________________ (71) उपोद्घातः तदोत्पादव्यययोर्निराधारत्वप्रसङ्गः,नच तयोर्योगे नित्यत्वहानिः। "द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः कदा केन किंरूपाः, दृष्टा मानेन केन वा?॥" इति वचनात् / न चाकाशं न द्रव्यम्, लौकिकानामपि घटाऽऽकाशं पटाऽऽकाशमिति व्यवहारप्रसिद्धेरा-काशस्य नित्यनित्यत्वम् / घटाकाशमपि हि यदा घटापगमे पटेना-क्रान्तं, तदा पटाकाशमिति व्यवहारः / न चायमौपचारिकत्वाद् प्रमाणमेव, उपचारस्यापि किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शि-त्वात्। नमसो हि यत् किल सर्वव्यापकत्वं मुख्यं परिमाणं तत्तदा-र्धयघटपटादिसम्बन्धिनियतपरिमाणवशात् कल्पितभेदं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादि तत्तत् व्यपदेशनिबन्धनं भवति तत्तद्धटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नोऽवस्थान्तराऽऽपत्तिः, ततश्चावस्थाभेदेऽवस्थावतोऽपि भेदः, तासां ततोऽविष्वगभावात्। इति सिद्धं नित्यानित्यत्वं व्योम्नः / इति नैकान्तनित्यपक्षो युक्तिक्षमः। स्याद्वादे तु-पूर्वोत्तरकारपरिहारस्वीकारस्थितिलक्षणपरिणा-मेन भावानामर्थक्रियोपपत्तिरविरुद्धा / न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासायोगादसन् स्यादाद इति वाच्यम्? नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीक्रियमाणत्यात्, तथैव च सर्वरनुभवात्। तथा च पठन्ति"भागे सिंहो नरो भागे, योऽर्थो भागद्वयात्मकः / तमभाग विभागेन, नरसिंह प्रचक्षते" ||1|| एवं चोपस्थितमिदं नित्यानित्यात्मकं वस्तु, उत्पादव्ययध्रौव्यात्मकत्वान्यथाऽनुपपत्ते रिति / तथाहि-सर्व वस्तु द्रव्यात्मना नोत्पद्यते,विपद्यते वा, परिस्फुटमन्वयदर्शनात् लूनपुनर्जातनखा-दिषु अन्वयदर्शनेन व्यभिचार इति न वाच्यम् : प्रमाणेन बाध्यमा-- नस्यान्वयस्यापरिस्फुटत्वात् / न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः; सत्यप्रत्यभिज्ञानासद्धत्वात्। ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते, विपद्यते च, अस्खलि-- तपर्यायानुभवसद्भावात् / न चैवं शुक्ले शङ्गे पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वात् / न खलु सोऽस्खलद्पो , येन पूर्वाकारविनाशाजहद्वृत्तोत्तराकारोत्पादविनाभावी भवेत्।नच जीवादौ वस्तुनि हर्षाभाँदासीन्यादिपर्यायपरम्पराऽनुभयः स्खलद्रूपः, कस्यचिद्राधकस्याभावात्।ननूत्पादादयः परस्परं भिद्यन्ते,नवा? यदि मिद्यन्ते, कथमेकं वस्तुत्र्यात्मकम्? न भिद्यन्ते चेत्, तथापि कथमेकं त्र्यात्मकम्? तथाच"यद्युत्पन्त्यादयो भिन्नाः, कथमेकं त्रयात्मकम् ? अथोत्पत्त्यादयोऽभिन्नाः, कथमेकं त्रयात्मकम्? ||1||" इति चेत् / तदयुक्तम् / कथञ्चिदिन्नलक्षणत्वेन तेषां कथञ्चिद् भेदाभ्युपगमात् / तथाहि-उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वात्, रूपादिवत् / न च भिन्नलक्षत्वमसिद्धम् / असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्त्तनं च खलूत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिका--ण्येव / न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवद-सत्त्वापत्तेः / तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात, कूर्मरोमवत्। तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् / एवं स्थितिः के वला