________________ अप्पाबडय(ग) 631- अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) तत्कालभेव नरकेषूत्पन्ने नारकायुष्कप्रतिसंवेदनात् / ते चेत्थंभूताः कतिपया इति सर्वस्तोकाः। अन्ये तुव्याचक्षते- नारका एव यथोक्तवापीषु तिर्यक्पोन्द्रियतयोत्पद्यमानाः समुद्यातवशतो विक्षिप्तनिजात्मप्रदेशदण्डाः परिगृह्यन्ते। ते हि किल तदा नारका एवं निर्विवादं तदायुष्कप्रतिसंवेदनात् त्रैलोक्यसंस्पर्शिनश्च यथोक्तवापीर्यावदात्मप्रदेशदण्डस्य विक्षिप्तत्वादिति 1, तेभ्योऽधो-लोकतिर्यग्लोकसंज्ञाः प्रागुक्तप्रतरद्वयस्य संस्पर्शिनोऽसंख्येय-गुणाः, यतो बहवोऽसंख्येयेषु द्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषूत्पद्यमाना यथोक्तप्रतरद्वयं स्पृशन्ति, ततो भवन्ति पूर्वोक्तेभ्योऽसंख्येयगुणाः, क्षेत्रस्यासंख्यातगुणत्वात् / मन्दरादि-क्षेत्रादसंख्येयद्वीपसमुद्रात्मकं क्षेत्रमसंख्येयगुणमित्यतो भवन्त्य-संख्येयगुणाः / अन्ये त्वभिदधति- नारका एवासंख्येयेषुद्वीप-समुद्रेषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्त-निजात्मप्रदेशदण्डा द्रष्टव्याः / ते हि नारकायुःप्रतिसंवेदना नारका उद्वर्तमाना अप्यसंख्येयाः प्राप्यन्ते, इति प्रागुक्तेभ्योऽसंख्येय-गुणाः२, तेभ्योऽधोलोकेऽसंख्येयगुणाः, तस्य तेषां स्वस्थानत्वात् 3 / उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाऽल्पबहुत्वम् / इदानी तिर्यग्गतिमधिकृल्याऽऽहखेत्ताणुवाएणं सव्वत्थोवा तिरिक्खजोणिया उड्डलोयतिरियलोए, अहो लोयतिरियलोए विसे साहिया, तिरियलोए असंखेज्जगुणा, तेलुक्के असंखेजगुणा, उड्डलोए असंखिजगुणा, अहोलोए विसेसाहिया। इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयम्। तदपि तिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम्। अधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाहखेत्ताणुवाएणं सव्वत्थोवा तिरिक्खजोणिणीओ, उडलोयतिरियलोए असंखेज्ज०, तेलुक्के संखेज०,अहोलोयतिरियलोए संखिजगुणाओ, अहोलोए संखेनगुणाओ, तिरियलोए संखिज्जगुणाओ। क्षेत्रानुपातेन तिर्यग्योनिकाः स्त्रियश्चिन्त्यमानाः सर्वस्तोका ऊर्ध्वलोके, इह मन्दरादिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्यो निकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याऽल्पत्वात् सर्वस्तोकाः 1, ताभ्यऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्तमाना असंख्येय-गुणाः / कथमिति चेत् ? उच्यतेयावत्सहस्रारदेवलोकस्तावद् देवा अपि गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रिययोनिषूत्पद्यन्ते, किं पुनः शेषकायाः ? ते हि यथासंभवमुपरिवर्तिनोऽपि तत्रोत्पद्यन्ते; ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्ध्वलोकात् तिर्यपञ्चेन्द्रियस्त्रीत्वेन तदायुःप्रतिसंवेदयमाना उत्पद्यन्ते, याः तिर्यग्लोकवर्तिन्यस्तिर्यक्प-चेन्द्रियस्त्रिय ऊर्ध्वलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुद्घातेनोत्पत्तिदेशे निजनिजात्मकप्रदेशदण्डान् विक्षिपन्ति, ता यथोक्तप्रतरद्वयं स्पृशन्ति। तिर्यग्यो निकाः स्त्रियश्च ताः, ततोऽसंख्येयगुणाः, क्षेत्रस्याऽसंख्येयगुणत्वात् 2 / ताभ्यस्त्रैलोक्ये संख्येयगुणाः यस्मादधोलोकाद्भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्ध्वलोकेऽपि तिर्यक्पञ्चेन्द्रिय-स्त्रीत्वेनोत्पद्यन्ते / ऊर्ध्वलोकाद् देवादयोऽप्यधोलोके च ते समवहता निजनिजात्म- | प्रदेशदण्डैस्त्रीनपि लोकान् स्पृशन्ति / प्रभूताश्च ते तथा तिर्यग्योनिक स्त्र्यायुःप्रतिसंवेदनात्। तिर्यग्योनिकाः स्त्रियश्च, ततः संख्येयगुणाः३।। ताभ्योऽधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्तमानाः संख्येयगुणाः, बहवो हि नारकादयः समुद्घातमन्तरेणाऽपि तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते / तिर्यग्लोकवर्तिनश्च जीवास्तिर्यग्योनिकस्त्रीत्वेनाऽधोलौकिकग्रामेष्वपि च, ते च तथोत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति। तिर्यग्योनिक-स्त्र्यायुःप्रतिसंवेदनाच तिर्यग्योनिकास्त्रियोऽपि, तथाऽधोलौकिकग्रामा योजनसहस्रावगाहाः पर्यन्तेऽर्वाक् क्वचित्प्रदेशेनवयोजनशतावगाहा अपितत्र काश्चित् तिर्यग्योनिकस्त्रियोऽवस्थानेनाऽपि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते, ततो भवन्ति पूर्वोक्ताभ्यः संख्येयगुणाः 4, ताभ्योऽधोलोके संख्येयगुणाः, यतोऽधोलौकिकग्रामाः सर्वेऽपि च समुद्रा योजनसहस्राऽवगाहाः, ततो नवयोजनशतानामधस्ताद् या वर्तन्ते मत्स्यीप्रभृतिका: तिर्यग्योनिकस्त्रियस्ताः स्वस्थानत्वात् प्रभूता इति संख्येयगुणाः, क्षेत्रस्य संख्येयगुणत्वात् / ताभ्यस्तिर्यग्लोके संख्येयगुणाः 5 / उक्तं तिर्यग्गतिमप्यधिकृत्याऽल्पबहुत्वम्। इदानीं मनुष्यगतिविषयमाहखेत्ताणुवाएणं सव्वत्थोवा मणुस्सा तेलु के, उनलोयतिरियलोए असंखेनगुणा, अहो लोयतिरियलोए संखिज्जगुणा, अहोलोएसंखेज्जगुणा, तिरियलोए संखिजगुणा। क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानाः त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्ध्वलोकादधोलौकिकग्रामेषु समुत्पि-त्सवो मारणान्तिक समुद्घातेन समवहता भवन्ति, ते के चित्समुद्घातवशागहिर्निर्गतैः स्वात्मप्रदेशैस्त्रीनपि लोकान् स्पृशन्ति, येऽपि च वैक्रियसमुद्घातमाहारकसमुद्घातं वा गताः तथाविधप्रयत्न-विशेषाद् दूरतरमूर्ध्वाऽधोविक्षिप्तात्मप्रदेशाः, ये च केवलसमु-द्घातगतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति / स्तोकाश्चेति सर्व-स्तोकाः१, तेभ्य ऊर्ध्वलोकतिर्यग्लोके ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वयसंस्पर्शिनोऽसंख्येयगुणाः, यत इह वैमानिकदेवाः शेषकायाश्च यथासंभवमूर्ध्वलोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनी भवन्ति / विद्याधराणा-मपि च मन्दरादिषु गमनं, तेषां च शुक्ररुधिरादिपुद्गले संमूर्छिम-मनुष्याणामुत्पाद इति, ते विद्याधरा रुधिरादिपुद्गलसंमिश्रा अवगच्छन्ति / तथा संमूर्छिममनुष्या अपि यथोक्तप्रतर-द्वयस्पर्शवन्त उपजायन्ते, ते चाऽतिबहव इत्यसंख्येयगुणाः। तेभ्योऽधोलोकतिर्यग्लो के अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वयेऽसंख्येयगुणाः,यतोऽधोलौकिकग्रामेषु स्वभावत एव बहवो मनुष्याः, ततो ये तिर्यग्लोकान्मनुष्येभ्यः शेषकायेभ्यो वा-धोलौकिकग्रामेषु गर्भव्युत्क्रान्तिकमनुष्यत्वेन संमूर्छिम-मनुष्यत्वेन वा समुत्पित्सवो ये चाऽधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्यो वा तिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेन वा संमूर्छिममनुष्यत्वेन वा समुत्पत्तुकामास्ते यथोक्तं किल प्रतरद्वयं स्पृशन्ति, बहुतराश्च ते तथा स्वस्थानतोऽपि केचिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वय-स्पर्शिन इति प्रागुक्तेभ्योऽसंख्येयगुणाः३, तेभ्य ऊर्ध्वलोके ऽसंख्येयगुणाः सौमनसादिषु क्रीडार्थ चैत्यवन्दननिमित्तं वा प्रभूततराणां विद्याधरचारणमुनीनां भावात्। तेषां च यथायोगं रुधिरादिपुद्गलयोगतः संमूर्छि ममनुष्यसंभवात् 4, तेभ्योऽधोलोके संख्येयगुणाः, स्वस्थानत्वेन बहुत्वभावात्। तेभ्य-स्तिर्यग्लोके संख्येयगुणाः, क्षेत्रस्य संख्येयगुणत्वात् स्वस्थानत्वाच !