________________ अप्पाबहुय(ग) 630 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) संख्येयगुणाः सूक्ष्मेष्वोघतोऽपर्याप्तभ्यः पर्याप्तानां संख्येयगुणत्वात् / ततः सूक्ष्मापर्याप्तेभ्योऽप्यसंख्येयगुणाः, विशेषाधिकत्वस्य संख्येयगुणत्वबाधनायोगात् 32 / तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीन नपि तत्र प्रक्षेपात् 33 / ततः सामान्यतः सूक्ष्माः पर्याप्तापर्याप्तविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् 34 / गतं सूक्ष्मबादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गतौ समर्थितानि पञ्चदशाऽपि सूत्राणि / इति गतं कायद्वारम्। प्रज्ञा०३ पदानोसूक्ष्मनोबादरबादराणामल्पबहुत्वम्।जी० 3 प्रति०। (आरम्भिक्यादिक्रियाणामल्पबहुत्वं 'किरिया' शब्दे वक्ष्यते) (11) क्षेत्रद्वारम् कस्मिन् क्षेत्रे जीवाः स्तोकाः कस्मिन् वा बहवः ? इति चिन्त्यन्तेखित्ताणुवाएणं सव्वत्थोवा जीवा उडलोयतिरियलोए, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखिज्जगुणा, तेलुके असंखेजगुणा, उड्डलोए असंखेजगुणा, अहोलोहे विसेसाहिया। क्षेत्रस्यानुपातोऽनुसारः क्षेत्रानुपातस्तेन, विचिन्त्यमाना जीवाः सर्वस्तोका ऊर्ध्वलोकतिर्यग्लोके , इह ऊर्ध्वलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं, यच्च सर्वतिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष ऊर्ध्वलोकप्रतरः, तथा प्रवचने प्रसिद्धेः / इयमत्र भावनाइह सामस्त्येन चतुर्दशरज्ज्वात्मको लोकः। स च त्रिधा भिद्यते। तद्यथाऊर्ध्वलोकः, तिर्यग्लोकः, अधोलोकश्च। रुचकाश्चैतेषां विभागः। तथाहि रुचकस्याधस्तान्नवयोजनशतानि, रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः, तिर्यग्लोक-स्याधस्तादधोलोकः, उपरिष्टादूर्ध्वलोकः, देशोनसप्तरप्रमाण ऊर्ध्वलोकः, समधिकसप्तरज्जुप्रमाणोऽधोलोको, मध्येऽष्टादश-योजनशतोच्छ्रयस्तिर्यग्लोकः। तत्ररुचकसमानाद्भूतलभागान्नवयोजनशतानि गत्वा यज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसंबन्धि एकप्रादेशिकमाकाशप्रतरं, तत् तिर्यग्लोकप्रतरम्। तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरं, तदूर्ध्वलोकप्रतरम् / एते च द्वे अप्यूर्वलोकतिर्यग्लोके इति व्यवहियेते / तथाऽनादिप्रवचनपरिभाषाप्रसिद्धः / तत्र वर्तमाना जीवाः सर्वस्तोकाः / कथम् ? इति चेत् / उच्यते- इह ये ऊर्ध्वलोकात् तिर्यग्लोके तिर्यग्लोकादूर्ध्वलोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति, ये च तत्रस्था एव केचन तत्प्रतरद्वयाध्यासिनो वर्तन्ते, ते किल विवक्षिते प्रतरद्वये वर्तन्ते नाऽन्ये; ये पुनरूज़लोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति, तेन गण्यन्ते, तेषां सूत्रान्तरविषयत्वात् / ततः स्तोका एवाधिकृतप्रतरद्वयवर्तिनोजीवाः। ननू लोकगतानामपि सर्वजीवानामसंख्येयभागोऽनवरतं म्रियमाणोऽवाप्यते, ते च तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयस्पर्शिनः स्तोकाः? तदयुक्तम्, वस्तुतत्त्वापरिज्ञानात् / तथाहि- यद्यपि नाम उर्ध्वलोकगतानां सर्वजीवलोकानामसंख्येयो भागोऽनवरतं म्रियमाणोऽवाप्यते, तथापि नते सर्व एव तिर्यग्लोके समुत्पद्यन्ते, प्रभूततराणामधोलोके ऊर्ध्वलोके च समुत्पादात्। ततोऽधिकृतप्रतरद्वयंवर्तिनः सर्वस्तोका एव / / 1 / / तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः / इह यदधोलोकस्योपरितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं, यच्च