________________ अप्पाबहुय(ग) 637 - अभियानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) सर्वस्तोका मानुष्यो मनुष्यस्त्रियः, संख्येयकोटाकोटिप्रमाणत्वात् 1, ताभ्यो मनुष्या असंख्येयगुणाः, इह मनुष्याः संमूर्च्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात् / ते च संमूच्र्छनजा वान्तादिषु नगरनि मनान्तेषु जायमाना असंख्येयाः प्राप्यन्ते 2, तेभ्यो नैरयिका असंख्येयगुणाः, मनुष्या ह्युत्कृष्टपदेऽपि श्रेण्यसंख्येय भागगतप्रदेशराशिप्रमाणा लभ्यन्ते / नैरयिकास्त्वगुलमात्रक्षेत्रप्रदेशराशिसत्कद्वितीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः, ततो भवन्त्यसंख्येय-गुणाः३, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसंख्येयगुणाः, प्रतराऽसंख्येयभागवर्त्य संख्येयश्रेणिनभःप्रदेशराशिप्रमाणत्वात् 4, ताभ्योऽपि देवा असंख्येयगुणाः, प्रतरासंख्येयभाग-वर्त्यसंख्येयश्रेणिगतप्रदेशराशिमानत्वात् 5, तेभ्योऽपि देव्यः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् 6, ताभ्योऽपि सिद्धा अनन्तगुणाः 7, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः / अत्र युक्तिः प्रागेवोक्ता 8 / प्रज्ञा०३ पद! अर्थतश्चैवं गाथानारी नर नेरइया, तिरित्थि सुर देवि सिद्ध तिरिया य। थोव असंखगुणा चउ, संखगुणाऽणंतगुण दोन्नि / / 2 / / भ 25 श०३ उ०। अथ(समासेन) प्रथमाऽप्रथमसमयविशेषणेन गतिष्वल्पबहुत्वम्। अप्पाबहु एते सि णं भंते ! पढमसमयणे रइयाणं० जाव पढमसमयदेवाणं कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयमणुस्सा, पढमसमयणेरइया असंखेजगुणा, पढमसमयदेवा असंखेजगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा / एते सिणं भंते ! अपढमसमयनेरइयाणं जाव० अपढमसमयदेवाणं कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा ! एवं चेव; नवरि अपढमस मयतिरिक्खजोणिया अणंतगुणा / एतेसिणं भंते ! पढमसमयनेरइयाणं अपढमसमयणेरइयाणं कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयणेरइया, अपढमसमयणेरइया असंखेनगुणा, एवं चेव तिरिक्खजोणिया, नवरं अपढम-समयतिरिक्खजोणिया अणंतगुणा / मणुयदेवाणं अप्पाबहुयं जहा नेरइया। एएसि णं भंते ! पढमसमयणे रइयाणं० जाव अपढमसमयतिरिक्खजोणियाण य कयरे कयरे-हिंतो० जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा पढमसमयमणुस्सा, अपढमसमयमणुस्सा असंखेजगुणा, पढमसमयणेरइया असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयणे रइया असंखेजगुणा, अपढमसमयदेवा असंखेज्जगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा। प्रश्नसूत्रं सुगमम्।भगवानाह- गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः , श्रेण्यसंख्येयभागमात्रत्वात् / तेभ्यः प्रथम-समयनै रयिका असंख्येयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसंभवात्। तेभ्यः प्रथमसमयदेवा असंखेयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पाद-संभवात् / तेभ्यः प्रथमसमयतिर्यचोऽसंख्येयगुणाः, इह येनारका-दिगतित्रयादागत्य तिर्यक्प्रथमसमये वर्तन्ते ते प्रथमसमयतिर्यचो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसंख्येयभागः सदा विग्रहगति प्रथमसमयवर्ती लभ्यते, तथापि निगोदानामपि तिर्यक्त्वात्, नते प्रथमसमयतिर्यञ्चः, एभ्यः संख्येयगुणा एव। साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानां परस्परमल्पबहुत्वमाह - एएसि णमित्यादि , प्रश्रसूत्रं सुगमम् / भगवानाह- गौतम ! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसंख्येयभागमात्रत्वात् / तेभ्योऽप्रथमसमयनैरयिका असंख्येयगुणाः, अगुलमात्र-क्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिः, तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशाः तावत्प्रमाणत्वात् / तेभ्योऽप्रथमसमयदेवा असंख्येयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूतत्वात् / तेभ्योऽप्रथमसमय-तिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् / साम्प्रत-मेतेषामेव नैरयिकादीनां प्रत्येक प्रथमसमयाऽप्रथमसमयगत-मल्पबहुत्वमाह- "एएसि णं भंते !" इत्यादि प्रश्रसूत्रं सुगमम् / भगवानाह- गौतम ! सर्वस्तोकाः प्रथमसमयनै रयिकाः, एकस्मिन् समये संख्याऽतीतानामपि स्तोकानामेवोत्पादात् / तेभ्योऽप्रथमसमयनैरयिका असंख्येयगुणाः, चिरकालावस्था-यिनां तेषामन्योऽन्योत्पादेनातिप्रभूतभावात् / एवं तिर्यग्योनिक-मनुष्यदेवसूत्राण्यपिवक्तव्यानि, नवरं तिर्यग्योनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, वनस्पतिजीवानामनन्तत्वात्। साम्प्रतमेतेषामेव प्रथमसमयाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह- "एएसि णमित्यादि' प्रश्न सूत्रं सुगमम्। भगवानाहगौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, एकस्मिन् समये संख्यातीतानामपि स्तोकानामेवोत्पादात्। तेभ्योऽप्रथम-समयमनुष्या असंख्येयगुणाः, चिरकालाऽवस्थायितया अतिप्राभूत्येन लभ्यमानत्वात् / तेभ्यः प्रथमसमयनैरयिका असंख्येयगुणाः, अतिप्रभूततराणामेकस्मिन्नपि समये उत्पादसंभवात् / तेभ्यः प्रथमसमयदे वा असंख्येयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये अतिप्राचुर्येण कदाचिदुत्पादात् / तेभ्यः प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः, नारकवर्जगतित्रयादप्युत्पादसंभवात् / तेभ्योऽप्रथमसमयनैरयिका असंख्येयगुणाः, अङ्गु लमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशाः तावत्प्रमाणत्वात्। तेभ्योऽप्रथमसमयदेवाः असंख्येयगुणाः, प्रतरासंख्येयभागवर्ति-श्रेण्याकाशप्रदेशराशि-प्रमाणत्वात् / तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पति-जीवानामनन्तत्वात्। जी०८ प्रति०। अत्र (व्यासेन) चत्वार्यल्पबहुत्वानि, तद्यथासिद्ध णं भंते ! सिद्धे त्ति कालतो केव चिरं होति? गोयमा! सादिए अपज्जवसिए। (जी०) तत्र प्रथममिदम् -- एएसि णं भंते ! पढमसमयने रइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणुस्साणं पढमसमयदेवाण य कयरे जाव विसे साहिया ? गोयमा ! सटवस्थोवा पढमसमयमणुस्सा, पढमसमयणे रइया असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिक्खिजोणिया असंखेजगुणा। सर्वस्तोकाः प्रथमसमयमनुष्याः / तेभ्यः प्रथमसमयनैरयिका असंख्येयगुणाः। तेभ्यः प्रथमसमयदेवा असंख्येयगुणाः। तेभ्यःप्रथम समयतिर्यग्योनिका असंख्येयगुणाः, नारकादिशेषगतित्रयादा