________________ अधेकम्म ५९०-अभिधानराजेन्द्रः-भाग 1 अबेकम्म अरमाच कण्डकात्परतो यदन्यदनन्तरं संयमस्थानं भवति, तत् पूर्वस्मादसंख्येयभागाधिकम् / एतदुक्तं भवति- पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकादनन्तरे संयमस्थाने निर्विभागा भागा असंख्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति / ततः पुनरेकमसंख्येय-भागाधिकं संयमस्थानं, ततो भूयोऽपि, ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति। ततः पुनरप्येकमसंख्येयभागाधिकं संयमस्थानम् एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितानि असंख्येयभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति / ततश्चरमादसंख्येयभागाधिक-संयमस्थानात्पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि भवन्ति। ततः परमेकं संख्येयभागादिकं संयमस्थानम्, ततो मूलादारभ्य यायन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं संख्येयभागाधिकं संयमस्थानं वक्तव्यम् / इदं द्वितीयं संख्येयभागाधिकं संयमस्थानम्। ततोऽनेनैव क्रमेण तृतीयं वक्तव्यम्। अमूनि चैवं संख्येयभागाधिकानि स्थानानि तावद् वक्तव्यानि यावत्कण्ड कमात्राणि भवन्ति / तत उक्तक मेण भूयोऽपि संख्येयभागाधिकसंयमस्थानप्रसंगे संख्येयगुणा-धिकमेकं संयमस्थानं वक्तव्यम् / ततः पुनरपि मूलादारभ्य यायन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तत्रैव वक्त-व्यानि / ततः पुनरप्येकं संख्येयगुणाधिकं संयमस्थानं वक्तव्यम् / ततो भूयोऽपि मूलादारभ्य यावन्ति भवन्ति संयमस्थानानि तावन्ति तथैव वक्तव्यानि / ततः पुनरप्येकं संख्येयगुणाधिकं संयमस्थानं वक्तव्यम् / अमून्यप्येवं संख्येणगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति। तत उक्त क्रमेण पुनरपि संख्येयगुणाधिकसंयमस्थानप्रसंगे असंख्येयगुणाधिकं संयमस्थानं वक्तव्यम्। ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि, तावन्ति तेनैवक्रमेण भूयोऽपि वक्तव्यानि। ततः पुनरप्येकमसंख्येयगुणाधिकं संयमस्थानं वक्तव्यम्। ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि / ततः पुनरप्ये-कमसंख्येयगुणाधिकसंयमस्थानं वक्तव्यम् / यावन्ति अमूनि चेव संख्येयगुणाधिकसंयमस्थानानि तावन्त्यसंख्येयगुणाधिकसंयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति / ततः पूर्वपरिपाट्या पुनरप्य-संख्येयगुणाधिकसंयमस्थानप्रसंगे अनन्तगुणाधिकं संयमस्थानं वक्तव्यम् / ततः पुनरपि मूलादारभ्य थावन्ति संयमस्थानानि प्रागतिक्रान्तानि, तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि / ततः पुनरप्येकमनन्तमुणाधिकं संयमस्थानं वक्तव्यम्। ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि। ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम् / एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति / ततो भूयोऽपि तेषामुपरि पञ्चवृक्षात्मकानि संयमस्थानानि मूलदारभ्य तथैव वक्तव्यानि। यत्पुनरनन्तगुणवृद्धिस्थानं, तन्नप्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् / इत्थंभूतान्यसंख्येयानि कण्डकानि समुदितानि षट्स्थानकं भवति। तथा चाऽऽहभाष्यकृत् - "संखाईयाणि उ कंडगाणि छट्ठाणगं विणिदिव' सुगमम् / अस्मॅिश्च