तिर्यग्लोकस्य सर्वाधस्तन मेकप्रादेशिकमाकाशप्रदेशप्रतरमेतद्वयमप्य-धोलोकतिर्यग्लोक इत्युच्यते,तथा प्रवचनप्रसिद्धः। तत्रये विग्रहगत्या तत्रस्थतया वावर्तन्ते ते विशेषाधिकाः / कथमिति चेत् ? उच्यते- इह ये अधोलोकात्तिर्यग्लोके तिर्यग्लोकादा-ऽधोलोके ईलिकागत्या समुत्पद्यमाना अधिकृतं प्रतरद्वयं स्पृशन्ति; ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्तन्ते, ते विवक्षित-प्रतरद्वयवर्तिनः, ये पुनरधोलोकादूर्ध्वलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति, ते न परिगृह्यन्ते, तेषां सूत्रान्तरविषयत्वात्। केवलमूर्ध्वलोकादधोलोको विशेषाधिकः, इत्यधोलोकात्तिर्य-लोके ईलिकागत्या समुत्पद्यमाना ऊर्ध्वलोकापेक्षया विशेषाधिका अवाप्यन्ते; ततो विशेषाधिकाः 2, तेभ्यस्तिर्यग्लोकवर्तिनोऽसंख्येयगुणाः, उक्तक्षेत्रद्विकात्तिर्यग्लोके क्षेत्रस्यासंख्येयगुणत्वात् 3 / तेभ्यस्त्रैलोक्ये त्रिलोकसंस्पर्शिनोऽसंख्येगुणाः, इह ये केवलेऊयलोके अधोलोके तिर्यग्लोके वा वर्तन्ते, येच विग्रहगत्या ऊर्ध्वलोकतिर्यग्लोको स्पृशन्ति, ते न गण्यन्ते, किन्तु ये विग्रहगत्यापन्नास्त्रीनपि लोकान् स्पृशन्ति, ते परिगृह्याः, सूत्रस्य विशेषविषयत्वात् / ते च तिर्यग्लोकयर्तिभ्योऽसंख्येयगुणा एव / कथमिति चेत् ?, उच्यते- इह बहवः प्रतिसमयमूर्ध्वलोके अधोलोके च सूक्ष्मनिगोदा उद्वर्तन्ते, ये तु तिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा उद्वर्तन्ते, तेऽर्थादधोलोके ऊर्यलोके वा के चित्तस्मिन्नेव वा तिर्यग्लोके समुत्पद्यन्ते, ततो न ते लोकत्रयसंस्पर्शिन इति नाधिकृतसूत्रविषयाः / तत्रोललोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्तमानानां मध्ये केचित्स्वस्थान एव ऊर्द्धलोके अधोलो के वा समुत्पद्यन्ते, के चित् तिर्यग्लो के, तेभ्योऽसंख्येयगुणा अधोलोकगता ऊर्ध्वलोके, ऊर्ध्वलोकगता अधोलोके समुत्पद्यन्ते / ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्यसंख्येयगुणाः / कथं पुनरेतदवसीयते, यदुत एवंप्रमाणा बहवो जीवाः सदा विग्रहगत्यापन्ना लभ्यन्ते? इति चेत्, उच्यते-युक्तिवशात्। तथाहि- प्रागुक्तमिदमत्रैव सूत्र पर्याप्तिद्वारे - "सव्वत्थोवा जीवा नोपज्जत्ता नोअपजत्ता, अपज्जत्ता अनंतगुणा, पज्जत्ता संखेज्जगुणा" इति / तत एवंनामापर्याप्ताः बहवो ये नैतेभ्यः पर्याप्ताः संख्येयगुणा एव नासंख्येयगुणाः; नाप्यनन्तगुणास्ते चापर्याप्ता बहवोऽन्तरगतौ वर्तमाना लभ्यन्ते, इति / तेभ्य ऊर्ध्वलोके ऊर्ध्वलोकावस्थिता असंख्येयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात् / असंख्येयानां च भागानामुद्वर्तनायाश्च संभवात् 5, तेभ्योऽधोलोकेऽधोलोकवर्तिनो विशेषाधिकाः, ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्वात् 6 / तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तम्। इदानीं चतुर्गतिदण्डकक्रमेण तदभिधित्सुः प्रथमतो नैरयिकाणामाह खेत्ताणुवाएणं सव्वत्थोवा नेरइया तेल्लुक्के, अहोलोगतिरियलोगे असंखेजगुणा, अहोलोए असंखेजगुणा। क्षेत्रानुपातेन क्षेत्रानुसारेण नैरयिका श्चिन्त्यमानाः सर्वस्तोकाः त्रैलोक्ये लोकत्रयसंस्पर्शिनः / कथं लोक त्रयसंस्पर्शिनो नैरयिकाः? कथं वा ते सर्वस्तोकाः? इति चेत्, उच्यते- इह ये मेरुशिखरे अञ्जनदधिमुख-पर्वतशिखरादिषु वा वापीषु वर्तमाना मत्स्यादयो नारके षूत्पित्सव ईलिकागत्या प्रदेशान् विक्षिपन्ति, ते किल त्रैलोक्यमपि स्पृशन्ति, नारक व्यपदेशं च लभन्ते,