________________ अधिगरण 586 - अभिधानराजेन्द्रः-भाग 1 अधिगरण रायडुटुं ओमं, असिवं वा अंतर तहिं वा।। अथवा सोऽधिकृतः क्षमयितुमना अभ्युद्यतं विहारं प्रतिपत्तुकामो लग्नं प्रत्यासन्नं, ततो गन्तुं न शक्नोति / अथवा- अन्तराले तत्र वा यत्राधिकरणमुत्पन्नं, भिक्षाया अलाभो, यदि वाऽन्तरस्तत्र वा राजद्विष्टमवमौदर्यमशिवं वा। सबरपुलिंदादिभयं, अंतर तहियं च अहव हुजाहि। एएण कारणेणं, वचंतं कंपि अप्पाहे // अन्तरा तत्र वा शबरभयं पुलिन्दभयम्, आदिशब्दात् स्तेनम्लेच्छादिभयपरिग्रहः / भवेत्, त एतैः कारणैस्तत्र गन्तुमशक्नुवन् यः कोऽप्यन्यः श्रावको वा, सिद्धपुत्रो वा, मिथ्यादृष्टिा, तत्र भद्रको व्रजति, तं संदेशयति / यथाऽहमधुनोपशान्त एतैश्च कारण-रागन्तुमशक्तः, तस्मात्त्वमत्रागत्य मया सह क्षमणं कुरु। ततः संदेशे कथितेऽनेन यत्कर्त्तव्यं तदाहगंतूण सो वितहियं, सपक्खपरपक्खमेव मेलित्ता। खामेइ सो वि कजं, व दीहए आगतो जेण / / यस्य संदेशः कथापितः, सतत्र गत्वायैस्तदधिकरणं ज्ञातं सपक्षं परपक्ष च मेलयित्वा तं क्षमयति; सोऽपि च क्षम्यमाणो येन कारणेनागतस्तत्कारणं तस्य साक्षादीक्षयति कथयति। अह नत्थि को वि वचंतो, ताहे उवसमति अप्पणा। खामेइ जत्थ मिलती, अद्दिटे गुरुणंतियं काउं। अथ नास्ति कोऽपि तत्र व्रजन् यस्य संदेशः कथ्यते, तर्हि आत्मना स्वयमुपशाम्यति, सर्वथा मनसोऽधिकरणमुपशमपरायणतया स्फेटयति, ततो यत्र मिलति, तत्र क्षमयति। अथ न क्वापि मिलति, ततस्तस्मिन्नदृष्ट गुरूणामन्तिकं कृत्वा तं मनसि कृत्य क्षामणं करोति / व्य० 1 उ० / ('वसही' शब्दे साधुसाध्वीकलहे यतना ‘एकवगडा' प्रस्तावे द्रष्टव्या) (16) निर्ग्रन्थीभिर्व्यतिकृष्टमप्यधिकरणंव्युपशमनीयम् - कप्पइ निग्गंथीणं वितिविट्ठाइं पाहुडाई वितोसइत्तए। कल्पते निर्गन्थीनां व्यतिकृष्टानि कलहान वितोषयितुमुपशमयितुमित्येष सूत्राक्षरार्थः / संप्रति भाष्यप्रपञ्चःनिग्गंथीणं पाहुड, वितोसवियव्वं वितिगिट्ट। किह पुण होज उप्पण्णं? चेइयघरवंदमाणीणं / / चेइयथुतीण भणणे, उण्हे उ अण्णतो बहि अच्छंति / परितावियाम धणियं, कोइलसद्दाहिँ तुम्माहिं / / निर्ग्रन्थीनां प्राभृतं वितोषयितव्यमुपशमयितव्यं भवति व्यतिकृ-ष्टम्। शिष्यः प्राह-कथं केन प्रकारेण पुनस्तासामधिकरणमुत्पन्नं स्यात् ? सूरिराह-काश्चनाऽऽर्यिकाश्चैत्यवन्दनाय चैत्यगृहं गताः, तस्मिंश्च चैत्यगृहे बहिर्मुखमण्डपादिकं न समस्ति; तत-श्चैत्यगृहमध्यस्थिताः चैत्यानि वन्दन्ते, तासांचवन्दमानानां प्रथमस्तुतेरारभ्याऽन्याः काश्चन संयत्यः समागताः, ताश्च मध्ये अवकाशो नास्तीति बहिरुष्णे स्थिताः / ततो विस्तरेण चैत्यस्तुतीनां भणने ता बहिः स्थिताः उष्णेन परिताप्यमाना वदन्ति- युष्माभिः कोकिलाशब्दाभिर्धणियमतिशयेन वयं परितापिताः। नग्घंति नाडनाई, कलंऽपि कलभाणणीण तुम्हाण। विप्पगते भवतीणं, जायंते भयं नरवतीतो॥ युष्माकं कलभाननानां तु स्वरमनोज्ञाननानांपुरतः कलामपि मनागपि नाटकानि नार्हन्ति, ततो भवतीनां विप्रकृते कारणमजानानानामस्माकं भयं नरपतितो यद् यूयं नाटके प्रक्षेप्स्यध्वे। इति असहणउत्तेजित-मज्झत्था तो समंति तत्थेव। असुणाम सव्वगणभंडणे व गुरुसिद्विमा मेरा / / इत्येवमुपदर्शितेन प्रकारेणासहनाभिर्या उत्तेजिताः कोपं आहितानां मध्यस्थाः संयत्यस्तत्रेव शमयन्ति / न च तास्तद् भण्डनं कस्यापि श्रावितवत्यः / अथ मध्यस्थानां संयतीनामभावतो वेलावशाद्वा सर्वगणस्य भण्डनमभूत, तर्हि सर्वगणभण्डने स्वस्वगुरुशिष्टं कर्तव्यम्। ततस्तावुपशमयतः। अथ लज्जातो भयतो वा न स्वस्वगुरोर्निवेदितं तर्हि तत्रेयं मर्यादा एतदेवाऽऽहगणहरगमणं एगाऽऽयरियस्स दोन्नि वा वग्गा। आसन्नागम दूरे, च पेसणं तं च बितियपयं॥ समस्तस्यापि गणस्य भण्डने गते आत्मीयस्य समीपे गमनम्, अथवा एकस्याचार्यस्य संबन्धिनौ तो द्वावपि संयतवर्गी, तत एकस्य समीपे गच्छतः, ततः स एकस्तौ वा द्वौ गणधरौतदधिकरणं यत्र चैत्यगृहेऽन्यत्र चोत्पन्नं, तत्र द्वावपि वर्गों नीत्वा उपशमयतः / अथ लज्जादिना स्वस्वगुरोर्निवेदितमेकतरश्च पक्षो निर्गतः, तत आह- (आसन्नेत्यादि) यद्यासन्नं गतोऽपान्तराले च निर्भयं, ततः स आनाय्यते, अथ सापायं तर्हि तासांगणधर आगच्छति, आगत्य क्षमणं करोति। अथ दूरे गतस्तर्हि वृषभाणां प्रेषणं कर्त्तव्यम्, ततो वृषभाः समेत्य ताः संयतीः क्रमयन्ति। अथ द्वितीयपक्षो नोपशान्तस्ततः पुनरावृत्तौ जातायां पूर्वोक्तवदेवं प्रागुक्तं द्वितीय पदमवसातव्यम्; यत्र मिलन्ति तत्रैव क्षमयन्ति / अमिलने गुरूणामन्तिके इति। एतदेव मूलतः सविस्तरं विभावयिषुरिदमाहचेइयधरं नइत्ता, जत्थुप्पन्नं च तत्थ विज्झवणं / लज्ज भया व असिट्टे, दुवेगतरनिग्गम इमं तु / / स्वस्वगुरुनिवेदने कृतेतौ द्वावपि गुरूसंयतीवर्गद्वयमपिचैत्यगृहं नीत्वा, अथवा यत्रान्यत्रोत्पन्नमधिकरणं तत्र नीत्वाऽधिकरणस्य विध्यापनं कुरुतः। अथ लज्जया भयाद्वा गुरुणामशिष्टमभवत् / द्वयोश्च पक्षयोर्मध्ये एकतरस्य पक्षस्य निर्गमस्तत इदं कर्त्तव्यम् आसन्नमणायाए, अणवाएँ वा से गणहरा गम्म। जणनाय अभिक्खामण, आणाविजऽन्नहिं वा वि॥ यद्यासन्नं निर्भयं च ततस्ता निर्गताः संयत्यः स्वगणेन सह आनाय्यन्ते। अथ सापायं ततस्तासांगणधर आगच्छति, ततस्ताः संयत्य आनीताः, गणधरो वा एकक आगतो यत्र जनज्ञातं भण्डनमभूत्, तत्रानाय्यन्ते। अन्यत्र वा आनाय्यपरस्परमभिक्षमणं कार्यम् / अथ दूरे गतास्तर्हि वृषभाः समागत्य संयतीःक्षमयन्ति। व्य०७ उ०॥ तथा