नास्ति, विनाशोत्पादशू-न्यत्वात्, तद्वदेव / इत्यन्योऽन्यापेक्षणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम्। तथा च कथं नैकं त्र्यात्मकम् ? उक्तं च पञ्चाशति "प्रध्वस्ते कलशे शुशोच तनया मौलौ समुल्पादिते, पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम्। पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् // 1 // " तथा च स्थितं नित्यानित्यानेकान्तःकान्त एवेति / एवं सदसदनेकान्तोऽपि। नन्वत्र विरोधः। कथमेकमेव कुम्मादिवस्तु सच, असय भवति? सत्त्वं ह्यसत्त्वपिरहारेण व्यवस्थितम्, असत्त्वमपि सत्त्वपरिहारेण, अन्यथा तयोरविशेषः स्यात्। ततश्च तद्यदिसत्कथम सत् ? अथासत्, कथं सदिति? तदनवदातम्।यतो यदि येनैव प्रकारेण सत्त्वम्, तेनैवाऽसत्त्वम्, येनैवचासत्त्वम्, तेनैवसत्त्वमभ्युपेयेत, तदा स्याद्विरोधः। यदातु स्वरूपेण घटादित्वेन, स्वद्रव्येण हिरण्डयादित्वेन, स्वक्षेत्रेण नगरादित्वेन, स्वकालत्त्वेन वासन्तिकादित्वेन सत्त्वम्, पररूपादिना तु पटत्यतन्तुत्वग्राम्य-त्वग्रैष्मिकत्वादिनाऽसत्त्वम्, तदा क्वविरोधगन्धोऽपि।येतु सौगताः परासत्त्वं नाभ्युपयन्ति, तेषां घटादेः सर्वात्मकत्वप्रसङ्गः। तथाहि-यथा घटस्य स्वरूपादिना सत्वं तथा यदि पररूपादिनाऽपिस्यात, तथा सतिस्वरूपादित्ववत् पररूपादित्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत्? परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति। अथन नाम नास्तिपरासत्वम्, किन्तु स्वसत्त्वमेव तदिति चेत्; अहो ! नूतन कोऽपि तर्कवितर्ककर्कशः समुल्लापः / न खलु यदेव सत्त्वम्, तदेवासत्त्वं भवितुमर्हति / विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरैक्यायोगात् / अथ पृथक् तन्नाभ्युपगम्यते; न च नाभ्युपगम्यत एवेति किमिदमिन्द्रजालम्? ततश्चास्यानक्षरमसत्वमेवोक्ते भवति / एवं च यथा स्वासत्त्चासत्त्वात्स्व सत्त्वं तस्य, तथा परासत्त्वासत्त्वात्परसत्त्वप्रसक्तिरनिवारितप्रसरा; विशेषाऽ-भावात्। अथ नाभावनिवृत्त्या पदार्थो भावरूपः प्रतिनियतो वा भवति, अपि तु स्वसामग्रीतः स्वस्वभावनियतएवोपजायत इति किंपरासत्त्वेनेति चेत्? न किश्चित् / के वलं स्वसामग्रीतः स्वस्या-वनियतोत्पत्तिरेव परासत्त्वात्मकत्वव्यतिरेकेण नोपपद्यते, पारमार्थिकस्वासत्त्वासत्त्वात्मकस्वसत्त्वेनैव परासत्त्वासत्त्वात्मकपरसत्त्वेनाप्युत्पत्तिप्रसङ्गात्। इति सूक्तः सदसदनेकान्तः। एवमपरेऽपि भेदाभेदानेकान्तादयः स्वयं चतुरैर्विवेचनीयाः संमतितर्का-दिभ्यो विस्तरभयान्नेह प्रतन्यते। अतोऽनेकान्तवाद एव सन्मार्गः। यदाह-- "इचेयं गणिपिडग, निचं दव्यट्ठियाएँ नायव्वं / पज्जाएण अणिचं, निचानिचं च सियवादो॥१॥ जो सियवायं मासति, पमाणनयपेसलं गुणाधारं। भावेइसे ण ण सयं, सो हि पमाणं पवयणस्स॥२॥ जो सियवायं निंदति, पमाणनयपेसलं गुणाधारं। भावेण दुट्ठभावो, न सो पमाणं पवयणस्स॥३॥" अथ समवायखण्डनम्अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुः सम्बन्धः समवायः। स च समवयनात् समवाय इति, द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते / तथा वृत्त्या समवायसम्बन्धेन तयाधर्मधर्मिणोरितरेतरविनिर्मुण्ठितत्वेऽपि धर्मधर्मिव्यपदेश इष्यते। अत्र जैनाचार्या वदन्तिअयं धर्मी, इमे चास्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं