SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ अपुणबंधय 609 - अभिधानराजेन्द्रः - भाग 1 . अपुणबंधय ऊहते वितर्कयति, अयमपुनर्बन्धकः, अतो विशिष्टमति-सांगत्यात् प्रायो बाहुल्येन / कथम् ?, इत्याह- भवबीजादिगोचरं भवबीजं भवकारणम्; आदिशब्दाद्भवस्वरूपं भवफलं च गृह्यते। यथा- "एस णं अणाइजीवे अणाइजीवस्स भवे अणाइ-कम्भसंयोगनिव्वत्तिए. दुक्खरूवे दुक्खफले दुक्खाणुबंधित्ति' ततो भवबीजादिगोचरो यत्र तत्तथा, क्रियाविशेषणमेतत् / अथवा भवबीजादिगोचरो विषय ऊहनीयतया भवबीजादिगोचरस्तम् / अत्र दृष्टान्तः- कान्तादिगतगेयादि / कान्ता वल्लभा, आदिशब्दा-त्तदन्यगायनादिग्रहः / तद्गतं तत्प्रतिबद्धं यद् गेयं गीतम, आदि-शब्दादूपरसादिशेषेन्द्रियविषयग्रहः / तथा तत्प्रकारो गेयाचूह-योग्यो भोगी, स इव सुन्दरं मनोहारीन्द्रियविषयस्थानमागतमिति / यथा विचक्षणो भोगी सुन्दरं कान्तादिगतगेयादि ऊहते, तथा-ऽयं भवबीजादिकमिति भावः। यथोहते तथैवाऽऽहप्रकृतेर्भेदयोगेन, नासमो नाम आत्मनः। हेत्वमेदादिदं, चारु,न्यायमुद्राऽनुसारतः // 165 / / प्रकृतेः परपरिकल्पितायाः सत्त्वरजस्तमोरूपायाः, स्व-प्रक्रियायाश्च ज्ञानावरणादिलक्षणायाः, भेदयोगेनैकान्तेनैव भेदेनेत्यर्थः। न नैवासमो विसदृशो, नामः परिणामश्चैतन्यश्रद्धा-नोन्मीलनादिकः प्रत्यक्षत एवोपलभ्यमानः, आत्मनो जीवस्य स्यात, किन्तु सर्वजीवानां सर्वदैव सम एव प्राप्नोति / कु तः?, इत्याह-हेत्वभेदात् / हेतोः प्रकृतिभेदलक्षणस्याभेदाद् नानात्वात् / नाभिन्ने हेतौ क्वचिदपि फलभेद उपपद्यत इति कृत्वा इदमनेकान्तेनैव प्रकृतिभेद आत्मनः परिणामवैसदृश्या-साङ्गत्यलक्षणं वस्तु चारु संगतं वर्तते / कुतः ? इत्याह-न्याय- मुद्राऽनुसारतः, न्यायस्य मुद्रा कृतप्रयत्नैरपि परैरनुल्लङ्घनीयत्वाद् राजादिमुद्रावत, तस्या अनुसारतोऽनुवर्तनात्। तथाहि-यदि प्रकृतिभेदे सत्यपि परिणामनानात्वमात्मन इष्यते, तदा मुक्तानामपि प्राप्नोति, संसारिणां मुक्तानामपि च प्रकृतिभेदाविशेषात्। एवं च सर्वस्तद्योगा-दयमात्मा तथा तथा। भवे भवेदतः सर्व-प्राप्तिरस्याविरोधिनी / / 166|| एवं च प्रकृतिभेद आत्मनः परिणामनानात्वसाङ्गत्ये सति पुनः किं स्यादित्याह-सर्वः निरवशेषः, तद्योगात्प्रकृतिसंयोगात्कथञ्चिदैक्यापत्तिलक्षणात्, अयम् -अपुनर्बन्धकाद्यवस्थाभाग आत्मा जीवः, तथा तथा नरनारकादिपर्यायभाक्त्वेन भवे संसारे, भवेत्स्यात्। अतस्तथा तथा भवनात् सर्वप्राप्तिः संसारापवर्गावस्थालाभरूपाऽस्यात्मनोऽविरोधिनी अविघटमाना संपद्यते / प्रकृतियोगात्तस्य संसारावस्था, / विप्रयोगाच मुक्तावस्थेति भावः। सांसिद्धिकमलाद् यदा, न हेतोरस्ति सिद्धता। तद्विघ्नं यदभेदेऽपि, तत्कालादिविभेदतः // 197|| सांसिद्धिकमलात्कर्मबन्धयोग्यतालक्षणादनादिस्वभावात्, सांसिद्धिकमलं परिहत्येत्यर्थः। यद्वेति ऊहस्यैव पक्षान्तरसूचकः। 