षट्स्थानके षोढा वृद्धिरुक्ता। तद्यथा-अनन्तभागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्धिः, संख्येयगुणवृद्धिः; असंख्येयगुणवृद्धिः, अनन्तगुणवृद्धिश्च। तत्र यादृशोऽनन्ततमो भागोऽसंख्येयतमः संख्येयतमो वा गृह्यते; यादृशस्तु संख्ये-योऽसंख्येयोऽनन्तो वा गुणकारः स निरूप्यते-तत्र यदपेक्षया अनन्तभागवृद्धिता तस्य सर्वजीवसंख्याप्रमाणेन राशिना भागो हियते, हृते च भागे लब्धः सोऽनन्ततमो भागः। तेनाधिकमुत्तरं संयमस्थानम् / किमुक्तं भवति ? प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसंख्याप्रमाणेन राशिना भागे हते सति ये लभ्यन्ते, ते तावत्प्रमाणैर्निर्विभागैर्भागैर्द्वितीये संयमस्थाने निर्विभागा अधिकाः प्राप्यन्ते, द्वितीयस्य संयमस्थानस्य ये निर्विभागास्तेषां सर्वजीवसंख्याप्रमाणेन राशिना भागे हृते सति यावन्तो लभ्यन्ते तावत्प्रमाणैनिर्विभागैरधिकास्तृतीये संयमस्थाने निर्विभागा भागाः प्राप्यन्ते / एवं यद् यत् संयमस्थानमनन्तभागवृद्धभुपलभ्यतेतत्तत् पाश्चात्यसंयमस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना भागे हृते सति यद् यल्लभ्यते ताव-त्प्रमाणेनानन्ततमेन भागेनाधिकमवगन्तव्यम् / असंख्येयभागा-धिकानि पुनरेवम्पाश्चात्यस्य पाश्चात्यसंयमस्थानस्य सत्कानां निर्विभागभागानामसंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते सोऽसंख्येयतमो भागः, स्व-तस्तेनासंख्येयतमेन भागेनाधिकानि असंख्येयभागाधिकानि स्थानानि वेदितव्यानि। संख्येयभागाधिकानि चैवम्-पाश्चात्यस्य संयमस्थानस्य उत्कृष्टेन संख्येयेन भागे हृते सति यद् यल्लभ्यते स स संख्येयतमो भागः / ततस्तेन तेन संख्येयतमेन भागेनाधिकानि संख्येयभागाधिकानि स्थानानि वेदितव्यामि। संख्येयगुणवृद्धानि पुनरेवम्-पाश्चात्यस्य पाश्चात्यसंयमस्थानस्य ये ये निर्विभागा भागास्ते ते उत्कृष्टेन संख्येयकप्रमाणेन राशिना गुण्यन्ते; गुणिते च सति यावन्तो यावन्तो भवन्ति तावत्तावत्प्रमाणानि संख्येयगुणाधिकानि स्थानानि द्रष्टव्यानि / एवमसंख्येगुणवृद्धानि, अनन्तगुणवृद्धानि च भावनीयानि; नवरमसंख्येयगुणवृद्धौ पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य निर्विभागा भागा असंख्येयलोकाकाशप्रदेश-प्रमाणेनासंख्येयेन गुण्यन्ते / अनन्तगुणवृद्धौ तु सर्वजीवप्रमाणेना-नन्तेन / इत्थं च भामहार-गुणकारकल्पनं मा स्वमनीषिकाशिल्प-कल्पितं मंस्थाः / यत उक्तं कर्मप्रकृतिसंग्रहिण्यां षट्स्थानकगत-भागहारगुणकारविचाराधिकारे -"सव्वजियाणमसंखेजा भाग-संखिज्जगस्स जेट्ठस्स / भागो तिसु गुणणा तिसु, ...." / इति। प्रथमाच षट्स्थानकादूर्ध्वमुक्तक्रमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेष तृतीयम्। एवं षट्स्थानकान्यपि तावद्वाच्यानि यावदसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति / उक्तं च - "छट्ठाणगअवसाणे, अन्नं छट्ठाणयं पुणो अन्नं / एवमसंखा लोगा, छट्ठाणाणं मुणेयव्वा' / इत्थंभूतानि च असंख्येयलोकाकाशप्रदेशप्रमाणानिषट्स्थानकानि संयमश्रेणिरुच्यते। तथा चाऽऽह- 'छट्ठाणा उ असंखा, संजमसेढी मुणेयव्वा' तथा (लेस ति) कृष्णादयो लेश्याः स्थितिविशेषाः, उत्कृष्टानां सर्वोत्कृष्टानां सातवेदनीयप्रभृतीनां विशुद्धप्रकृतीनां संबन्धिनो विशुद्धाः स्थितिविशेषा