________________ अप्पाबहुय(ग) 640. अभियानराजेन्द्रः - भाग 1 अप्याबहुय(ग) शरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः, किं पुनः कार्मणादिपुद्गलराशिसहिताः।तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकाः, तेभ्यो मिश्रपरिणताः अनन्तगुणाः, तेभ्योऽपि विस्रसापरिणता अनन्तगुणाः, त्रिविधा एव च पुद्गलाः सर्व एव भवन्ति! जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानांप्रतनुकेऽनन्तभागे वर्तन्ते यस्मादेवं तस्माजीवेभ्यः सकाशात् पुद्गलाः बहुभिरनन्ता-ऽनन्तकैगुणिताः सिद्धा इति। आह चजंजेण परिग्गहियं, तेयादिजिएण देहमेक्ककं / तत्तो तमणंतगुणं, पोग्गलपरिणामओ होइ // 1 // तेयाओ पुण कम्मग-मणंतगुणियंजओ विणिद्दिट्ट। एवं ता बद्घाई, तेयगकम्माइ जीवहिं / / 2 / / एत्तोऽणंतगुणाई, तेसिं चिय जाणि हों ति मुकाई। इह पुण थोक्त्ताओ, अग्गहणं सेसदेहाणं / / 3 / / जंतेसिं मुक्काई, पिहोंति सट्ठाणऽणंतभागम्मि। तेण तदगाहणमिहं, बद्धाबद्धाण दोण्हं पि॥४॥ इह पुणतेयसरीरग-बद्ध चिय पोग्गला अणंतगुणा। जीवेहिं तो किं पुण, सहिया अवसेसरासीहिं // 5 // थोवा भणिया सुत्ते, पन्नरसविहप्पओगयाओग्गा। तत्तो मीसपरिणया-ऽणंतगुणा पोग्गला भणिया |6|| ते वीससा परिणया, तत्तो भणिया अणंतसंगुणिया। एवं तिविहपरिणया, सव्वे वि य पोग्गलालोए|७|| जंजीवा सव्वे विय, एक्कम्मि पओगपरिणयाणं पि। वट्टति पोग्गलाणं, अणंतभागम्मि तणुयम्मि // 8 // बहुएहि अणताणं, तहिँ तेण गुणिया जिएहितो। सिद्धा भवंति सव्वे, वि पोग्गला सव्वलोगम्मि।।६।। ननुपुद्रलेभ्योऽनन्तगुणाः समया इति यदुक्तम्।तन्न संगतम्। तेभ्यस्तेषां स्तोकत्वात्। स्तोकत्वं च मनुष्यक्षेत्रमात्र-वर्तित्वात्समयानां, पुद्गलानां चसकललोकवर्तित्वादिति। अत्रोच्यते- समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति, तेषामेकैकस्मिन् साम्प्रतं समयो वर्तते / एवं च साम्प्रतं समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति, तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति। आह चहोंति य अणंतगुणिया, अद्धासमया उपोग्गलेहिंतो। नणु थोवा ते नरखेत्तमेत्तवत्तणाओ त्ति / / 1 / / भण्णइ समयक्खेत्तम्मि संतिजे केइ दव्वपज्जाया। वट्टइ संपयसमओ, तेसिंपत्तेयमेक्केवे // 2 एवं संपयसमओ, जं समयखेत्तपज्जवज्झत्थो। तेणाणता समया, भवंति एकसमयम्मि॥३॥ एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्याऽपि पर्यायाणामनन्तत्वात् / किं च / केवलमित्थं पुद्रलेभ्योऽप्यनन्तगुणाः समयाः सर्वलोकद्रव्यप्रदेशपर्यायभ्योऽप्यनन्तगुणास्ते संभवन्ति / तथाहि- यत्समस्तलोकद्रव्यप्रदेशपर्यवराशेः समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते। एतद्भावना चैवं किल-असद्भावकल्पनया लक्षणं लोकद्रव्यप्रदेशपर्यवाणांतस्य समयक्षेत्रद्रव्यप्रदेश-पर्यवराशिना कल्पनया सहस्रमानेन भागे हृते शतं लब्धम्, ततश्च किल तात्त्विकसमयशते गते लोकद्रव्यप्रदेशपर्यवसंख्या तुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसंख्या लभ्यते। समयक्षेत्राऽपेक्षया