________________ अप्पाबहुय(ग) 639 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) समुदायगतं चतुर्थमेवम् - एएसिणं भंते ! पढमसमयणेरइयाणं अपढम-समयणेरइयाणं पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं अपढमसमयमणूसाणं पढमसमयदेवाणं अपढमसमयदेवाणं पढमसमयसिद्धाणं अपढमसमयसिद्धाणं कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा पढमसमयसिद्धा, पढमसमयमणूसा असंखेजगुणा, अपढमसमयमणूसा असं खिजगुणा, पढमसमयणे रइया असंखिजगुणा, पढमसमयदेवा असंखिजगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयणेरइया असंखिजगुणा, अपढमसमयदेवा असंखिजगुणा, अपढमसमयसिद्धा अणंतगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा। सर्वस्तोकाः प्रथमसमयसिद्धाः, तेभ्यः प्रथमसमयमनुष्या असंख्येयगुणाः, तेभ्योऽप्रथमसमयमनुष्या असंख्येयगुणाः, तेभ्यः प्रथमसमयनैरयिका असंख्येयगुणाः, तेभ्यः प्रथमसमय-देवा असंख्येयगुणाः, तेभ्यः प्रथमसमयतिर्यशोऽसंख्ये यगुणाः, तेभ्योऽप्रथमसमयनैरयिका अनन्तगुणाः,तेभ्योऽप्रथमसमयदेवा असंख्येयगुणाः तेभ्योऽप्रथमसमयसिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमयतिर्यञ्चोऽनन्तगुणाः। भावना सर्वत्रापि प्राग्वत् / नवरं सूत्रे संक्षेप इति। जी० 10 प्रतिः। संप्रति गुणस्थानकेष्वेव वर्तमानानां जन्तूनामल्पबहुत्वमाह(पण दो खीण दु जोगी,ऽणुदीरग अजोगि)थोव उवसंता। संखगुण खीण सुहुमाऽनियट्टिअपुव्व समा अहिय॥६॥ (थोव उवसंतत्ति) स्तोका उपशान्तमोहगुणस्थानवर्तिनो जीवाः, यतस्ते प्रतिपद्यमाना उत्कर्षतोऽपि चतुष्पञ्चाशत्प्रमाणा एव प्राप्यन्त इति / तेभ्यः सकाशात् क्षीणमोहाः संख्येयगुणाः यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते। एतचोत्कृष्टपदापेक्षयोक्तम् / अन्यथा कदाचिद् विपर्ययोऽपि द्रष्टव्यः / स्तोकाः क्षीणमोहाः, बहवस्तु तेभ्य उपशान्तमोहाः, तथा तेभ्यः क्षीणमोहेभ्यः सकाशात् सूक्ष्म-संपराया निवृत्तिबादरापूर्वकरणा विशेषाधिकाः, स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि समास्तुल्या इति // 6 // जोगि अपमत्त इतरे, संखगुणा देससासणा मीसा। अविरय अजोगि मिच्छा, असंख चउरो दुवेऽणंता // 63|| तेभ्यः सूक्ष्मादिभ्यः सयोगिके वलिनः संख्यातगुणाः, तेषां कोटिपृथक्त्वेन लभ्यमानत्वात् / तेभ्योऽप्रमत्ताः संख्येयगुणाः, कोटिसहस्रपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्य(इयरत्ति)अप्रमत्तप्रतियोगिनः प्रमत्ताः संख्येयगुणाः, प्रमादभावो हि बहूनां बहु-कालंच लभ्यते, विपर्ययेण स्वप्रमाद इति न यथोक्तसंख्याव्याघातः / (देसे त्यादि)देशविरतसास्वादन मिश्राऽविरत-लक्षणाश्चत्वारो यथोत्तरमसंख्येयगुणाः,अयोगिमिथ्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणौ, तत्र प्रमत्तेभ्यो देशविरता असंख्येयगुणाः, तिरश्चामप्यसंख्यातानां देशविरतिभावात्। सास्वादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा भवन्ति, तदा जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्यसंख्येयगुणाः, तेभ्यो मिश्रा असंख्येयगुणाः, सास्वादनाद्धाया उत्कर्षतोऽपि षडावलिकामात्रतया स्तोकात्वात् / मिश्राऽद्धायाः पुनरन्त-मुहूर्तप्रमाणतया प्रभूतत्वात् / तेभ्योऽप्यसंख्येयगुणाः अविरत-सम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभूततया सर्वकालसंभवात्। तेभ्योऽप्ययोगिकेवलिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः, साधारण-वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् / तेषां च मिथ्या-दृष्टित्वादिति / तदेवमभिहितं गुणस्थानवर्तिनां जीवानामल्पबहुत्वम्। कर्म०४ कर्म०। पं० सं०। (13) चरमद्वारम्। चरमाऽचरमाणामल्पबहुत्वम्एएसि णं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहिंतो अप्पा वा बहुया वा०? गोयमा ! सव्वत्थोवा जीवा अचरिमा, चरिमा अणंतगुणा। इह येषां चरिमोभवः संभवी योग्यतयाऽपितेचरमा उच्यन्ते।तेचाऽर्थाद् भव्याः, इतरेऽचरमा अभव्याः सिद्धाश्च, उभयेषामपि चरमाऽचरमभावात् / तत्र सर्वस्तोका अचरमाः, अभव्यानां सिद्धानांच समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात्। तेभ्योऽनन्तगुणाश्चरमाः, अजघन्योत्कृष्टानन्ता-ऽनन्तकपरिमाणत्वात् / गतं चरमद्वारम्। प्रज्ञा०३ पद। (रत्नप्रभादीनां चरमाचरमगतमल्पबहुत्वं, सातप्रदेशस्य सङ्घातप्रदेशावगाढस्य परिमण्डलादेश्वरमादिविषयमल्पबहुत्वंच 'चरम' शब्दे एव दर्शयिष्यते) (14) जीवद्वारम्। जीवपुगलसमयद्रव्यप्रदेशपर्यायाणामल्पबहुत्वम् - एएसिणं भंते ! जीवाणं पोग्गलाणं अद्धासमयाणं सव्वदव्वाणं सव्वपएसाणं सव्वपज्जवाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा, पोग्गला अणंतगुणा, अद्धासमया अणंतगुणा, सव्वदव्वा विसेसाहिया, सव्वपदेसा अणंतगुणा, सव्वपज्जवा अणंतगुणा / प्रज्ञा०३ पद। तदेवमर्थतःजीवा 1 पोग्गल 2 समया 3, दव्व४ पएसा य 5 पज्जवा 6 चेव / थोवाऽणंताऽणंता, विसेसअहिया दुवेऽणता ||1|| इह भावना- यतोजीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः। यदाहजं पोग्गलावबद्धा, जीवा पाएण होति तो थोवा।। जीवेहि विरहियाऽविरहिया व पुण पोग्गला संति / / 1 / / जीवेभ्योऽनन्तगुणाः पुद्गलाः / कथम् ? यत्तैजसादिशरीरं, येन जीवेन परिगृहीतं, तत्ततो जीवात्पुद्गलपरिणाममाश्रित्य अनन्तगुणं भवति, तथा- तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणम्, एवं च ते जीवप्रतिबद्धेऽनन्तगुणे जीवविमुक्ते च ते, ताभ्यामनन्तगुणे भवतः। शेषशरीरचिन्ता त्विहन कृता, यस्मात् तानि मुक्तान्यपि स्वे स्वे स्थाने तयोरमन्तभागे वर्तन्ते, तदेवमिह तैजस