________________ उपोद्घातः (70) त्वमसिद्धमित्यभिधानीयम्, कथञ्चित् तस्य वस्तुनि युक्तिसिद्ध-त्यात् साधनवत्। न हि कृचिदनित्यत्वादौ साध्ये सत्त्वादिसाधन-स्थास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनाभास-त्वप्रसङ्गात्। अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, तत्कथं प्रतिषेध्यम्? स्वरूपस्य प्रतिषेधत्यानुपपत्तेः, साध्यसद्धावेनास्तित्वं तु यत् तत् प्रतिषेध्यम्, तेनाविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात् तेनैव स्वरूपेणास्ति नास्ति चेति प्रतीत्यभावादिति चेत् / तदसत्। एवं हेतोस्विरूपत्वविरोधात् / विपक्षासत्त्वस्य तात्त्विकस्याभावात्। तात्त्विकस्याभावात् / यदि चायं भावाभावयोरेकत्वमाचक्षीत, तदा सर्वथा न क्वचित् प्रवर्तेत, नापि कुतश्चिन्निवर्तेत / प्रवृत्तिनिवृत्तिविषयस्य भावस्याभावपरिहरिणासंभवात्, अभावस्य च भावपरि-हारेणेति वस्तुनोऽस्तित्वनास्तित्ययोः रूपानन्तरत्वमेष्टव्यम्।तथा चास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि सिद्धम् / यथा च प्रतिषेध्यमस्तित्वस्य नास्तित्वं तथा प्रधानभावतः क्रमार्पितोभय-त्वादिधर्मपञ्चकमपि वक्ष्यमाणं लक्षणीयम् / / (3) समिति द्वितीयलक्षणादिहोत्तरत्र चानुवर्तनीयम् / ततोऽयमथःक्रमार्पितस्वपरद्रव्यादिचतुष्टयापेक्षया क्रमार्पिताभ्यामस्तित्वनास्तित्वाभ्यां विशेषितं सर्वं कुम्भादि वस्तु स्यात् (कथञ्चित्) अस्त्येव, स्यात् (कथञ्चित्) नास्त्येवेत्युल्लेखेन वक्तव्यमिति !! (4) द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत् प्रधानतयाऽर्पिताभ्यामे कस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवादवक्तव्यं जीवादि वस्त्विति / तथाहि सदसत्त्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन वक्तुमशक्यम्, तस्यासत्त्वप्रतिपादनासमर्थत्वात् / तथैवासदिति अभिधानेन नसद्वक्तुं शक्यम्, तस्य सत्यप्रत्यायने सामर्थ्याभावात् / साङ्केतिकमेकं पदं तदभिधातुं समर्थमित्यपि न सत्यम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामोपपत्तेः। "तौ सत्" 312 / 127 / (पाणि०) इति शतृशानचोःसंकेतितसच्छवत्। इति सकलवाचकरहितत्यादवक्तव्यं वस्तुयुगपद् सदसत्त्वाभ्यां प्रधान-भावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते। (5) स्थद्रव्यादिचतुष्टयाऽऽ-पेक्षयाऽस्तित्वे सत्यस्तित्यनास्तित्वाभ्यां सह वक्तुमशक्यं सर्व वस्तु: ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येवं पञ्चमभड़े नोपदर्श्यते इति (6) परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्ति-त्वाभ्यां यौगपद्येन प्रतिपादयितुमशक्यं समस्तं वस्तु; ततः स्यान्नास्त्येवस्यादवक्तव्यमेवेत्येवं षष्ठभङ्गेन प्रकाश्यते (7) स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्यनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिलं वस्तु, तत एवमनेन भङ्गेनोपदर्श्यते इति॥ उक्तंच"या प्रश्नाद् विधिपर्युदासभिदया बाधच्युता सप्तधा, धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि॥ निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया, जल्पन् जल्परणाङ्गणे विजयते वादी विपक्ष क्षणात् // 1 // " व्ययुक्तं सत्" / समस्वभावत्वे हेतुस्तु स्याद्वादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इत्यर्थः / तदनभ्यु-पगमे सर्ववस्तूनां स्वरूपहानिप्रसङ्गः, कस्यचित् व्योमादिवस्तु नित्यमेय, अन्यस्य प्रदीपादिवस्तु अनित्यमेवेत्यस्य प्रतिक्षेपस्तु दिङ्मात्रमुच्यते-सर्वे भावा द्रव्यार्थिकनयापेक्षया नित्याः, पर्या-यार्थिकनयादेशात् पुनरनित्याः, तत्रैकान्तनित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्वव्यवस्थापनमित्थम् / तथाहि-प्रदीपपर्यायापन्नास्तैजसाः परमाणयः स्वरसतः तैलक्षयात् वाता-भिघाताद् वा ज्योतिःपर्यायं परित्यज्य तमोरूपं पर्यायान्तरमासादयन्तोऽपि नैकान्तेनानित्याः; पुगलद्रव्यरूपतयाऽवस्थितत्वात् तेषाम्।न ह्येतायतैयानित्यत्वं यावतापूर्वपर्यायस्य नाश उत्तरपर्यायस्यचोत्पादःनिखलु मृद्रव्यं स्थासक-कोश-कुशूलशिवक-घटाद्यवस्थान्तरमापद्यमानमप्येकान्ततो विनष्टम्, तेषु मृद्रव्यानुगमस्याबालगोपालं प्रतीतत्वात् / न च तमसः पौगलिकत्वमसिद्धम्, चाक्षुषत्वान्यथाऽनुपपत्तेः, प्रदीपालोकवत्। अथ यचाक्षुषं तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत् कथं चाक्षुषम्? नैवम्। उलूकादीनामालोकमन्तरेणापि तत्प्रति-भासनात्, येस्त्वस्मदादिमिरन्यचाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते, विचित्रत्वाद् भावानाम्। कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाया आलोकापेक्ष-दर्शनाः, प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः,इति सिद्धं तमश्चाक्षुषम् / रूपयत्त्वात्स्पर्शवत्त्वमपि प्रतीयते, शीतस्पर्शप्रत्य-यजनकत्वात्। यानि त्वनिविडावयवत्वमप्रतिघातित्वमनुद्भूतस्पर्शविशेषत्वमप्रतीयमानखण्डावयविद्रव्यमविभागत्वमित्यादीनितमसः पौगलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि, तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि, तुल्ययोगक्षेमत्वात्।नचया-च्यम्-तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त? इति। पुद्ग-लानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापिदर्शनात्। दृष्टो ह्याट्टैन्धनसंयोगवशाभास्वररूपस्यापि वरभा-स्वररूपधूमरूपकार्योत्पादः, इति सिद्धो नित्यानित्यः प्रदीपः। यदपि निर्वाणादर्वाक् देदीप्यमानो दीपस्तदाऽपि नवनवपर्यायोत्पादविनाशभाक्त्वात् प्रदीपत्वान्वयाच नित्यानित्य एव / / एवं व्योमापि उत्पादव्ययध्रौव्यात्मकत्वान्नित्यानित्यमेव / तथाहिअवगाहकानां जीवपुद्रलानामवगाहदानोपग्रह एव तल्लक्षणम्, 'अवकाशदमाकाशम्' इति वचनात्। यदा चावगाहका जीवपुद्रलाः प्रयोगतो विनसातो वा एकस्मान्नभःप्रदेशात्प्रदेशान्तरमुपसर्पन्ति, तदा तस्य व्योम्नस्तैरव-गाहकैः सममेकस्मिन् प्रदेशे विभागः, उत्तरस्मिन् प्रदेशे च संयोगः, संयोगविभागौ च परस्पर विरुद्धौ धर्मा , तद्भेदे चावश्यं धर्मिणो भेदः। तथा चाहुः- "अयमेव हि भेदहेतु यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति / ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम्, उत्तरसंयोगोत्पादाख्यपरिणामानुभवाचोत्पन्नम्, उभयत्राकाशद्रव्यस्थानुगतत्वाचोत्पादव्यययोरेकाधिकरणत्वम् / तथा च 'यदप्रच्युतानुत्पन्नस्थिरैक रूपं नित्यम्' इति नित्यलक्षणमाचक्षते, तदपास्तम्। एवंविधस्य कस्यचिद् वस्तुनोऽभावात्। तद्भावाव्ययं नित्थम्, इति तु सत्यं नित्यलक्षणम् / उत्पादविनाशयो: सद्भावेऽपि तद्भावादत्वयि-रूपाद् यन्न व्येति तन्नित्यम् इति तदर्थस्य घटमानत्वात्। यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते, अथ सप्तमङ्गीदर्शितदिशा स्याद्वादास्तित्वम्दीपादारभ्य व्योमपर्यन्तं सर्वं वस्तु समस्वरूपम्, यतो वस्तुनः द्रव्यपर्यायात्मकत्वमिति। वाचकमुख्योऽप्येवमेवाह-"उत्पाद-व्ययध्रौ-