________________ अपुणबंधय 607 - अभिवानराजेन्द्रः - भाग 1 अपुणबंधय सोऽपुनर्बन्धक उच्यते। "पावं ण तिव्वभावा कुणइ" इति वचनात् / ध०३ अधि०। एतल्लक्षणं यथापावं ण तिव्वभावा, कुणइ ण बहुमन्नई भवं घोरं। उचिअट्टिइंच सेवइ, सव्वत्थ वि अपुणबंधो ति॥ पापमशुद्धं कर्म, तत्कारणत्वाद्धिंसाऽऽद्यपि पापम्। तद् नैव तीव्रभावाद् गाढसंक्लिष्टपरिणामात्करोति। अत्यन्तोत्कट-मिथ्यात्यादिक्षयोपशमेन लब्धाऽऽत्मनैर्मल्यविशेषत्वात्तीवेति विशेषणादापन्नम्अतीव्रभावाकरोत्यपि, तथाविधकर्म-दोषात् / तथा न बहु मन्यते, न बहुमानविषयीकरोति, भवं संसार, घोरं रौद्र, घोरत्वावगमात् / तथा उचितस्थितिमनुरूपप्रतिपत्तिं, च शब्दः समुच्चये / सेवते भजते / कर्मलाघवात्सर्वत्रापि, आस्तामेकत्र, देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्तादपुनर्बन्धकः, उक्तनिर्वचनो जीव इत्येवंविधक्रियालिङ्गो भवतीत्यलं प्रसङ्गेन। ध०१ अधि०। द्वा०ा प्रकारान्तरेणभवामिनन्दिदोषाणां, प्रतिपक्षगुणैर्युतः। वर्द्धमानगुणप्रायो, ह्यपुनर्बन्धको मतः // 178|| भवाभिनन्दिदोषाणां 'क्षुद्रो लोभरतिर्दी नो मत्सरी' इत्यादिना | प्रागेवोक्तानां, प्रतिपक्षगुणैरक्षुद्रतानिर्लोभतादिभिर्युतो, वर्द्धमानगुणप्रायो वर्द्धमानाः शुक्लपक्षक्षपापतिमण्डलमिव प्रतिकलमुल्लसन्तो गुणा औदार्यदाक्षिण्यादयः, प्रायो बाहुल्येन यस्य स तथा / अपुनर्बन्धको धर्माधिकारी मतोऽभिप्रेतः। अस्यैषा मुख्यरूपा स्यात्, पूर्वसेवा यथोदिता। कल्याणाशययोगेन, शेषस्याप्युपचारतः॥१७॥ अस्यापुनर्बन्धकस्यैषा प्रागुक्तमुख्यरूपा निरुपचरिता, स्याद्भवेत्। पूर्वसेवा देवादिपूजारूपा, यथोदिता यत्प्रकारा निरूपिता प्राक् / कल्याणाशययोगेनमनाग मुक्त्यनुकूल-शुभभावसंबन्धेन, शेषस्यापुनबन्धकापेक्षया विलक्षणस्य सकृद्वन्धकादेः, उपचारत औपचारिकी पूर्वसेवा स्यात्, अद्यापि तथाविधभववैराग्या-भावात्तस्य॥१७६।। इह केचिन्मार्गपतितमार्गाभिमुखावपि शेषशब्देनाहुः। तच्च न युज्यते, अपुनर्बन्धकावस्थाविशेषरूपत्वात्तयोरपुनर्बन्धकग्रहणे-नैव गतत्वात्। यतो ललितविस्तरायां मार्गलक्षणमित्थमुक्तम्- इह मार्गश्चेतसोऽ-- वक्रगमनं,भुजङ्गमनलिकाऽऽयामतुल्यो विशिष्ट-गुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेष इति / तत्र प्रविष्टो मार्गपतितः मार्गप्रवेश योग्यभावापन्नो मार्गा-भिमुखः, एवं च नैतावपुनर्बन्धकावस्थायाः परपरतरावस्थाभाजौ वक्तुमुचितौ, भगवदाज्ञावगमयोग्यतया, पञ्चसूत्रकवृत्तावन-योरुक्तत्वात्। यथोक्तं तत्र-इयं च भागवती सदाज्ञा सर्वैवाऽपुन-बन्धकादिगम्या / अपुनर्बन्धकादयो ये सत्त्वा उत्कृष्टां कर्मस्थिति तथाऽपुनर्बन्धकत्वेन क्षपयन्ति, ते खल्वपुनर्बन्धकाः / आदि-शब्दात्न्मार्गापतितमार्गाभिमुखादयः परिगृह्यन्ते, दृढप्रतिज्ञालोचनादिगम्यलिङ्गाः / एतद्गम्येयं न संसाराभिनन्दिगम्येति / संसाराऽभिनन्दिनश्चापुनर्बन्धकप्रागवस्थाभाजो जीवाइति ननूपचरितं वस्त्वेव नभवति, तत् कथमुपचारतः शेषस्य पूर्वसेवा स्यात् ? इत्याशङ्ख्याहकृतश्चास्या उपन्यासः, शेषापेक्षोऽपि कार्यतः। नासन्नोऽप्यस्य बाहुल्या-दन्यथैतत्प्रदर्शकः॥