________________ (69) उपोद्घातः - चूर्णिप्रभृतीनां तात्पर्यमवधारयितुं शक्यम्, यतस्तीर्थकरगणध- | रादिमिरर्द्धमागध्यामेवैषां प्रस्तावः प्रस्तुतः, या च सामान्यप्रा--- कृतभाषायो नेदीयसी किञ्चिद् विलक्षणतरा। गतवति समये तु गुरुशुश्रूषापरायणाः श्रममविगणय्यान्तेवासि-जनाः स्वस्वाचार्यमुखाम्भोजसकाशात् समुपलब्धमधुबिन्दुनिकरसदृक्षसूत्रानुपूर्वीतदर्थान् संचिन्तानाः कण्ठस्थं कुर्वन्त एव कृतकार्या बभूवुः, किन्त्वद्यश्वीनायास्तादृश्याः परिपाट्याः प्रायशो वैकल्याद् ज्ञानदर्शनचारित्राणां भूयान् हासः समजनि। संक्षिप्तविवरणं चास्याऽत्रैव प्रथमभागे "अहालंदिय" शब्दे तत्त्वबुभुत्सुमिर्जिज्ञासुभिर्द्रष्टव्यम्। निरीक्ष्य चैतादृशी दुर्दशामस्माकं गुरुवर्याणां श्रीसौधर्मबृहत्तपागच्छीयकलिकालसर्वज्ञकल्पभट्टारक 1008 श्रीमद्विजयराजेन्द्रसूरीश्वरमहाराजानां चेतसि चिन्ताऽतिमहती समुपस्थिता-यत् प्रत्यहमार्हतधार्मिकदार्शनिकशास्त्राणां हानिरेवोपजायते, कारणादस्मादेवाज्ञा बहवः सुझं मन्यानाः कार्यमुत्सूत्रमपि कर्तुमा-रब्धवन्तः, तथा स्वधर्मग्रन्थेभ्यो विस्मृतिसरणिमाश्रिता इव / ततः किमस्यामवस्थायां करणीयमस्माभिः? यतः संसारेऽस्मिन्नसारे तस्यैव मर्त्यस्य जनिः सार्थिका, येन यथाशक्यमात्मधर्मस्योन्नतिः कृता / अन्यथा"असंपादयतः कञ्चि-दर्थ जातिक्रियागुणैः। यदृच्छाशब्दवत् पुंसः संज्ञाथै जन्म केवलम्॥ अथवा-स लोहकारभस्त्रेव, श्वसन्नपिन जीवति / इति लौकिकोक्तिं सार्थकयति / एतादृक्षो विमर्शश्वेतसि प्रभूतकालमुवास, किन्तु कदाचिदेकस्यां क्षणदायां सहसा विचारः प्रादुर्बभूवकोऽप्ये कस्तादृशो ग्रन्थः प्रत्नेतरशल्या रचनीयो, यस्मिन् जैनागमसत्कमागधीभाषाशब्दानामकाराद्यनुक्रमतो विन्यासं विधाय गीर्वाणभाषायां तदनुवादलिङ्गव्युत्पत्तिवाच्यार्थान् निधाय समनन्तरं यथासंभवं तदुपरि मूलसूत्राणां पाठनिर्देशपुरःसरं समुपलब्धपुरातनटीकाचूयादि विवरणं दत्त्वा स्पष्टयितव्यः। यदि स एव विषयो ग्रन्थान्तरेष्वप्युपलभ्येत तर्हि तदनुपदमेव सोऽपि निर्देश्यः / प्रायशोऽस्माद् निजमनोऽनुकूलो लोकस्योपकारो भविष्यतीति / अथोषसि समुत्थाय सूरीन्द्रः स्वनित्यनैमित्तिकीः क्रियाः समाप्यास्य प्रकृतकार्यस्य भारमुवाह / समाहितमानसेन द्वाविंशतिवर्ष यावद् महान्तमपि श्रममविगणय्य तेन कार्यमेतद् विघ्नानपोह्य संपूर्णतां लम्भितम् / यद्- 'अभिधानराजेन्द्र' नामा कोशः प्राकृतभाषाप्रभेदभूतमागध्यां विरचय्य चतुर्षु भागेषु विभक्तः। अथैकदाऽनल्पकल्पाः श्रावकाः शिष्याश्च मुनयः श्रीमदुपाध्यायमोहनविजयदीपविजययतीन्द्रविजयप्रभृतयः साधवो विनेयाः साञ्जलिबन्धं प्रार्थनापुरःसरं व्यजिज्ञपन्-भगवन् ! यदयमपि ग्रन्थो ग्रन्थान्तरसमः पुस्तकभाण्डागारेष्वेव निहितः स्थास्यति तदा कियन्तो जना अनयस्यास्य प्रवररत्नस्येव कोषरत्नस्य लाभभाजो भविष्यन्ति? तस्मादनेकेषु देशदेशान्तरेषु यया रीत्या