________________ अपमाय 598 - अभियानराजेन्द्रः - भाग 1 अपमाय कर्णिकाराणि दुष्टानि, तत्परीहारतस्तया // 7 // गीतं नृत्तं च साक्षेप, छलिता नाप्रमादतः। कर्तव्या साधुनाऽप्येवं, सर्वदाऽप्यप्रमादिता !|8|| आ०का आव०। आ०चूला प्रश्न०। प्रमादाभावे, आचा०१ श्रु०५ अ०४ उ०।अष्टसु स्थानेषु अप्रमादवतो भवितव्यम्। प्रमादो न कार्य:अट्ठहिं ठाणेहिं सम्मं संघडियव्वं जइयव्वं परक्कमियव्वं, अस्सि चणं अढे नो पमाएयव्वं भवइ, असुयाणं धम्माणं सम्म सुणणयाए अब्भुट्टे यव्वं, सुयाणं धम्माणं ओगिण्हयाए ओवहारणयाए अब्भुट्टेयव्वं भवइ, तवाणं कम्माणं संजमेणं अकरणयाए अब्भुट्टेयव्वं भवइ, पोराणाणं कम्माणं तवसा विगिंचणयाए विसोहणत्ताए अब्भुढे यवं भवइ, असंगिहियपरिजणस्स संगिण्हयाए अब्भुट्टेयव्वं भवइ, से हं आयारगोयरंगहणयाए अब्मुट्टेयव्वं भवइ, गिलाणस्स अगिलाए वे यावचं करणयाए अन्भुट्टे यवं भवइ, साहम्मियाणं अहिगरणंसि उप्पन्नंसि तत्थ अणिस्सिओवस्सिए अपक्खग्गाही मज्झत्थभावभूए कहण्णु साहम्मिया अप्पसद्दा अप्पझंझा अप्पतुमतुमा उवसामणयाए अन्मुढेयव्वं भवइ। कण्ठ्यम्।नवरमष्टासुस्थानेषु वस्तुषु सम्यग्घटितव्यम्-अप्राप्तेषु योगः कार्यः / यतितव्यम्-प्राप्तेषु तदवियोगार्थ यत्नः कार्यः। पराक्रमितव्यम्शक्तिक्षयेऽपि तत्पालने पराक्रम उत्साहातिरेको विधेयः। किं बहुना?एतस्मिन्नष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थेन प्रमादनीयम् -न प्रमादः कार्यो भवति। अश्रुतानामनाकर्णितानां धर्माणां श्रुतभेदानां सम्यक् श्रवणतायै वाऽभ्युत्थातव्यमभ्युपगन्तव्यं भवति / एवं श्रुतानां श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै मनोविषयीकरणतयोपधारणतायैअविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः। (विगिचणयाए त्ति) विवेचना निर्जरत्यर्थः, तस्यै। अत एव आत्मनो विशुद्धिर्विशोधना, अकलङ्कत्वम; तस्यै इति। असंगृहीतस्यानाश्रितस्य, परिजनस्य शिष्यवर्गस्येति / (सेहं ति) विभक्तिपरिणामाच्छैक्षकस्या-भिनवप्रव्रजितस्य, (आयारगोयरं ति) आचारः साधु-सामाचारस्तस्य गोचरो विषयो व्रतषट्कादिराचारगोचरः / अथवा-आचारश्च ज्ञानादिविषयः पञ्चधा, गोचरश्च भिक्षाचर्येत्याचारगोचरम् / इह विभक्तिविपरिणामादाचरगोचरस्य ग्रहणतायां शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः / (अगिलाए त्ति) अग्लान्या अखेदेनेत्यर्थः। वैयावृत्त्यं प्रतीति शेषः। (अधिगरणंसि त्ति) विरोधे, तत्र साधर्मि के षु निश्रितं रागः, उपाश्रितं द्वेषः / अथवानिश्रितमाहारादिलिप्सा, उपाश्रितं शिष्यकुलाद्यपेक्षा / तद्वर्जितो यः,सोऽनिश्रितोपाश्रितः। न पक्ष शास्त्रबाधितं गृह्णातीत्यपक्षग्राही। अत एव मध्यस्थभावं भूतः प्राप्तो यः स तथा / स भवेदिति शेषः / तेन च तथाभूतेन कथं नु केन प्रकारेण साधर्मिकाः साधवः ? अल्पशब्दा विगतराटीमहाध्वनयः; अल्पझञ्झा विगततथाविधप्रकीर्णवचनाः, अल्पतुमतुमा विगतक्रोधना