। सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानामेवामाँषध्या दिऋद्धिप्राप्तानां मनःपर्यवज्ञानसंभवात् / तेभ्योऽसंख्येयगुणा अवधिज्ञानिनः, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वावपि परस्परं तुल्याः / अत्र भावना प्रागेवोक्ता / तेभ्योऽसंख्येयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगतौ निरयगतौ च सम्यग्दृष्टिभ्यो मिथ्यादृष्टयोऽसंख्येयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टयोऽवधिज्ञानिनो, मिथ्यादृष्टयो विभङ्ग ज्ञानिन इत्यसंख्येयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्। तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनश्चानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मत्यज्ञानिश्रुताज्ञानित्वात् / स्वस्थाने तु द्वावपि परस्परं तुल्याः / गतं ज्ञानद्वारम् / प्रज्ञा०३ पद / भ० जी०। कर्म०। इदानीं ज्योतिष्काणामल्पबहुत्वमाहएतेसि णं भंते ! चंदिमसूरिअगहणक्खत्ततारारूवाणं कयरे कयरेर्हितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! चंदिमसूरिआ दुवे तुल्ला सव्वत्थोवा, णक्खत्ता संखेजगुणा, गहा संखेनगुणा, तारारूवा संखेजगुणा। (एतेसि णमित्यादि) एतेषामनन्तरोक्तानां, प्रत्यक्षप्रमाण-गोचराणां वा, भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पाः स्तोकाः / वाऽत्र विकल्पसमुचयार्थे / कतरे कतरेभ्यो बहुका वा कतरेभ्यस्तुल्या वा, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया। कतरे कतरेभ्यो विशेषा वेति ? गौतम! चन्द्रसूर्या एतेद्वयेऽपि परस्परंतुल्याः , प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसंख्याकत्वात्। शेषेभ्यो ग्रहादिभ्यः सर्वेऽपिस्तोकाः, तेभ्यो नक्षत्राणि संख्येयगुणानि, अष्टाविंशतिगुणत्वात्। तेभ्योऽपि ग्रहाः संख्येयगुणाः, सातिरेकत्रिगुणत्वात् / तेभ्योऽपि तारारूपाणि संख्येयगुणानि, प्रभूतकोटाकोटिगुणत्वादिति / जं०७ वक्ष०। ज्ञानपर्यायाणामल्पबहुत्वम्। भ०८ श०२ उ०/"सव्वत्थोवा नाणी, अण्णाणी अणंतगुणा" / जी० 1 प्रति०। सस्थावरनोत्र सनोस्थावराणामल्पबहुत्वम् - "अप्पाबहुं सव्वत्थोवा तसा, णोतसा णोथावरा अणंतगुणा" जी०२ प्रति०। (निर्ग्रन्थानां पुलाकादीनामल्पबहुत्वं 'निगंथ' शब्दे वक्ष्यते) (16) दर्शनद्वारम्। दर्शनिनामल्पबहुत्वम् - एएसिणं भंते ! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओ हिदंसणीणं के वलदंसणीण य क यरे क यरे