'न' नैव, हेतोरन्यस्येश्वरानुग्रहादेः परिणामचित्रतायां साध्यायां सिद्धता प्रमाणप्रतिष्ठिता। ईश्वरो हि अप्रतिस्खलितवैराग्यवान्। यतः पठ्यते"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सह सिद्ध चतुष्टयम्' ||1|| ततः कथमसौ कञ्च-नानुगृह्णीयान्निगृह्णीयाद्वा ? किञ्चासौ योग्यतामपेक्ष्य प्रवर्तते, इतरथा वेति द्वयी गतिः। किं चातः ? यदि प्रथमः पक्षः, तदा सैव योग्यता हेतुः किमीश्वरानुग्रहनिग्रहाभ्याम् ? अथेतरथा, तदा सार्वत्रि-कावेवानुग्रहनिग्रहौ स्यातां, न तु विभागेन, न वा क्वचित्, निमित्ताभावात्। यतः पठ्यतेनित्यं सत्त्वमसत्वं वा, हेतोरन्यानपेक्षणात्।। अपेक्षातो हि भावानां,कादाचित्कत्वसंभवः / / 1 / / इति / / सां सिद्धिकमलमेवात्मनां परिणामवैचित्र्यहेतुरत्र हेतुः / तत्सांसिद्धिकमलं, भिन्नं नानारूपम्, यद्यस्मात्कारणात् अभेदेऽपि कथश्चित्सामान्यरूपतया / एतदपि कुतः ? इत्याह- तत्कालादिविभेदतः ते शास्त्रान्तरप्रसिद्धा ये कालादयः कालस्वभावनियतिपूर्वकृतपुरुषकारलक्षणा हेतवः सर्वजगत्कार्यजनकाः, तेषां विभेदतो वैसदृश्यात् / इदमुक्तं भवतिकाला-दिभेदात्तत्सांसिद्धिकं मलमात्मना सह भेदाभेदवृत्ति सद्यो नानावृत्तं रूपं वर्तते, ततस्तद्वशादेव परिणामवैचित्र्यमात्म-नामनुपचरितमेवोपपद्यते, न पुनरीश्वरानुभावात् / प्रागुक्तयुक्त्या तस्य निराकृतत्वात्, इति वा चिन्तयत्यसाविति। इदमेव समर्थयतिविरोधिन्यपि चैवं स्या-त्तथा नोकेऽपि दृश्यते। स्वरूपेतरहेतुभ्यां, भेदादेः फलचित्रता // 16 // विरोधिन्यपि च विघटमानैव च सर्वार्थप्राप्तिरित्यनुवर्तते, न पुनः कथञ्चिदपि विरोधिनी; एवं सांसिद्धिकमलादन्यहेल्वभ्युपगमे सति, स्याद्भवेत् / यथा च विरोधिनी सर्व प्राप्तिः, तथाऽनन्तरमेव दर्शितेति। तथेति हेत्वन्तरसमुच्चये। लोकेऽपि शास्त्रे तावद्दर्शितैवेत्यपिशब्दार्थः 1 दृश्यते विलोक्यते / स्वरूपेतरहेतुभ्यां स्वरूपेतरहेतुः परिणामिकारणम्। यथा- मृद्घटस्य, इतरः पुनर्निमित्तहेतुर्यथातस्यैव चक्रचीवरादि, ताभ्यां तावाश्रित्येत्यर्थः / भेदादेर्भदादभेदाच, यथायोगं संबन्धात्स्वरूपहेतुम-पेक्ष्याभेदात्, इतरापेक्षयाच भेदात्। किमित्याहफलचित्रता कार्याणां नानारूपता। यदि हि मृन्मात्रक एव घटः स्यात्तदा सर्वघटानां मृन्मयत्वाविशेषादेकाकारतैव स्यात् / तथा बाह्यमात्रनिमित्तत्वे परिणामिकारणविरहेण कूर्मरोमादेवि न कस्यचित्कार्यास्योत्पत्तिः स्यादिति / स्वरूपेतरहेतू समाश्रित्याभेदवृत्त्या भेदवृत्त्या च कार्यमुत्पद्यमानं चित्ररूपतां प्रतिपद्यते / एवं च सांसिद्धिके मले सर्वजीवानां परिणामिकारणे सति तत्कालादिबाह्यकारणसव्य-पेक्षतायां चित्रकर्मबन्धकानां नानापरिणामप्राप्त्या सर्वो लोकः शास्त्रप्रसिद्धो नरनारकादिपर्यायः, तद्ग्रासात् पुनरपुनर्बन्धकत्वादियावत्सर्वक्लेशप्रहाणिलक्षणा मुक्तिरिति सर्वमनुपचरितमुपपद्यत इत्यूहते इति। ततः किमित्याहएवमूहप्रधानस्य, प्रायो मार्गानुसारिणः। एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्त्तते // 16 // एवमुक्तरूपेण ऊहप्रधानस्य वितर्कसारस्य, प्रायो बाहुल्येन, मार्गानुसारिणो निर्वाणपथानुकूलस्यापुनर्बन्धकत्वेन क्वचिदन्यथाऽपि प्रवृत्तिरस्य स्यादिति प्रायो ग्रहणम् / एतद्वियोगविषयोऽपि आत्मना सह प्रकृतिविघट नगोचरः, किं पुनर्भवबीजादिगोचर इत्यपिशब्दार्थः / एष ऊहः, सम्यगूहनीयार्था
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy