________________ अपुणबंधय 608 - अभिधानराजेन्द्रः - भाग 1 अपुणबंधय संक्लेशाऽयोगतो भूयः पुनरपि, तीव्रसंक्लेशाऽयोगेन कल्याणाङ्गतया च उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावेन वा। यद्यस्माद् वर्तते या सा तस्मात्तात्त्विकी वास्तवरूपा, प्रकृतिः स्वभावलक्षणाधर्माऽर्हजीवस्य ज्ञेया; तदन्या तु तस्या अन्या पुनः प्रकृतिरुपचारत उपचरितरूपा तात्त्विकप्रकृतिविलक्षण-त्वात्तस्याः। एनां चाश्रित्य शास्त्रेषु, व्यवहारः प्रवर्तते। ततश्चाधिकृतं वस्तु, नान्यथेति स्थितं ह्यदः // 185 / / एनां चैनामेव तात्त्विकी प्रकृति चाश्रित्यापेक्ष्य, शास्त्रेषुयोगप्रतिबद्धेषु, | व्यवहारः पूर्वसेवादिः, प्रवर्तते प्रज्ञापनीयतामेति / ततश्च तस्मादेव हेतोरधिकृतं पूर्वसेवालक्षणं वस्तु तात्त्विकं, नान्यथा पुनर्बन्धक व्यतिरिच्य इति स्थितं प्रतिष्ठितं, हि स्फुटम्, अद एतत्। तथाशान्तोदात्तत्वमत्रैव, शुद्धानुष्ठानसाधनम्। सूक्ष्मभावोहसंयुक्तं, तत्त्वसंवेदनानुगम्॥१८६|| शान्तस्तथाविधेन्द्रियकषायविकारविकलः, उदात्त उच्चोच्चतराधाचरणस्थितिबद्धचित्तः / ततः शान्तश्वासावुदात्तश्च शान्तोदात्तः, तस्य भावस्तत्त्वम् / अत्रैव प्रोक्तप्रकृतौ सत्यां, जायते शुद्धाऽनुष्ठानसाधनं निरवद्याचरणकारणम्।तथा- सूक्ष्म-भावोहसंयुक्तं बन्धमोक्षादिनिपुणभावपर्यालोचनयुतम्। अत एव तत्त्वसंवेदनानुगंतत्त्वसंवेदनसंज्ञितज्ञानविशेषसमन्वितम्। ततः किमुक्तं भवति ?-स्वबुद्धि कल्पनाशिल्पिनिर्मितम् / स्वबुद्धिकल्पना स्वच्छन्दमतिविकल्परूपा, सैव शिल्पी वैज्ञानिकस्तेन निर्मितं घटितम्; न तुनपुनस्तत्त्वतः परमार्थतस्तद्भोगसुखं धर्मानुष्ठानं चेति। तद्भावनाऽर्थमाहभोगानशक्तिवैकल्यं, दरिद्रायौवनस्थयोः। सुरूपरागाशले च, कुरूपस्य स्वयोषिति // 160|| इह भोगाङ्गानि रूपादीनि / यदाह वात्स्यायनः- "रूपवयो - वैचक्षण्यसौभाग्यमाधुर्य श्वर्याणि भोगसाधनम्' इति / तत्रापि रूपवयो वित्तान्यत्वानि प्रधानानीति / एतदेव त्रितयमपेक्ष्याऽऽह 'भोगाङ्गशक्तिवैकल्यं' भोगाङ्गानां रूपादीनां, शक्ते गा-सेवनलक्षणाया वैकल्यमभावः, दरिद्रायौवनस्थयोर्दरिद्रस्य भोगाङ्गविरहोऽयौवनस्थस्य त्वशक्तिरिति / सुरूपरागाशङ्के च सुरूपे भोक्तुमारब्धे स्त्रीगते सुन्दरे संस्थाने रागोऽभिष्वङ्गातिरेकः, आशङ्का च स्त्रीगतानुरागसंदेहरूपा तस्मिन्, ततः सुरूपरागश्चाशङ्का च सुरूपरागाशङ्के, पुनः कुरूपस्य तु पुंसः स्वयोषिति स्वस्त्रिया-मिति। ततश्चअभिमानसुखाभावे, तथा क्लिष्टान्तरात्मनः। अपायशक्तियोगाच, न हीत्थं भोगिनः सुखम् / / 191|| अभिमानसुखाभावे अहं सुखीत्येवं