१८०|| कृतश्च कृतः पुनरिह अस्याः पूर्वसेवायाः उपन्यासः प्रज्ञापनारूपः शेषापेक्षोऽपि अपुनर्बन्धकभावासन्नजीवानाश्रित्य, कार्यतो भाविनी भावरूपां पूर्वसेवामपेक्ष्य नड्व लोदकं पादरोग इत्यादिदृष्टान्तात् / यतः, न नैवाऽऽसन्नोऽपि समीपवर्त्यपि, जीवोऽस्यापुनर्बन्धकाभावस्य, किं पुनरयमेवेत्यपिशब्दार्थः / बाहुल्यात्प्रायेणान्यथाऽपुनर्बन्धाचारविलक्षणो वर्तते इत्येतस्यार्थस्य प्रदर्शको व्यापकः / न हि मृत्पिण्डादिकारणं कार्याद् घटादेबाहुल्येन वैलक्षण्यमनुभवद् दृश्यते, किन्तु कथञ्चित्तुल्यरूपतामिति। ___इदमेवाधिकृत्याहशुद्ध्यल्लोके यथा रत्नं, जात्यं काञ्चनमेव वा। गुणैः संयुज्यते चित्रैस्तद्वदात्माऽपि दृश्यताम्॥१८१|| शुद्ध्यच्छुद्धिमनुभवत् क्षारमृत्पुटपाकादिसंयोगेन,लोके व्यवहारार्हजनमध्ये यथा रत्नं पद्मरागादि, जात्यमकृत्रिमं, काञ्चनमेव वा चामीकर वा, गुणैः कान्त्यादिभिः, संयुज्यते संश्लिष्यति, चित्रैर्नानाविधैस्तदुचितैः, तद्वद् त्नकाञ्चनवत्, आत्माऽपि जीवः शुद्ध्येत्, किं पुना रत्नकाञ्चने ? इत्यपिशब्दार्थः। दृश्यताम्- ऊहापोहचक्षुषाऽवलोक्यतामिति। अत्रैव मतान्तरमाहतत्प्रकृत्यैव शेषस्य, केचिदेनां प्रचक्षते। आलोचनाद्यभावेन, तथाऽनाभोगसङ्गताम्॥१८२|| सा वक्ष्यमाणविशेषणानुरूपा या प्रकृतिः स्वभावस्तया शेषस्य सकृद्बन्धकादेः, के चित् शास्त्रकारा एनां पूर्वसेवा, प्रचक्षते व्याकुर्वते, न पुनः सर्वे / कीदृशीम् ? इत्याह- आलोचनाद्यभावेन आलोचनस्योहस्य, आदिशब्दादपोहस्य, निर्णयस्य, मार्गविषयस्याभावेन, तथाऽनाभोगसंगतां, तथा तत्प्रकारः, कथञ्चिदपि भवस्वरूपाऽनिर्णायको योऽनाभोग उपयोगाभावस्तत्संगतां पूर्वकारणभावेनोपचरितत्वमुक्तमत्र चानाभोगद्वारेणेति। एतदेव समर्थयमान आहयुज्यते चैतदप्येवं, तीव्र मलविषे न यत्। तदावेगो भवासङ्गस्तस्योपैर्विनिवर्तते॥१८३॥ युज्यते च घटत एवैतदप्यनन्तरोक्तं वस्तु, किं पुनः परम्परोक्तम् ? इत्यपिशब्दार्थः। एवं यथा केचित्प्रचक्षते। अत्र हेतुः-तीनेऽत्यन्तमुत्कटे, मलविषे कर्मबन्धयोग्यतालक्षणे, न नैव, यद्यस्मात्, तदावेगो मलविषावेगः। किंरूपः?, इत्याह-भवासङ्गः संसारप्रतिबन्धः, तस्य शेषजीवस्य, उच्चैरत्यन्तं, विनिवर्तते, मनागपि हि तन्निवृत्तौ तस्यापुनर्बन्धकत्वमेव स्यात् इत्यौ-पचारिक्येव; शेषस्य पूर्वस्यैवेति स्थितम्। अथ यां प्रकृतिमाश्रित्य पूर्वसेवा स्यात्तां, तद्विपर्ययं चाऽऽहसंक्लेशायोगतो भूयः, कल्याणाङ्गतया च यत्। तात्त्विकी प्रकृति या, तदन्या तूपचारतः॥१८४||