विकारविशेषाः भविष्यन्तीति भावयतोपशमनाया-धिकरणस्याभ्युत्थातव्यं भवतीति। स्था० 8 ठा०। किञ्च अणण्णपरमं नाणी, णो पमाए कयाइ वि। आयगुत्ते सया धीरे, जायमायाऐं जावए। "अणण्णपरमं'' इत्याधनुष्टुप् / न विद्यते अन्यः परमः प्रधानोऽस्मादित्यनन्यपरमः संयमः,तंज्ञानी परमार्थवित्नो प्रमादयेत्, तस्य प्रमादं न कुर्यात्कदाचिदपि / यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह(आयगुत्ते इत्यादि) इन्द्रियनो-इन्द्रियात्मना गुप्त आत्मगुप्तः / सदा सर्वकालम, यात्रा संयमयात्रा, तस्यां मात्रा यात्रामात्रा / मात्रा च'अव्वाहारो ण सहे' इत्यादि, तथाऽऽत्मानं यापयेद्, यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यात् / आचा०१ श्रु०३ अ०३ उ०। अपरंचउदाहु वीरे अप्पमादो महामोहे अलं कुसलस्स पाएणं संति मरणं संपेहाए भिउरधम्म संपेहाए। (उदाहु इत्यादि) उत्प्राबल्येन आहोक्तवान् / कोऽसौ ? वीरः, अपगतसंसारभयः, तीर्थकृदित्यर्थः / किमुक्तवान् ? तदेव, पूर्वोक्तं वा दर्शयति-अप्रमादः कर्त्तव्यः / क्व ? महामोहे अङ्गनाभिष्वङ्ग एव महामोहकारणत्वान्महामोहः तत्र, प्रमादवता न भाव्यम् / आह(अलमित्यादि) अलं पर्याप्तम् / कस्य ? कुशलस्य निपुणस्यसूक्ष्मेक्षिणः / केनाऽलम् ? मद्यविषयकषाय-निद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति स्यात्। किमालम्ब्य प्रमादेनाऽलम् ? इत्युच्यते। (संति इत्यादि) शमनं शान्तिरशेषकर्मापगमः, अतो मोक्ष एव शान्तिरिति / मियन्ते प्राणिनः पौनः पुन्येन यत्र चतुर्गतिके संसारे समरणः संसारः / शान्तिश्च मरणश्व शान्तिमरणं, समाहारद्वन्द्वः। तत्संप्रेक्ष्य पर्यालोच्य, प्रमादवतः संसारानुपरमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयम्।सचाकुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्यात् / अथ च शान्त्या उपशमेन मरणं मरणावधिः, यावत्तिष्ठतो यत्फलं भवति तत्पयालोच्य प्रभादं न कुर्यादिति / किञ्च-(भिउर इत्यादि) प्रमादो हि विषया-भिष्वङ्गरूपः शरीराधिष्ठानस्य च शरीरं भिदुरधर्मम स्वत एव भिद्यत इति। भिदुरं स एव धर्मः स्वभावो यस्य तद्भिदुरधर्मम् / एतत्समीक्ष्य पर्यालोच्य प्रमाद न कुर्यादिति संबन्धः। आचा०१ श्रु०२ अ०४ उ० प्रमादवर्जनरूपायां 46 गौणाहिंसायाम्, प्रश्न०१ संवन्द्वा०ा यत्नातिशये, पं०व०१द्वा०। उपयोगपूर्वकरणक्रियायाम्, नि०चू०१ उ०। सर्वक्रियास्वप्रमाद इति चतुर्थं साधुलिङ्गम्सुगइनिमित्तं चरणं, तं पुण छक्कायसंजमो चेव। सो पालिउंन तीरइ, विगहाइपमायजुत्तेहिं॥११०|| शोभना गतिः सुगतिः सिद्धिरेव, तस्या निमित्तं कारणं, चरणं यति धर्मः / तदुक्तम्- "नो अन्नहा वि सिद्धी, पाविजइ जं तओ इमीए वि। एसो चेव उवाओ, आरंभावट्टमाणो उ" // 1 // तथाविरहिततरकाण्डा बाहुदण्डैः प्रचण्ड, कथमपि जलराशिं धीधना लश्यन्ति। न तु कथमपि सिद्धिः साध्यते शीलहीनैः, दृढयति यतिधर्मे चित्तमेवं विदित्वा / / 1 // इति / शालिनीवृत्तम्।