भूयान् प्रचारः स्यात्, तदुपायः करणीय इति गुरुचरणान्ते विज्ञ-प्तिपुरस्सरं निवेदयामः। तदुत्तरं प्रशान्तगम्भीरया गिरा श्रीसूरीश्वराः नातिस्तोकबहुलं प्रोचुः- | अहमात्मीयं करणीयं पूर्तिमनयमतः परं येनोपायेन निखिललोकोपकारः स्यात् स तु युष्माभिः कर्तुमर्हः, किन्तु वयमात्र-ऽर्थे ताटस्थ्यमुपगताः। ततःश्रीसझे नास्याभिधानस्य विशेषप्रचाराय शीशकाक्षरैः पुष्टचिक्कणपत्रेषु मुद्रापयितुमेव निश्चित्य प्रारभ्यते स्म / पुनरस्य शोधनादिभारः सूरीन्द्राणां विनीतशिष्याभ्यां मुनिश्री दीपविजयमुनिश्रीयतीन्द्रविजयाभ्यां जगृहे, यावस्मिन् कार्ये पूर्णाऽभिज्ञौ वर्तेते। अतः परं वक्तव्यान्तरं भाषा (हिन्दी) भूमिकातोऽवसेयम्।) स्याद्वादनिरूपणेन समवायसत्ताऽपोह-वेदाऽपौरुषेयत्वजगत्सकर्तृकत्व-शब्दाकाशगुणत्वाऽद्वैतवादादिखण्डनेन एकेन्द्रिया-णां भावेन्द्रियज्ञानस्थापनेन च जैनदर्शनस्यातिगाम्भीर्य व्यक्ती-भवतीति दिङ्मात्रमिहतद्दय॑ते अथवस्तुनः स्याद्वादात्मकत्वं सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति प्रथमं तस्या निरूपणम्एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी॥ एकत्र जीवादी वस्तुनि एकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिवाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधि-निषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी विज्ञेया। सप्तभङ्गाः पुनरिमेस्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो भङ्गः 1 स्यान्नाऽस्त्येव सर्वमिति निषेधकल्पनया द्वितीयः 2 स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ३स्यादवक्तव्यमेवेति युगपद् विधिनिषेधकल्पनया चतुर्थः 4 स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद् विधिनिषेधकल्पनया च पञ्चमः 5 स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद् विधिनिषेधकल्पनया च षष्ठः 6 स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद् विधिनिषेधकल्पनया च सप्तमः 7 स्यादित्यव्ययमनेकान्तद्योतकम् / स्यात्-कथञ्चित्, स्वद्रव्यक्षेत्रकालभावरूपेण अस्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण / तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति, न जलादिरूपत्वेन / क्षेत्रतः पाटलिपुत्रकत्येन, न कान्यकुब्जादित्येना कालतः शैशिरत्वेन, न वासन्तिकादित्येन / भावतः श्यामत्येन, न रक्तत्वादिना / अन्यथा इतररूपापत्त्या स्वरूपहानिः स्यादिति / अत्र भने एवकारस्तु अनभिमतार्थव्यावृन्यर्थमुपात्तम् / अस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये स्यादिति प्रयुज्यते, स्यात् कोऽर्थः-कथश्चित, स्वद्रव्यादिभिरेवायमस्ति,नपरद्रव्यादिभिरपीत्यर्थः / (2) स्वद्रव्यादि-भिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरू-पाभावाद् वस्तुप्रतिनियमविरोधः / न चास्तित्वैकान्तवादिभिरत्र नास्ति