चित्तप्रतिपत्तिरूपलक्षणस्याभिमानसुखस्याभावे सति, तथेति विशेषणसमुचये / क्लिष्टाम्तरात्मनोऽपूर्यमाणेच्छत्वेन साबाधचित्तस्यापाय-शक्तियोगायापायस्य निर्वाहशरीरव्यवच्छेदरूपस्य दरिद्रायौवनस्थयोः कुरूपस्य वा रुचिमत्स्त्रीकृतोच्चाटनादेर्या शक्तिर्योग्यता, तस्या योगात्संबन्धात्, चः समुच्चये / किम् ? इत्याह-- नहि नैवेत्थमनाढ्यत्वादिविशिष्टस्य भोगिनः सुखं भोगजं यद्विचक्षणैर्मुग्यत इति। यथा च तद्भोगसुखमनुष्ठानं च दृष्टान्तदान्तिकभावेन स्यातां तथाऽऽहअतोऽन्यस्य तु धन्यादे-रिदमत्यन्तमुत्तमम्। यथा तथैव शान्तादेः,शुद्धानुष्ठानमित्यपि।।१९२|| अतः प्रागुक्ताद्भोगिनः सकाशात्, अन्यस्य तु अन्यप्रकारभाजः, पुनः धन्यादेरुक्तरूपस्य भोगिन इदं भोगसुखमत्यन्तमुत्तमं, शेषभोगसुखातिशायि यथा स्यात्तथैव, शान्तादेःशान्तोदात्तप्रकृ तेरनुष्ठान प्रस्तुतमित्यपीदमपि ज्ञेयम्। एवं सति यत्स्यात्तदाहक्रोधाद्यबाधितः शान्तः, उदात्तस्तु महाशयः। शुभानुबन्धिपुण्याच, विशिष्टमतिसंगतः।।१६३|| क्रोधाद्यबाधितः शान्तः, उदात्तस्तु उदात्तः, पुनर्महाशयो गाम्भीर्यादिगुणोपेतत्वेन महाचेताः, शुभानुबन्धिपुण्याच पुण्यानुबन्धिनः पुण्यात्सकाशात्पुनर्विशिष्टमतिसंगतो मार्गानुसारि प्रौढप्रज्ञानुगतः सन्। किमित्याहऊहतेऽयमतःप्रायो, भवबीजादिगोचरम्। कान्ताऽऽदिगतगेयाऽऽदि, तथा भोगीव सुन्दरम्।।१६४|| शान्तोदात्तः प्रकृत्येह, शुभभावाश्रयो मतः। धन्यो भोगसुखस्येव, वित्तान्यो रूपवान् युवा / / 187 // शान्तोदात्त उक्तरूपः, प्रकृत्या स्वभावेनेह जने, शुभभावाश्रयः परिशुद्धचित्तपरिणामस्थानं, मतो जन्तुः / अत्र दृष्टान्तमाह- धन्यः सौभाग्यादेयतादिना धनार्हो भोगसुखस्येव शब्दरूपरसगन्धस्पर्शसेवालक्षणस्य यथाऽऽश्रयः, वित्ताढ्यो विभवनायकः, रूपवान् शुभशरीरसंस्थानः, युवा तरुणः पुमान्। एतदेव व्यतिरेकत आहअनीदृशस्य च यथा, न भोगसुखमुत्तमम् / अशान्तादेस्तथा शुद्धं, नानुष्ठानं कदाचन // 158|| अनीदृशस्य च धन्यादिविशेषणविकलस्य पुनर्यथा न भोगसुखं शब्दादिविषयानुभवलक्षणम्, उत्तम प्रकृष्टम्, अशान्तादेरशान्तस्यानुदात्तस्य च / तथा भोगसुखवत्, शुद्धं निर्वाणावन्ध्यबीजकल्पं नानुष्ठानं देवपूजनादि, कदाचन क्वचिदपि काले। तहिं किं स्यात् ?, इत्याशङ्कयाऽऽहूमिथ्यात्रिकल्परूपं तु, दयोयमपि स्थितम्। स्वबुद्धि कल्पनाशिल्पि- निर्मितं न तु तत्त्वतः // 18 // मिथ्याविकल्परूपं तु मरुमरीचिकादिषु मुग्धमृगादीनां जलादिप्रतिभासाकारं, पुनर्द्वयोरुक्तविलक्षणयो गिधार्मिकयोयमपि भोगसुखानुष्ठानरूपं, किं पुनरेकैकमित्यपिशब्दार्थः / स्थितं प्रतिष्ठितम्।