________________ अप्याबहुय(ग) 632- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाहखेत्ताणुवाएणं सव्वत्थोवाओ माणुस्सीओ तेलु के, उड्डलोयतिरियलोए संखेज्जगुणाओ, अहोलोयतिरियलोए संखेजगुणाओ, उडलोए संखेजगुणाओ, अहोलोए संखेज्ज०, तिरियलोए संखेज। क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वस्तोकास्त्रैलोक्यस्पर्शिन्य ऊर्ध्वलोकादधोलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशविनिर्गतदूरतरात्मप्रदेशानामथवा वैक्रि यसमुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्यसंस्पर्शिन्यः, तासां चाऽतिस्तोकत्वमिति सर्वस्तोकाः 1, ताभ्य ऊर्ध्वलोकतिर्यग्लो के ऊर्ध्वलोकतिर्यग्लोक संज्ञे प्रतरद्वये संख्येयगुणाः, वैमानिकदेवानां शेषकायाणां चोर्ध्वलोकात्तिर्यग्लोके मनुष्यस्त्रीत्येनोत्पद्य-मानानां तथा तिर्यग्लोकगतमनुष्यस्त्रीणामूर्ध्वलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशाद् दूरतरमूर्ध्वविक्षिप्तात्मप्रदेशाना-मद्यापि कालमकुर्वतीनां यथोक्तप्रतरद्वयसंस्पर्शनभावात्, तासां चोभयासामपि बहुतरत्वात् / ताभ्योऽधोलोकतिर्यग्लोके प्रागुक्तस्वरूपप्रतरद्वयरूपे संख्येयगुणाः, तिर्यग्लोकात् मनुष्यस्त्रीभ्यः शेषेभ्यो वाऽधो-लौकिकग्रामेषु यदि वाऽधोलौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्यस्त्रीत्वेनोत्पित्सूनां / कासाञ्चिदधोलौकिकग्रामेष्वव-स्थानतोऽपि यथोक्तप्रतरद्वयसंस्पर्शसम्भवात्, तासां च प्रागुक्ताभ्योऽतिबहुत्वात् 3, ताभ्योऽप्यूर्ध्वलोके संख्येयगुणाः, क्रीडार्थ चैत्यवन्दनानिमत्तिं वा सौमनसादिषु प्रभूततराणां विद्याधरीणां संभवात् 4, ताभ्योऽपि अधोलोके संख्येयगुणाः, स्वस्थानत्वेन तत्रापि बहुतराणां भावात् 5, ताभ्यस्तिर्यग्लोके संख्येयगुणाः, क्षेत्रस्यासंख्येयगुणत्वात्, स्वस्थानत्वाच 6, गतं मनुष्यगतिमधिकृत्याऽल्पबहुत्वम्। इदानीं देवगतिमधिकृत्याऽऽहखेत्ताणुवाएणं सव्वत्थोवा देवा उडलोए, उडलोयतिरियलोए असंखेजगुणा, तेलुक्के असंखेजगुणा, अहोलोए तिरियलोए / असंखेन्ज / अहोलोए संखि-जगुणाओ, तिरियलोए संखिज्जगुणाओ। क्षेत्रानुपातेन चिन्त्यमाना देवाः सर्वस्तोकाः, ऊर्ध्वलोके वैमानिकानामेव तत्र भावात, तेषां चाऽल्पत्वात्। येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहादौ मन्दरादिषु गच्छन्ति, तेऽपि स्वल्पा एवेति सर्वस्तोकाः 1, तेभ्य ऊर्ध्वलोकतिर्यग्लोके ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये असंख्येयगुणाः, तद्धि ज्योतिष्काणां प्रत्यासन्नमिति स्वस्थानम्। तथा भवनपतिव्यन्तर-ज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः स्वस्थानगमागमेन, था ये सौधर्मादिषु देवत्वेनोत्पित्सवो देवायुःप्रतिसंवेद्यमानाः स्वोत्पत्तिदेशमभिगच्छन्ति, यथोक्तप्रतरद्वयं स्पृशन्ति। ततः सामस्त्येन यथोक्तप्रतरद्वयसंस्पर्शिनः परिभाव्यमाना अतिबहव इति पूर्वोक्तेभ्योऽसंख्येयगुणाः२। तेभ्यस्वैलोक्यसंस्पर्शिनः संख्येयगुणाः / ततो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवास्तथाविधप्रयत्नविशेषवशतो वैक्रि यसमुद्घातेन