असंख्यातगुणलोकस्य कल्पनया शतगुणत्वात्। तथाऽन्येष्वपितावत्सुतात्त्विकसमयेषु / गतेषु तावन्त एवौपचारिकसमया भवन्तीत्येवमसंख्यातेषु कल्पनया शतमानेषु तात्त्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहस्रतमायां वेलायां गता भवन्ति / तात्त्विकसमया लोकद्रव्यप्रदेशपर्यवमात्राः कल्पनया लक्षप्रमाणाः, एवं चैकै कस्मिन् तात्त्विकसमयेऽनन्तानामौपचारिक-समयानां भावात् सर्वलोकद्रव्यप्रदेशपर्यवराशेरपि समया अनन्तगुणाः प्राप्नुवन्ति, किं पुनः पुद्गलेभ्यः? इति / यदाहजंसव्वलोगदव्वप्पएसपज्जवगणस्सभइयस्स। लब्भइ समयक्खेत्तप्पएसपज्जायपिंडेण / / 1 / / एवइसमएहिँ गएहिँ, लोगपज्जवसमा समयसंखा। लठभइ अन्नेहि पि य, तत्तियमेतहिं तावइया ||2|| एवमसंखेजेहिं, समएहिँ गतेहिंतो गयाहिं ति। समयाओ लोगदव्व-प्पएसपञ्जायमेत्ताओ॥३॥ इय सव्वलोगपज्जव-रासीओ वि समया अणंतगुणा। पावंति गणिजंता, किं पुण ता पोग्गलेहिंतो? ||4|| अन्यस्तु प्रेरयति- उत्कृष्टोऽपिषण्मासमात्रमेव सिद्धिगतेरन्तरं भवति, तेन च सेत्स्यद्भ्यः सिद्धेभ्योऽपि च जीवेभ्योऽसंख्यातगुणा एव समया भवन्ति / कथं पुनः ? सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति इहाऽप्यौपचारिकसमयापेक्षया समयानाभनन्तगुणत्वं वाच्यमिति। अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति कथम् ? अत्रोच्यते-यस्मात् सर्वे समयाः प्रत्येकं द्रव्याणि, शेषाणि चजीवपुद्गलधर्मास्तिकायादीनि, तेष्वेव क्षिप्तानीत्यतः के वलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानि भवन्ति, न संख्यातगुणादीनि, समयद्रव्याऽपेक्षया जीवादिद्रव्याणा-मल्पतरत्वादिति। उक्तं चएत्तो समएहितो, होति विसेसाहियाइँ दव्वाइं। जं भेया सव्वे चिय, समया दव्वाइ पत्तेयं / / 1 / / सेसाईंजीवपोग्गल-धम्माधम्मं वराइँ छूढाइं। दव्वट्ठयाएँ समएसुतेण दव्या विसेसहिया // 2 // नन्यद्धासमयानां कस्माद् द्रव्यत्वमेवेष्यते ? समयस्कन्धाऽपेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्। तथाहियथा स्कन्धो द्रव्यं सिद्ध, स्कन्धा पर्यवा अपि यथाप्रदेशाः सिद्धाः, एवं समयस्कन्धवर्तिनः समया भवन्ति, प्रदेशाश्च द्रव्यंचेति? अत्रोच्यतेपरमाणूनामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तम्, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नाऽस्ति / यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धभावे च वर्तमानाः प्रत्येकवृत्तय एव, तत्स्वभावत्वात् , तस्मात् तेऽन्योऽन्यनिरपेक्षाः, अन्योऽन्य-निरपेक्षत्याच,न ते वास्तवस्कन्धनिष्पादकाः, ततश्च तेषां प्रदेशार्थतेति। उक्तं चाऽत्र आह - अद्धासमयाणं किं, पुण दव्वट्ठएव नियमेण। तेसि पएसट्ठा विहु, जुज्जइ खंधं समासज्ज / / 1 / / सिद्धं खंधो दव्वं, तदवयवा वि य जहा पएस त्ति। इय तव्वत्ती समया, होतिपएसा यदव्वं च // 2 // भण्णइ परमाणूणं, अन्नोन्नमवेक्ख खंधया सिद्धा / अद्धासमयाणं पुण, अन्नोन्नावेक्खया नस्थि / / 3 / / अद्धासमया जम्मा, पत्ते पत्तेयखंधभावे य। पत्तेयवत्तिणो चिय, ते तेणऽन्नोऽन्ननिरवेक्खा ||4||