समवहता सन्तस्त्रीनपि लोकान् स्पृशन्ति, ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः संख्येयगुणाः, केवलवेदसोपलभ्यन्त इति संख्येयगुणाः३, तेभ्योऽधोलोक-तिर्यग्लोके अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्तमानाः संख्येय-गुणाः / तद्धिप्रतरद्धिकं भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया स्वस्थानं, तथा बहवो भवनपतयः स्वभावस्थास्तिर्यग्लोक- गमागमेन तथोद्वर्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्तिनस्तिर्यक्पश्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्य-माना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिबहव इति संख्येयगुणाः 4, तेभ्योऽधोलोके संख्येयगुणाः, भवनपतीनां स्वस्थानमिति कृत्वा 5, तेभ्यस्तिर्यग्लोके संख्येयगुणाः, ज्योतिष्कव्यन्तराणां स्वस्थानत्वात् 6 / अधुना देवीरधिकृत्याऽल्पबहुत्वमाहखेत्ताणुवाएणं सवत्थोवाओ देवीओ उडलोए , उडलोयतिरियलोए असंखेनगुणाओ, तेलुक्के संखेज्जगुणाओ, अहोलोयतिरियलोए असंखे जगुणाओ, अहोलोए संखेज्जगुणाओ, तिरियलोए संखिजगुणाओ। सर्वं देवसूत्रमिवाऽविशेषेण भावनीयम्। तदेवमुक्तं देवविषयमौधिकमल्पबहुत्वम्। इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह खेत्ताणुवाएणं सव्वत्थोवा भवणवासी देवा उड्डलोए, उडलोयतिरियलोए असंखेज्जगुणाओ, तेलुक्के संखिज्जगुणा, अहोलोयतिरियलोए असंखेजगुणा, तिरियलोए असंखिज्जगुणा, अहोलोए असंखेज०। खेत्ताणुवाएणं सव्वत्थोवा भवणवासिणीओ देवीओ उडलोए, तिरिलोए असं खि०, तेलुक्के संखेजगुणाओ, अहोलोए तिरियलोए असंखेज०, तिरियलोए असंखिज्ज० अहोलोए असंखिज्ज०॥ क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोकाः ऊर्ध्वलोके, तथाहि- केषाञ्चित् सौधर्मादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति / केषाञ्चिन्मन्दरे तीर्थकर-जन्ममहिमानिमित्तम्, अञ्जनदधिमुखेऽष्टका(अष्टाह्रिका) निमित्तम्, अपरेषां मन्दिरादिषु क्रीडानिमित्तं गमनम् / एते च सर्वे-ऽपि स्वल्पा इति सर्वस्तोकाः 1, ऊर्ध्वलोके तेभ्य ऊर्ध्व-लोकतिर्यग्लोकसंज्ञे प्रतरद्वयेऽसंख्येयगुणाः, कथमिति चेत् ? उच्यते- इह हि तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्ध्वलोकतिर्यग्लोकं च स्पृशन्ति / यथा ते तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहताऊर्ध्वलोके सौधर्मादिषुदेवलोकेषु बादरपर्याप्तपृथिवीकायिकतया बादरपर्याप्ताऽप्रकायिकतयाबादरपर्याप्तप्रत्येकवनस्पतिकायिकतया च शुभेषु मणिविधानादिषु स्थानेषूत्पतुकामा अद्याऽपि स्वभवा-ऽऽयुःप्रतिसंवेदयमाना न पारभाविक पृथिवीकायिकाद्यायुः। द्विविधा हिमारणान्तिकसमुद्घातेन समवहताः केचित् पारभाविकमायुः प्रतिसंवेदयन्ते, केचिन्नेति / तथा चोक्तं प्रज्ञप्तौ - "जीवे णं भंते ! मारणंतिगसमुग्घाएणं सम्मोहएसम्मोह-णित्ता जे भविए मंदरस्स पव्वयस्स पुरच्छिमेणं बायरपुढविकाइय-ताए उववजित्तए, सेणं भंते! किं तत्थ गए उववज्जेज्जा, उयाहुपडिनियत्तेत्ता उववज्जइ ? गोयमा ! अत्थेगइए तत्थ गए चेव उववज्जइ, अत्थेगइए तओ पडिनियत्तित्ता, दोच्चं पि